________________ 298 प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्निके___ आत्मेन्द्रियसंनिकर्षमात्राद् गन्धादिज्ञानमुत्पद्यते इति नात्रोत्पत्तिकारणमपदिश्यते येनैतत् प्रतिपद्येमहीति // 22 // विनाशकारणानुपलब्धेश्वावस्थाने तन्नित्यत्वप्रसङ्गः // 23 // " तदात्मगुणत्वेपि तुल्यम् 20" इत्येतदनेन समुच्चीयते, द्विविधो हि गुणनाशहेतु:गुणानामाश्रयाभावो विरोधी च गुणः, नित्यत्वादात्मनोऽनुपपन्नः पूर्वः, विरोधी च बुद्धेर्गुणो न गृह्यते. तस्मादात्मगुणत्वे सति बुद्धनित्यत्वप्रसङ्गः // 23 // अनित्यत्वग्रहाद् बुद्धेर्बुद्धयन्तरादिनाशः शब्दवत् // 24 // अनित्या बुद्धिरिति सर्वशरीरिणां प्रत्यात्मवेदनीयमेतत्. गृह्यते च बुद्धिसंतानस्तत्र बुद्धेर्बुद्धयन्तरं विरोधी गुण इत्यनुमीयते यथा शब्दसंताने शब्दः शब्दान्तरविरोधीति // 24 // शङ्कते- यदीति, इत्युच्यते इतिशेषः / उक्तं परिहरति- नेति, मनस्संनिकर्षरहिताद् आत्मेन्द्रियार्थसंनिकर्षमात्राद् गन्धादिज्ञानं नोत्पद्यते- आत्मेन्द्रियार्थसंनिकर्षमात्रस्य उत्पत्तिकारणानपदेशात्= ज्ञानोत्पत्तिकारणत्वस्यानिर्देशात् नात्मेन्द्रियार्थसंनिकर्षमात्रस्य ज्ञानोत्पत्तिकारणत्वं संभवति येन ज्ञानस्यात्मगुणत्वे युगपदनेकज्ञेयोपलब्धिप्रसङ्गः स्यात् किं त्विन्द्रियमनस्संनिकर्षस्यापि ज्ञानकारणत्वमस्तीत्युक्तरीत्या न युगपदनेकज्ञेयोपलब्धिप्रसङ्ग इतिसूत्रार्थः / विश्वनाथभट्टैस्तु सूत्रमिदमाक्षेपपरत्वेन व्याख्यातं तत्तु न युक्तं प्रतिभाति- एतदाक्षेपपरिहारस्यादर्शनादने ।व्याचष्टे- आत्मेति, अत्र शास्त्रे आत्मेन्द्रियार्थसंनिकर्षमात्राद् गन्धादिज्ञानमुत्पद्यते इति ज्ञानोत्पत्तिकारणं नापदिश्यते= नोपदिश्यते येन एतत्= आत्मेन्द्रियार्थसंनिकर्षमात्रस्य गन्धादिज्ञानोत्पत्तिकारणत्वं प्रतिपद्येमहि= स्वीक्रियेत तेन च मत्पक्षे युगपदनेकज्ञेयोपलब्धिप्रसङ्गः स्यादित्यन्वयः, तथा चोक्तरीत्येन्द्रियमनस्संनिकर्षस्यापि ज्ञानकारणत्वाद् ज्ञानस्यात्मगुणत्वेपि युगपदनेकज्ञेयोपलब्धिप्रसङ्गो नास्ति-मनसोऽणुत्वेन युगपदनेकैरिन्द्रियैः संनिकर्षासंभवादित्यर्थः // 22 // ज्ञानस्यात्मगुणत्वे पुनर्दोषमाह- विनाशेति, यदि ज्ञानमात्मगुणस्तदात्मनो नित्यत्वेन तद्गुणभूतस्य ज्ञानस्य विनाशकारणानुपलब्धेः= विनाशकारणासंभवादवस्थाने प्राप्ते तत्= तस्य= ज्ञानस्य नित्यत्वं प्रसज्येत-नित्यपदार्थगुणानां नित्यत्वसंभवात् . नित्यत्वं च ज्ञानस्य त्वया न स्वीक्रियते इत्ययं ज्ञानस्यात्मगुणत्वे दोष इतिसूत्रार्थः / व्याचष्टे- तदात्मेति, सूत्रघटकचकारेण " तदात्मगुणत्वेपि तुल्यम् 20" इतिसूत्रेण ज्ञानस्यात्मगुणत्वे युगपदनेकज्ञेयोपलब्धिप्रसङ्घलक्षणो यो दोषः प्रदर्शितः स समुच्चीयते तथा च ज्ञानस्यात्मगुणत्वे दोषद्वयं प्राप्तमित्यर्थः / वस्तुतस्त्वेतद्दोषसमुच्चयो न युक्त:- तस्य दोषस्य पूर्वत्र प्रत्याख्यातत्वादितिविभाव्यम् / गुणनाशकस्य द्वैविध्यमाह-द्विविध इति, गुणानामाश्रयनाशेनापि नाशो भवति यथा घटनाशेन घटगुणभूतगुरुत्वादीनां. विरुद्धगुणोत्पत्त्यापि नाशो भवति यथा रक्तरूपोत्पत्त्या नीलरूपस्य / प्रकृतमाह- नित्यत्वादिति, आत्मगुणस्य ज्ञानस्याश्रयनाशान्नाशो न संभवति- आत्मनो ज्ञानाश्रयस्य नित्यत्वेन नाशासंभवात् / द्वितीयाभावमाह-विरोधीति, यद्यात्मगुणस्य ज्ञानस्य कोप्यात्मगुणो विरोधी भवेत्तदा तदुत्पत्त्या ज्ञानविनाशः स्यादपि न चैवमस्ति- सर्वेषामप्यात्मगुणानां ज्ञानविषयत्वसंभवेन ज्ञानविरुद्धत्वासंभवादित्यर्थः / उपसंहरति- तस्मादिति / तथा च ज्ञानस्यानित्यत्वोपपत्त्यर्थमनित्यपदार्थगुणत्वं स्वीकार्य नात्मगुणत्वमित्यर्थः // 23 // ____ उक्तदोषं निराकरोति- अनित्येति, बुद्धेः= ज्ञानस्यानित्यत्वं स्पष्टमेवेति शब्दवत्= यथोत्तरशब्देन पूर्वशब्दस्य विनाशो भवति तथोत्तरज्ञानेन पूर्वज्ञानस्य विनाशः संभवतीति ज्ञानस्यात्मगुणत्वेपि नित्यत्वापत्तिर्नास्तीति सूत्रार्थः / व्याचष्टे- अनित्येति, अनेन ज्ञानस्यानित्यत्वं प्रत्यक्षसिद्धमित्युक्तम् , प्रत्यात्मम्= स्वस्वात्मसाक्षितया. वेदनीयम्= विदितमेव इत्येतत् इत्यन्वयः / ज्ञानानामनेकत्वमाह