________________ बुद्धिविवेचनम] न्यायभाष्यम्। 293 अभ्यनुज्ञाय च निष्कारणं क्षीरविनाशं दध्युत्पादं च प्रतिषेध उच्यते इतिकचिद्विनाशकारणानुपलब्धेः कचिचोपलब्धेरनेकान्तः // 17 // क्षीरदधिवन्निष्कारणौ विनाशोत्पादौ स्फटिकव्यक्तीनामिति नायमेकान्त इति / कस्मात् ?, हेत्वभावात्= नात्र हेतुरस्ति- अकारणौ विनाशोत्पादौ स्फटिकादिव्यक्तीनां क्षीरदधिवत् न पुनर्यथा विनाशकारणभावात् कुम्भस्य विनाश उत्पत्तिकारणभावाच्चोत्पत्तिरेवं स्फटिकादिव्यक्तीनां विनाशोत्पत्तिकारणभावाद्विनाशोत्पत्तिभाव इति // निरधिष्ठानं च दृष्टान्तवचनम् / मृदनुवर्तमाना भवति तथा पयोध्नोरपि अवयवान्वयः= अवयवानुवृत्तिर्भवत्येव अत एव सादृश्यं भवति / पर्यवसितमाह- नेति, बौद्धोक्तरीत्या पूर्वद्रव्यस्याशेषविनाशो द्रव्यान्तरस्य च निरन्वय उत्पादो न घटते= न संभवति-- अवयवानुवृत्तिदर्शनात्, अन्यथा अवयवानुवृत्तिर्न स्यात् तेन कार्यकारणयोः सादृश्यमपि न स्यादित्यर्थः / पूर्वद्रव्यस्याऽशेषनिरोधे जाते निरन्वयो द्रव्यान्तरोत्पादो न घटते- द्रव्यान्तरोत्पत्तेरधिकरणासंभवादित्यन्वयः // 16 // अग्रिमसूत्रमवतायति- अभ्यनुज्ञायेति, स्वीकृत्येत्यर्थः, प्रतिषेधः= स्फटिकादौ परापरोत्पत्तेबौद्धोक्तायाः प्रतिषेधोनेन सूत्रेणोच्यते इत्यन्वयः, विनाशोत्पादयोनिष्कारणकत्वे व्यभिचारः प्रदर्श्यते इत्यर्थः / कचिदिति- कचित्= क्षीरादौ यदि विनाशकारणं नोपलभ्यते तथापि क्वचित्= घटादौ विनाशकारणमुपलभ्यते एवेति सर्वत्र विनाशोत्पादौ निष्कारणावेव भवत इति अनेकान्तः= नियमाभावः= व्यभिचार: प्राप्तः- घटादौ विनाशोत्पादयोः सकारणकत्वस्य प्रत्यक्षसिद्धत्वादिति न क्षीरदध्यादिदृष्टान्तेन स्फटिकादौ निष्कारणौ विनाशोत्पादौ संभवतः- प्रत्यक्षविरोधात् तेन स्फटिकादीनां स्थिरत्वं सिद्धमिति सूत्रार्थः / व्याचष्टे-क्षीरेति, क्षीरविनाशवत् दध्युत्पादवच्च स्फटिकादीनामुत्पादविनाशौ निष्कार. णाविति एकान्तः= नियमः= व्याप्ति!पपद्यते- घटादिषु व्यभिचारादित्यन्वयः / उक्तनियमाभावे हेतुं जिज्ञासते- कस्मादिति / हेतुमाह- हेत्वभावादिति / उक्तं व्याचष्टे- नात्रेति, अत्र= उक्तनियमे= पदार्थमात्रस्य विनाशोत्पादयोर्निष्कारणकत्वे / व्यभिचारं प्रदर्शयति- अकारणाविति, क्षीरदधिवत्= क्षीरदथ्नोविनाशोत्पदयोरिव स्फटिकादिव्यक्तीनां विनाशोत्पदौ निष्कारणको न तु कुम्भस्य विनाशोत्पादयोरिव सकारणको इत्यत्र नियामकाभावान्न पदार्थमात्रस्य विनाशोत्पादयोर्निष्कारणकत्वं संभवतीत्यर्थः / तथा च क्षीरदध्नोविनाशोत्पादयोः " तुप्यतु दुर्जनः" इति न्यायेन निष्कारणकत्वाभ्युपगमेपि स्फटिकादिव्यक्तीनां निष्कारणको विनाशोत्पादौ न संभवतः किं तु यथा कुम्भस्य विनाशकारणभावात्= विनाशकारणसत्त्वात्= विनाशकारणादवयवविभागाद्विनाश उत्पत्तिकारणाचावयवसंमूर्छनादुत्पत्तिस्तथा स्फटिकादिव्यक्तीनामपि विनाशकारणभावाद्विनाश उत्पत्तिकारणभावाचोत्पत्ति: संभवति न च स्फटिकादिष्ववयवविभागादिलक्षणं विनाशादिकारणमुपलभ्यते इति न विनाशोत्पादौ संभवत इति स्थिरत्वं सिद्धं तेन नानात्वस्य गौणत्वं प्राप्तमित्यन्वयः / क्षीरादिषु दध्यादिवत् स्फटिकादिषु पदार्थान्तरोत्पत्तेरदर्शनादपि निष्कारणको विनाशोत्पादौ न स्वीकर्तुं शक्येते, ‘स एवायं स्फटिकः' इतिप्रत्यभिज्ञापि तयोर्वाधिका / न च सदृशपरिणामात् प्रत्यभिज्ञा संभवतीतिवाच्यम्- मुख्यप्रत्यभिज्ञायां बाधकाभावादिति विभावनीयम् // स्फटिकादीनां विनाशोत्पादयोर्निष्कारणकत्वसाधने पक्षासिद्धिं दोषमाह- निरधिष्ठानमिति, यथा- 'गगनारविन्दं सौरभविशिष्टं जलारविन्दवत् ' इत्युक्ते पक्षभूतं गगनारविन्दमेव नास्ति यत्र जलारविन्दसादृश्येन सौरभवत्त्वं सिद्धं स्यादिति पक्षासिद्धिरिति ‘जलारविन्दवत्' इति दृष्टान्तवाक्यं