________________ 294 प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्निफेगृह्यमाणयोर्विनाशोत्पादयोः स्फटिकादिषु स्यादयमाश्रयवान् दृष्टान्त:- क्षीरविनाशकारणानुपलब्धिवद् दध्युत्पत्तिकारणानुपलब्धिवचेति. तौ तु न गृह्यते तस्मानिरधिष्ठानोयं दृष्टान्त इति // अभ्यनुज्ञाय च स्फटिकस्योत्पादविनाशौ योत्र साधकस्तस्याभ्यनुज्ञानादप्रतिषेधः // कुम्भवन्न निष्कारणौ विनाशोत्पादौ स्फटिकादीनाम् इत्यभ्यनुज्ञेयोऽयं दृष्टान्त:प्रतिपेद्धुमशक्यत्वात् / क्षीरदधिवत्तु निष्कारणौ विनाशोत्पादाविति शक्योयं प्रतिषेद्धम्कारणतो विनाशोत्पत्तिदर्शनात् / क्षीरदनोविनाशोत्पत्ती पश्यता तत्कारणमनुमेयम्- कार्यलिङ्गं हि कारणम् , इत्युपपन्नम्- अनित्या बुद्धिरिति // 17 // निरधिष्ठानम्= पक्षहीन तथा प्रकृतेपि 'स्फटिकादीनां विनाशोत्पादौ निष्कारणको क्षीरदधिविनाशोत्पादाविव' इत्यत्र पक्षभूतौ स्फटिकादिविनाशोत्पादावेव प्रसिद्धौ न स्तो यत्र निष्कारणकत्वं सिद्ध स्यादिति 'क्षीरदधिविनाशोत्पादाविव' इति दृष्टान्तवचनं पक्षहीनमस्तीति पक्षासिद्धिदोष इत्यर्थः / व्याचष्टे- गृह्यमाणयोरिति, यदि स्फटिकादीनां प्रतिक्षणं विनाशोत्पादौ गृहीतौ स्यातां तदा 'क्षीरविनाशकारणानुपलब्धिवत् / 'दध्युत्पत्तिकारणानुपलब्धिवत्' इति च दृष्टान्त आश्रयवान् पक्षसहितः स्यादपि न चैवमस्ति यतस्तौ= स्फटिकादिषु विनाशोत्पादौ न गृह्येते तस्मादयं दृष्टान्तो निरधिष्ठानः= पक्षहीन इति पक्षासिद्धिर्दोष इत्यन्वयः। अत्र पूर्वपक्षिमतेन 'क्षीरविनाशकारणानुपलब्धिवत् स्फटिकादिविनाशकारणानुपलब्धिस्तेन कारणानुपलब्धावपि स्फटिकादिषु निष्कारणो विनाशः क्षीरविनाशवत् सिद्धः' इत्येवं व्याख्येयम् एवम् “दध्युत्पत्तिकारणानुपलब्धिवत् " इत्यपि व्याख्येयम् / / स्फटिकादीनां विनाशोत्पादयोः सकारणकत्वं समाधत्ते- अभ्यनुज्ञायेति, स्फटिकस्योत्पादविनाशौ अभ्यनुज्ञाय= संभाव्य= यदि संभवतस्तदा योऽत्र स्फटिकोत्पादविनाशयोः साधकः= कारणं तस्याऽभ्यनुज्ञानात्= अवश्यम्भावात् कार्यस्य सकारणकत्वनियमात् अप्रतिषेधः= स्फटिकोत्पादविनाशयोः सति संभवे सकारणकत्वस्य प्रतिषेधो नोपपद्यते न च स्फटिकोत्पादविनाशौ संभवत इति स्फटिकादीनां स्थिरत्वं सिद्धमित्यर्थः / स्वयं व्याचष्टे- कुम्भवदिति, स्फटिकादीनामपि विनाशोत्पादौ घटस्य विनाशोत्पादाविव सकारणको कार्यत्वादित्यन्वयः / कुम्भवदिति दृष्टान्तः / अभ्यनुज्ञेयत्वे हेतुमाह-प्रतिषेद्धमिति / कार्यमात्रस्य सकारणकत्वनियमाद् विनाशोत्पादयोरपि सकारणकत्वस्य प्रतिषेधो न संभवतीति कुम्भवदिति दृष्टान्तः स्वीकार्य एवेत्यर्थः / विपक्षे बाधकमाह-क्षीरेति, क्षीरदनोविनाशोत्पादाविव स्फटिकादीनां विनाशोत्पादौ निष्कारणको इतिदृष्टान्तः प्रतिषेढुं शक्यते इत्यन्वयः। एतद्दृष्टान्तस्य प्रतिषेढुं शक्यत्वे हेतुमाह- कारणत इति। ननु सर्वत्र विनाशोत्पादयोः सकारणकत्वनियमे क्षीरदनोविनाशोत्पादौ कथं निष्कारणकावित्याशङ्कय तयोरपि सकारणकत्वमुपपादयति- क्षीरदध्नोरिति, तत्कारणम्= क्षीरदनोविनाशोत्पादकारणमनुमेयमस्ति- अप्रत्यक्षत्वादित्यन्वयः / अनुमेयत्वे हेतुमाह- कार्येति, कार्यमेव लिङ्गमस्येति कार्यलिङ्गम्= कार्यानुमेयं कारणं भवति प्रत्यक्षासंभवे. तथा च क्षीरदनोविनाशोत्पादकारणमपि सिद्धमनुमानेनेति विनाशोत्पादमात्रस्य सकारणकत्वं सिद्धम् / एव प्रसङ्गप्राप्तं क्षणभङ्गवादं निराकृत्य उपसंहरति- इत्युपपन्नमिति, स्फटिकदृष्टान्तेन बुद्धेगौणं नानात्वं न संभवति किं तु मुख्यमेवेति बुद्धरनित्यत्वं सिद्धमिति बुद्धेर्नानात्वेन मनसाऽभेदो न संभवति तेन मनोधर्मत्वं न संभवतीत्यात्मधर्मत्वमपि सिद्धमित्यलम् // 17 // // इति क्षणभङ्गवादनिराकरणं बुद्धरनित्यत्वप्रतिपादनं च समाप्तम् //