________________ बुद्धिविवेचनम् / न्यायभाष्यम् / 299 .. असंख्येयेषु ज्ञानकारितेषु संरकारेषु स्मृतिहेतु वात्मसमवेतेषु आत्ममनसोश्च संनिकर्षे समाने रमृतिहेतौ सति न कारणस्याऽयोगपद्यमस्तीति युगपत्स्मृतयः प्रादुर्भवेयुर्यदि बुद्धिरात्मगुणः स्यादिति, तत्र कश्चित् संनिकर्षस्याऽयोगपद्यमुपपादयिष्यन्नाहज्ञानसमवेतात्मप्रदेशसंनिकर्षान्मनसः स्मृत्युत्पत्तेर्न युगपदुत्पत्तिः // 25 // ज्ञानसाधनः संस्कारो ज्ञानमित्युच्यते ज्ञानसंस्कृतैरात्मप्रदेशैः पर्यायेण मनः संनिकृष्यते. आत्ममनरसंनिकर्षात् स्मृतयोपि पर्यायेण भवन्तीति // 25 // न- अन्तःशरीर वृत्तित्वान्मनसः // 26 // गृह्यते इति, बुद्धिसंतानः= उत्तरोत्तरं ज्ञानपरम्परा, तत्र= ज्ञानपरम्परायाम्. बुद्धेः= पूर्वपूर्वज्ञानानाम् बुद्धयन्तरम्= उत्तरोत्तरं ज्ञानं विरोधी गुण इत्यनुमीयते अन्यथा पूर्वपूर्वज्ञानस्य नाशो न स्यात् न चैवमस्ति तथा च विरोधिना उत्तरोत्तरज्ञानेन पूर्वपूर्वज्ञानस्य विनाशो भवतीति ज्ञानस्यात्मगुणत्वेपि नित्यत्वापत्तिर्नास्तीत्यर्थः / अत्र दृष्टान्तमाह- यथेति, यथोत्तरशब्दः पूर्वशब्दविरोधी तथेत्यन्वयः / "तदात्मगुणत्वेपि” इति पूर्वसूत्रे समुचितदोषस्य तु पूर्वकविंशतिसूत्रेण प्रत्याख्यानमुक्तमेव / / 24 / / ___ ज्ञानस्यात्मगुणत्वे स्मृतीनां योगपद्यदोषापत्तिमाह- असंख्येयेष्विति, ज्ञानस्यात्मगुणत्वे गन्धादिज्ञानं प्रति इन्द्रियमनस्संनिकर्षस्य कारणत्वस्वीकारेणैकविंशतिसूत्रोक्तरीत्या गन्धादिज्ञानानां योगपद्ये पराकृतेपि स्मृतीनां योगपद्यमापद्यतैव यत आत्ममनस्संनिकर्षः संस्कारश्चेति द्वयमेव स्मृतिकारणं तत्र ज्ञानकारिता: ज्ञानजन्याः स्मृतिहेतुभूता: संस्कारा असंख्येया आत्मसमवेताः सन्त्येव आत्मनो विभुत्वेनात्ममनस्संनिकर्षोप्यस्त्येव तदेतत् कारणद्वयं सर्वासां स्मृतीनां समानमेवास्तीति कारणस्य= स्मृतिकारणस्योक्तस्याऽयौगपद्यं नास्ति किं तु यौगपद्यमेव प्राप्तमिति तत्कार्यभूतानां स्मृतीनामपि यौगपद्यं प्राप्तं न च स्मृतीनां यौगपद्यमनुभूयते इति न ज्ञानस्यात्मगुणत्वं स्वीकार्यमित्यर्थः / आत्ममनसोः संनिकर्षे स्मृतिहेतौ समाने सतीत्यन्वयः, समानत्वम्= सर्वस्मृतिसाधारणत्वम् / अत्राग्रिमसूत्रमवतारयति-- तत्रेति, संनिकर्षस्य= आत्ममनस्संनिकर्षस्य, अयोगपद्यमुपपादयिष्यन्= अयोगपद्योपपादनार्थमेतत्सूत्रमाहेत्यन्वयः / ज्ञानेति- ज्ञानम्= संस्कारः समवेतो यस्मिन् स ज्ञानसमवेतः= संस्कारसमवायी य आत्मप्रदेशस्तेन मनसः संनिकर्षात्स्मृतिरुत्पद्यते इति न स्मृतीनां युगपदुत्पत्त्यापत्तिरित्यन्वयः, यद्यप्यात्ममनस्संनिकर्षः संस्कारश्च सर्वस्मृतिहेतुभूतः सर्वदास्ति तथापि संस्काराणामात्मनो भिन्नभिन्नप्रदेशेषु समवायोस्ति न त्वेकस्मिन्नेव प्रदेशे. मनसश्चाणुत्वात् तादशैरात्मनोऽनेकैः प्रदेशैयुगपत्संनिकों न संभवतीति न युगपत् सर्वस्मृतीनामुत्पत्त्यापत्तिः किं तु तादृशसंनिकर्षस्य क्रमेण जायमानत्वात् स्मृतीनामपि क्रमेण जायमानत्वेनाऽयोगपद्यं सिद्धमिति सूत्रार्थः / व्याचष्टे- ज्ञानेति, ज्ञानं साधनं यस्य स ज्ञानसाधनः= ज्ञानजन्यः संस्कारः सूत्रघटकज्ञानशब्देन ग्राह्य इत्यर्थः, ज्ञानसंस्कृतैः ज्ञानजन्यसंस्कारविशिष्टैरात्मप्रदेशैः पर्यायेण= क्रमेणैव मनस्संनिकर्षों जायते- मनसोऽणुत्वाद् युगपदनेकत्र संयोगासंभवात् , क्रमेण जायमानाचात्ममनस्संनिकर्षात् तत्कार्यभूताः स्मृतयोपि क्रमेण भवन्तीति ज्ञानस्यात्मगुणत्वेपि सर्वस्मृतीनां योगपद्यापत्तिर्नास्तीत्यर्थः / संस्काराणां च परस्परं भेदादात्मप्रदेशभेदेनैव वृत्तित्वं विज्ञेयं सर्वेषां सर्वदा च सत्त्वात् कालभेदेनाप्येकप्रदेशवृत्तित्वं नोपपद्यते यथान्तःकरणावच्छिन्नात्मप्रदेशे एकदा नाऽनेकज्ञानादीनां सत्त्वं संभवति तथात्र सदातनानां संस्काराणां प्रदेशभेदेन समवायो विज्ञेय इत्याशयः / / 25 / / ___ उक्त परिहरति- नेति, शरीराद् बहिरात्मनः संस्कारविशिष्टैः प्रदेशैर्मनसः संयोगो नोपपद्यतेमनसः शरीराभ्यन्तरे एव वर्तमानत्वात्. शरीरान्तर्गतैरात्मप्रदेशैश्च मनस्संनिकर्षस्य सत्त्वादेव शरीरान्तर्गतात्मप्रदेशानामेव विविधसंस्कारयुक्तत्वात् ज्ञानस्यात्मगुणत्वे उक्तरीत्या स्मृतीनां युगपदुत्पत्तिः स्यादे