________________ 296 प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्निके युगपज्ज्ञेयानुपलब्धिरन्तःकरणस्य लिङ्गं तत्र युगपद्ज्ञेयानुपलब्ध्या यदनुमीयतेऽन्तकरणं न तस्य गुणो ज्ञानम् / कस्य तर्हि ?, ज्ञस्य- वशित्वात्= वशी ज्ञाता वश्यं करणम् , ज्ञानगुणत्वे वा करणभावनिवृत्तिः / प्राणादिसाधनस्य च ज्ञातुर्गन्धादिज्ञानभावादनुमीयते-- अन्तःकरणसाधनस्य सुखादिज्ञानं स्मृतिश्चेति, तत्र यत् ज्ञानगुणं मनः स आत्मा. यत्तु मुखाद्युपलब्धिसाधनमन्तःकरणं मनस्तदिति संज्ञाभेदमानं नार्थभेद इति / युगपज्ञेयानुपलब्धेश्वाऽयोगिन इति चार्थः, योगी खलु ऋद्धौ प्रादुर्भूतायां विकरणधर्मा निर्माय सेन्द्रियाणि शरीरान्तराणि तेषु तेषु युगपज् ज्ञेयान्युपलभते तचैतद् विभौ ज्ञातयुसर्वैरिन्द्रियैर्युगपत्संयोगो न संभवतीति युगपत्सर्वज्ञेयानुपलब्धिरुपपद्यते तत्र युगपज्ज्ञेयानुपलब्धेः सिद्धस्य मनसोपि ज्ञानगुणकत्वं न संभवति- मनसो ज्ञानकरणत्वेनैव कल्पितत्वात् ज्ञानक्रियाकर्तृत्वेन= ज्ञातृत्वेन कल्पितत्वाभावाच्चेति न ज्ञानं मनोगुण इतिसूत्रार्थः, अत्र- " यत्करणत्वेनानुमितं तत् करणत्वमपोद्य न कर्तृ भवितुमर्हतीत्यर्थः” इति तात्पर्यटीका / किं वा यदि ज्ञानं मनोगुणः स्यात्तदा सर्वशरीरवृत्तिसुखादिप्रतिभासाथै मनसो विभुत्वमवश्यं स्वीकार्य स्यात् तथा च तादृशविभोर्मनसः सर्वैरपीन्द्रिवैर्युगपत्सं. योगसंभवात् शब्दस्पर्शादीनां ज्ञेयानां युगपदुपलब्धिः स्यात् न च भवतीति युगपज्ज्ञेयानुपलब्ध्या न ज्ञानं मनोगुणः, यदि च युगपज्ज्ञेयानुपलब्ध्युपपत्त्यर्थं सूक्ष्म साधनान्तरं कल्प्यते तदा संज्ञाभेदमात्रं स्यात् य एव मयात्मेत्युच्यते स एव त्वया मन इति नार्थभेद इति नात्मातिरिक्तस्य मनसो ज्ञानं गुणः किं त्वात्मगुण एवेतिसूत्रार्थः / व्याचष्टे- युगपदिति, तदेतद्वहुधा व्याख्यातम् / प्रकृतमाह- तत्रेति, अन्तःकरणम्= मनः, तस्य= मनसः, युगपज्ज्ञेयानुपलब्ध्या ज्ञानकरणत्वेनैव मनोऽनुमानेन कल्प्यते इति न मनोगुणो ज्ञानम्- ज्ञानस्य ज्ञातृगुणत्वात् मनसश्च ज्ञातृत्वाभावादित्यर्थः / ज्ञानगुणिनं जिज्ञासतेकस्येति, यदि ज्ञानं न मनोगुणस्तर्हि कस्य गुण इत्यन्वयः / उत्तरमाह- ज्ञस्येति, ज्ञानं ज्ञातुर्गुण इत्यर्थः / उक्ते हेतुमाह- वशित्वादिति, एतव्याचष्टे- वशीति, करणं कर्तुर्वश्यं भवति- कतुः स्वतन्त्रत्वादिति प्रसिद्धमेव तथा च यथा घटोत्पादनादिक्रिया कर्तुरेव न दण्डादिकरणस्य तथा ज्ञानक्रियापि ज्ञातुरात्मन एव न करणस्य मनस इति ज्ञानस्यात्मगुणत्वं सिद्धमित्यर्थः / विपक्षे बाधकमाह- ज्ञानगुणत्वे इति, यदि ज्ञानं मनोगुणः स्यात्तदा मनसो करणभावः= ज्ञानकरणत्वं न भविष्यति- तक्रियाविशिष्टस्य तत्क्रियाकरणत्वासंभवाद् न चैतद्युक्तमित्यर्थः / ननु निवर्ततां मनसो ज्ञानकरणत्वमित्याशङ्कय मनसो ज्ञानकरणत्वमुपपादयति- ब्राणादीति, ज्ञातुरात्मनो यथा घ्राणादिलक्षणेन साधनेन= करणेनैव गन्धादिज्ञानभावात्= गन्धादिज्ञानं जायते तथा सुखादिज्ञानं स्मृतिरूपं च ज्ञानं मनोलक्षणेन करणेनैव जायते इत्यनुमीयते अन्यथा घाणादीनामप्यपेक्षा न स्यादिति मनसो ज्ञानकरणत्वमावश्यकमेव- क्रियामात्रस्य करणसापेक्षत्वादित्यर्थः / उपसंहरति- तत्रेति, यदि त्वया ज्ञानस्य मनोगुणत्वमुच्यते तदा यत् ज्ञानगुणकं तत्त्वया मन इति मया चात्मेत्युच्यते यत्तु सुखाद्यपलब्धिसाधनम्= सुखादिज्ञानकरणं तत्त्वयाऽन्तःकरणमिति मया च मन इत्युच्यते इति संज्ञाभेदमात्रं नार्थभेदः- ज्ञानगुणकस्य सुखाद्युपलब्धिसाधनस्य च त्वयापि मयापि च स्वीकृतत्वादेवेत्यर्थः॥ सूत्रघटकचकारस्य बोध्यमाह- युगपदिति, चकारेण 'अयोगिनः' इतिग्राह्यम्- अयोगिन एव युगपज्ज्ञेयानुपलब्धेर्दर्शनात् योगिनश्च युगपदपि ज्ञेयोपलब्धेर्योगशास्त्रे प्रतिपादनात् तथा च योगसूत्रम्" तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम्" इति, अत्र- " अक्रममित्येकक्षणोपारूढं सर्व सर्वथा गृह्णातीत्यर्थः" इतियोगभाष्यम् / वस्तुतस्त्वत्र- 'युगपज्ज्ञेयोपलब्धेश्च योगिन इति चार्थः। इति वक्तव्यमासीत्- अग्रिमभाष्यानुकूल्यात् / उक्तस्याभिप्राय विशदयति- योगीति, ऋद्धौ= अणिमादिसिद्धौ, विकरणधर्मा= इन्द्रियेषु स्वतन्त्रः किं वा इन्द्रियाणां विशिष्टसामर्थ्यवान् , तेषु तेषु= निर्मित