________________ 292 प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्निके__ 'पयसः परिणामो न विनाशः' इत्येक आह. परिणामश्चाऽवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिरिति / 'गुणान्तरप्रादुर्भावः' इत्यपर आह= सतो द्रव्यस्य पूर्वगुणनिवृत्तौ गुणान्तरमुत्पद्यते इति. स खल्वेकपक्षीभाव इव // 15 // अत्र तु प्रतिधेषःव्यूहान्तराद् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेरनुमानम् // 16 // संमूर्छनलक्षणादवयवव्यहाद् द्रव्यान्तरे दनि उत्पन्ने गृह्यमाणे पूर्व पयोद्रव्यम् अवयवविभागेभ्यो निवृत्तमित्यनुमीयते. यथा मृदवयवानां व्यूहान्तराद् द्रव्यान्तरे स्थाल्यामुत्पन्नायां पूर्व मृत्पिण्डद्रव्यं मृदवयव विभागेभ्यो निवर्तते इति, मृद्वचाऽवयवान्वयः पयोदनोः, नाऽशेषनिरोधे निरन्वयो द्रव्यान्तरोत्पादो घटते इति // 16 // दधित्वव्यवहार उपपद्यते इति न क्षीरविनाशो न वा ध्युत्पत्तिश्च स्वीक्रियते येन तत्कारणं सिध्येतो पलभ्येत चेति सूत्रार्थः / व्याचष्टे- पयस इति, विनाशाभावे विनाशकारणाभावः प्राप्तस्तेन तदुपलम्भाभावः प्राप्त इति पूर्वोक्तनिरासो जातः / एकः= सांख्यवादी। परिणामलक्षणमाह- परिणामश्चेति, यथाऽवस्थितस्य सुवर्णस्य कटकत्वधर्मनिवृत्तौ कुण्डलत्वधर्मोत्पत्तिर्भवतीति सुवर्णस्य कुण्डलत्वेन रूपेण परिणाम उच्यते एवं प्रकृतेपि क्षीरस्य क्षीरत्वानुकूलतरलत्वादिधर्मनिवृत्तिर्घनत्वादिधर्मस्य दधित्वानुकूलस्योत्पत्तिर्भवति न तु द्रव्यस्योत्पादविनाशावित्यर्थः / मतान्तरमाह- गुणान्तरेति, अत्र पक्षे गुणादेरपि नोत्पादविनाशौ किं तु प्रादुर्भावतिरोभावावित्याशयः, अत्र “द्रव्यं तावत्सदेव गुणोपि सन् केवलमनुद्भूत आसीत् एकचोद्भूतो गुणः” इति तात्पर्यटीका / उक्तमतं व्याचष्टे- सत इति, सतः= स्थायिनः, पूर्वगुणस्य= मधुरत्वादिरसादेनिवृत्तौ= तिरोभावे सति गुणान्तरम्= अम्लत्वादिरसादिकमुत्पद्यते= प्रादुर्भवति / एतयोरुभयोरपि पक्षयोः पर्यवसाने ऐक्यमाह- स इति, पूर्वधर्मस्य पूर्वगुणस्य च निवृत्तिरेक एव पदार्थस्तथा धर्मान्तरस्य गुणान्तरस्य चोत्पत्तिरेक एव पदार्थ इति न पक्षद्वयेपि कश्चिद्विशेष इत्यर्थः, तथा च क्षीरविनाशस्य दध्युत्पत्तेश्वाभावादेव न तत्कारणं संभवति येनोपलभ्येतेत्यर्थः / एतन्मतस्योप. पत्तिस्तु सांख्यादिदर्शनेषु द्रष्टव्या नेह विस्तरभयादुपपाद्यते / किं वात्र प्रथममते धर्मशब्देनाकृतिाह्या द्वितीयमते गुणशब्देन मधुरत्वादिर्गुणो ग्राह्य इतिविवेकः // 15 // अग्रिमसूत्रमवतारयति- अत्रेति, अत्र= अस्य= उक्तस्योत्पत्तिविनाशयोरभावस्य प्रतिषेधः= निरासोऽनेन सूत्रेण क्रियते इत्यर्थः / व्यूहान्तरादिति- व्यूहान्तरात्= पूर्वावयवसमुदायात्= पूर्वावयविनः क्षीरादेव्यान्तरस्य= दध्यादेरुत्पत्तिदर्शनमेव पूर्वद्रव्यनिवृत्तेः= पूर्वद्रव्यविनाशस्याऽनुमानम्= अनुमापक लिङ्गमित्यन्वयः, दनः क्षीरावस्थायामदर्शनात् तदनन्तरं च दर्शनात् कारणविशेषेणोत्पत्तिरवसीयते इति दध्युत्पत्तिः सिद्धा तया च तत्कारणमपि सिद्धम्- कारणं विना कार्यासंभवात् . क्षीरविनाशं विना च दध्युत्पत्तिर्न संभवतीति दध्युत्पत्त्या क्षीरविनाशोऽवसीयते इति द्रव्याणामपि विनाशोत्पादौ सिद्धौ तेन तत्कारणमपि सिद्धम् , स्फटिकादिपु तुन द्रव्यान्तरोत्पत्तिरनुभूयते इति न तत्कारणं पूर्वविनाशकारणं च संभवतीति स्थिरत्वं सिद्धं तेन नानात्वस्य गौणत्वं सिद्धं तथा वृत्तेरपि गौणमेव नानात्वमिति प्राप्तमिति सूत्रार्थः / व्याचष्टे-संमूर्छनेति, व्यूहान्तरम् = अवयवव्यूहः स चावयवानां संमूर्छनम्= कार्यानुकूलव्यापनं कुर्वद्रूपतेतियावत् तस्माद् द्रव्यान्तरं दध्यादि उत्पद्यते उत्पन्नं च गृह्यते तादृशग्रहणेन क्षीरादेः पूर्वद्रव्यस्य स्वावयवविभागेभ्यो निवृत्तिः= विनाशोऽनुप्रीयते अन्यथा दध्यवस्थायामपि क्षीरमुपलभ्येत कारणं विना च कार्यासंभवादवयवविभागलक्षणं विनाशकारणं सिद्धं भवति. दध्युत्पत्तेश्चावयवसंमूर्छन कारणं सिद्धं भवतीत्यर्थः / उदाहरति- यथेति, व्यूहान्तरात्= संमूर्च्छनात्= व्यापनात् , मृदोऽनुवर्तमानत्वेपि मृत्पिण्डो विनश्यत्येवेति पूर्वद्रव्यविनाशः सिद्धः / विशेषमाह- मृद्वदिति, यथा घटादिकार्येषु