________________ बुद्धिविवेचनम् ] न्यायभाष्यम् / 295 इदं तु चिन्त्यते- कस्येयं बुद्धिः आत्मेन्द्रियमनोऽर्थानां गुण इति, प्रसिद्धोपि खल्वयमर्थः 'परीक्षाशेषं प्रवर्तयामि' इति प्रक्रियते, सोयं बुद्धौ संनिकर्पोत्पत्तेः संशयः- विशेपस्याग्रहणादिति / तत्रायं विशेषः नेन्द्रियार्थयोः- तद्विनाशेपि ज्ञानाऽवस्थानात् // 18 // नेन्द्रियाणामर्थानां वा गुणो ज्ञानम्- तेषां विनाशे (अपि) ज्ञानस्य भावात्, भवति खल्विदमिन्द्रियेऽर्थे च विनष्टे ज्ञानम् 'अद्राक्षम्' इति. न च ज्ञातरि विनष्टे ज्ञानं भवितुमर्हति, अन्यत् खलु वै तद् इन्द्रियार्थसंनिकर्षजं ज्ञानं यद् इन्द्रियार्थविनाशे न भवति, इदमन्यदात्ममनस्संनिकर्षजं तस्य युक्तो भाव इति= स्मृतिः खल्वियम् ' अद्राक्षम् ' इति पूर्वदृष्टविषया न च विज्ञातरि नष्टे पूर्वोपलब्धेः स्मरणं युक्तम्- न चान्यदृष्टमन्यः स्मरति, न च मनसि ज्ञातर्यभ्युपगम्यमाने शक्यमिन्द्रियार्थयोतृित्वं प्रतिपादयितुम् // 18 // अस्तु तर्हि मनोगुणो ज्ञानम् , युगपज्ज्ञेयानुपलब्धेश्व न मनसः // 19 // बुद्धरात्मगुणत्वविचारमुपक्रमते- इदमिति / चिन्त्यमाह- कस्येति, इयं बुद्धिरात्मेन्द्रियमनोऽर्थानां मध्ये कस्य गुण इति विचार्यते इत्यन्वयः, अर्थः= घटादिः / अयमर्थः= 'बुद्धिरात्मगुणः-ज्ञानविशिष्टस्यैवात्मत्वात्' इतिविषयः प्रसिद्धोपि परीक्षाशेषस्य= बुद्धेरिन्द्रियादिगुणत्वप्रतिषेधस्योपपादनार्थ प्रक्रियते= उपक्रम्यते / संशयकारणमाह-सोयमिति, आत्मेन्द्रियमनोऽर्थानां संनिक सति बुद्धिरुत्पद्यते तादृशसंनिकर्षवत्त्वं चात्मादीनां सर्वेषां समानमितिहेतोः विशेषस्य चात्मगुण एव बुद्धिरित्यादिरूपस्य किं वात्मादिगुणत्वे विशेषहेतोरग्रहणाद् बुद्धावुक्तसंशयो जायते इत्यन्वयः / अग्रिमसूत्रमवतारयति-तत्रेति / सुत्रेण विशेषमाह- नेति, बुद्धिरिन्द्रियार्थयोन गुणः- तद्विनाशेपि= इन्द्रियार्थयोविनाशेपि ज्ञानस्य= बुद्धेरवस्थानात्, यदि बुद्धिरिन्द्रियाणामर्थानां वा गुणः स्यात्तदा तद्विनाशे नोपलभ्येत-गुणिनाशे गुणनाशस्यावश्यम्भावादिति सूत्रार्थः। व्याचष्टे- नेति / उक्त हेतुमाह- तेषामिति, तेषाम् इन्द्रियार्थानाम् विनाशेपि ज्ञानस्य भावात्= सत्वात् उपलभ्यमानत्वात् / उक्तमुदाहरति- भवतीति, अद्राक्षमितिस्मृत्यात्मकं ज्ञानं तच्चेन्द्रियार्थयोरभावेपि संभवतीति विज्ञेयम् / विपक्षे बाधकमाह-न चेति, ज्ञातरि ज्ञानविशिष्टे, यदि ज्ञानगुणकत्वमिन्द्रियाणामर्थानां वा स्यात्तदा तेषां विनाशे तद्गणभूतं ज्ञानं कथमुपलभ्येत ? / नन्विन्द्रियं विनाऽथै च विना प्रत्यक्षात्मकं ज्ञानं न भवत्येवेति ज्ञानस्येन्द्रियार्थगुणत्वं प्राप्तमित्याशङ्कयाह- अन्यदिति, ज्ञानम्= प्रत्यक्षात्मकं ज्ञानम् / इदम्= अद्राक्षमिति स्मृत्यात्मकं ज्ञानं तस्य= अद्राक्षमित्यस्य ज्ञानस्य भावः= सत्ता, अद्राक्षमिति पूर्वदृष्टविषया स्मृतिरेव न प्रत्यक्षम् / विपक्षे बाधकमाह-न चेति, विज्ञातरि= ज्ञानविशिष्टे, पूर्वोपलब्धेः= पूर्वदर्शनस्य, अद्राक्षमिति पूर्वदर्शनस्मरणमेव, यदि ज्ञानमिन्द्रियार्थयोर्गुणः स्यात्तदा तयोर्विनाशे अद्राक्षमिति ज्ञानं न स्यादित्यर्थः / उक्ते हेतुमाह-- न चेति, इन्द्रियार्थयोर्ज्ञानगुणकत्वे तैरेव दृष्टं स्यादिति तेषां विनाशेऽन्येन 'अद्राक्षम्' इति स्मरणं नोपपद्यत भवति चेन्द्रियार्थयोर्विनाशेप्येतादृशं स्मरणमिति न ज्ञानमिन्द्रियार्थयोर्गुण इत्यर्थः / पूर्वपक्षिमतेन ज्ञानस्येन्द्रियार्थगुणत्वाभावमाह- न चेति, यदा हि त्वया मनसो ज्ञानगुणकत्वमङ्गीकृतं तदा इन्द्रियार्थयोतृित्वम्= ज्ञानगुणकत्वं नोपपादयितुं शक्यमित्यन्वयः // 18 // ते-अस्त्विति / ज्ञानस स्वस्वग्रारिन्द्रियैश्च विभुत्वादात्मनो युगपत्संयोगसंभवेपि युगपत्सर्वज्ञेयोपलब्धिर्न भवतीति तदुपपत्त्यर्थ मनः कल्प्यते तस्य च मनसो य इन्द्रियैः संयोगस्तस्यापि प्रत्यक्षकारणत्वं कल्प्यते ततश्चाणुभूतस्य मनसः . .. .- .. - अग्रिमसमान m पत्याचष्टन m+