________________ न्यायभाष्यम्। बुद्धिविवेचनम् ] 297 पपद्यते नाणौ मनसीति / विभुत्वे वा मनसो ज्ञानस्य नात्मगुणत्वप्रतिषेधः- विभु च मनस्तदन्तःकरणभूतमिति तस्य सर्वेन्द्रियैर्युगपत् संयोगात् युगपज् ज्ञानान्युत्पद्येरनिति // 19 // तदात्मगुणत्वेपि तुल्यम् // 20 // विभुरात्मा सर्वेन्द्रियैः संयुक्त इति युगपज्ज्ञानोत्पत्तिप्रसङ्ग इति // 20 // __इन्द्रियैर्मनसः संनिक भावात् तदनुत्पत्तिः // 21 // गन्धाापलब्धेरिन्द्रियार्थसंनिकर्षवद् इन्द्रियमनस्संनिकर्षोपि कारणं तस्य चायौगपद्यम्अणुत्वान्मनसः अयोगपद्यादनुत्पत्तियुगपज्ज्ञानानामात्मगुणत्वेपीति // 21 // यदि पुनरात्मेन्द्रियार्थसंनिकर्षमात्राद् गन्धादिज्ञानमुत्पद्यते ? न- उत्पत्तिकारणानपदेशात् // 22 // शरीरेषु / पर्यवसितमाह- तदिति, योगिनोऽनेकेषु निर्मितशरीरेषु युगपज्ज्ञेयोपलब्धिातुर्विभुत्वे एवापपद्यत यदि चाणुभूतं मन एव ज्ञानगुणकम् ज्ञातृ स्यात्तदा तस्याणुत्वादेव सर्वशरीरेषु युगपत्संबन्धाभावाद् युगपज्ज्ञेयोपलब्धिर्न स्यादिति न ज्ञानं मनोगुण इत्यर्थः / अत्र- " विकरणधर्मेतिभाष्यं विशिष्टं करणं धर्मो यस्य सविकरणधर्मा= अस्मदादिकरणविलक्षणकरणो येन व्यवहितविप्रकृष्टसूक्ष्मादिवेदी भवतीत्यर्थः" इति तात्पर्यटीका / विभुत्वे इति- यदि च मनो विभु ज्ञानगुणकं च तदा तदेवात्मेति सिद्धमिति ज्ञानस्यात्मगुणत्वं सिद्धमेवेति नात्मगुणत्वप्रतिषेधः संभवतीत्यर्थः / ननु नैवमुच्यते किं तु आत्मातिरिक्तस्यान्तःकरणभूतस्य मनसो ज्ञानगुणकत्वं विभुत्वं चोच्यते तथा च न योगिनो युगपज्ज्ञेयोपलब्ध्यनुपपत्तिर्न वा ज्ञानस्यात्मगुणत्वप्रतिषेधानुपपत्तिश्चेत्याशङ्कयाह- विभु चेति, एवं हि तस्य= विभुभूतस्य मनसः सर्वैरिन्द्रियैर्युगपत्संयोगसंभवादयोगिनोपि युगपत्सर्वज्ञेयोपलब्धिः स्यात् न चैवमस्तीति न मनसो विभुत्वं संभवति तथा च ज्ञानस्यात्मगुणत्वमेव युक्तमुक्तरीत्यर्थः // 19 // 'ज्ञानस्यात्मगुणत्वेप्युक्तदोषमतिदिशति-तदेति, ज्ञानस्यात्मगुणत्वेपि तत्= युगपज्ज्ञेयोपलब्धिलक्षणं दूषणं तुल्यमेव-आत्मनो विभुत्वेन सर्वैरपीन्द्रियैर्युगपत्संयोगसंभवात् तेन च युगपज्ज्ञेयोपलब्धिप्रसङ्गः- ज्ञानस्यात्मगुणत्वादिति सूत्रार्थः ।व्याचष्टे-विभुरिति, संयुक्तः युगपत्संयुक्तः / अन्यत्स्पष्टमुपपादितं च॥२०॥ ज्ञानस्यात्मगुणत्वे उक्तदोषं निराकरोति- इन्द्रियैरिति, यद्यात्मन एव सर्वेन्द्रियैः संयोगेन ज्ञानमुत्पद्येत तदा ज्ञानस्यात्मगुणत्वे युगपत्सर्वज्ञेयोपलब्धिः प्रसङ्गः स्यादपि न चैवमस्ति किं त्विन्द्रियैर्मनस्संनिकर्षस्यापि ज्ञानोत्पत्तिकारणत्वमस्ति तत्रेन्द्रियैः सर्वैर्मनसोऽणुत्वेन युगपत्संनिकर्षासंभवात् तदनुत्पत्तिः= युगपत्सर्वज्ञेयोपलब्धेरुत्पत्त्यापत्तिर्नास्तीति सूत्रार्थः / व्याचष्टे- गन्धादीति / पर्यवसितमाह- तस्येति, तस्य= इन्द्रियैर्मनस्संनिकर्षस्य, अयोगपद्ये हेतुमाह- अणुत्वादिति, अणुपदार्थस्यानेकैः संयोगो युगपन्न संभवतीति स्पष्टमेव / उपसंहरति- अयोगपद्यादिति, ज्ञानस्यात्मगुणत्वेपि इन्द्रियमनस्संनिकर्षस्य ज्ञानोत्पत्तिकारणस्याऽयोगपद्यादेव युगपदनेकज्ञानानामुत्पत्तेरापत्तिर्नास्तीति ज्ञानस्यात्मगुणत्वे दोषाभावाद् ज्ञानमात्मगुण एवेति सिद्धमित्यर्थः // 21 // . ननु यदि ज्ञानमात्मगुणस्तदा मनस्संयोगस्य ज्ञानकारणत्वं न स्वीकार्यम्- मनसो विषयत्वाभावात् विषयग्राहकेन्द्रियत्वाभावात् ज्ञानाश्रयत्वाभावाच्च. किं तु आत्मेन्द्रियार्थानां संयोगमात्रादेव ज्ञानोत्पत्तिः स्वीकार्या तत्रात्मनो ज्ञानाश्रयत्वात् अर्थस्य विषयत्वादिन्द्रियाणां चार्थप्राहकत्वादित्येषामेव त्रयाणां संयोगस्य ज्ञानकारणत्वयुक्तत्वात् तत्र च युगपत्सर्वज्ञेयोपलब्धिप्रसङ्गः- आत्मनो विभुत्वेन सर्वैरपीन्द्रियैयुगपत् संयोगसंभवात् इन्द्रियाणामपि स्वस्वविषयैर्युगपत्संयोगसंभवाच. न च युगपत्सर्वज्ञेयोपलब्धिरस्तीति न ज्ञानमात्मगुणः किं तु मनोगुणः तत्र च न युगपत्सर्वज्ञेयोपलब्धिप्रसङ्ग:- मनसोऽणुत्वादित्यान