________________ 291 बुद्धिविवेचनम] न्यायभाष्यम् / क्षीरविनाशे कारणानुपलब्धिवद् दध्युत्पत्तिवच तदुपपत्तिः // 13 // यथाऽनुपलभ्यमानं क्षीरविनाशकारणं दध्युत्पत्तिकारणं चाभ्यनुज्ञायते तथा स्फटिके पराऽपरासु व्यक्तिषु विनाशकारणमुत्पत्तिकारणं चाभ्यनुज्ञेयमिति // 13 // लिङ्गतो ग्रहणाद् नानुपलब्धिः // 14 // क्षीरविनाशलिङ्गं क्षीरविनाशकारणं दध्युत्पत्तिलिङ्गं दध्युत्पत्तिकारणं च गृह्यते अतो नाऽनुपलब्धिः / विपर्ययस्तु स्फटिकादिषु द्रव्येषु अपरापरोत्पत्तीनां न लिङ्गमस्तीत्यनुवृत्तिरेवेति // 14 // अत्र कश्चित् परिहारमाह न- पयसः परिणामगुणान्तरप्रादुर्भावात् // 15 // ____ स्फटिकादिषु निराकृतामपरापरोत्पत्तिं समाधत्ते- क्षीरेति, क्षीरस्य दधिरूपेण परिणामे जाते क्षीरविनाशे= क्षीरविनाशस्य कारणानुपलब्धिवत्= कारणानुपलब्धावपि यथा किंचित् क्षीरविनाशकारणं स्वीक्रियते दध्युत्पत्तियत= दध्युत्पत्तिकारणानुपब्धिवत्= यथा च तत्र दध्युत्पत्तिकारणस्यानुपलब्धावपि किंचिद् दथ्युत्पत्तिकारणं स्वीक्रियते तथा स्फटिकेपि पूर्वपूर्वस्फटिकव्यक्तीनां विनाशकारणस्यानुपलब्धावपि तद्विनाशकारणस्वीकारेण तदुपपत्तिः- पूर्वपूर्वस्फटिकव्यक्तीनां विनाशस्योपपत्तिः संभवति. तथा स्फटिके उत्तरोत्तरव्यक्तीनामुत्पत्तिकारणस्यानुपलब्धावपि तदुत्पत्तिकारणस्वीकारेण तदुपपत्तिः उत्तरोत्तरस्फटिकव्यक्तीनामुत्पत्तेरुपपत्तिः संभवतीति स्फटिके यथा नानात्वं मुख्यमेव तथा वृत्तिष्वपि नानात्वं मुख्यमेवेति पर्यवसितमिति सूत्रार्थः, अत्र सूत्राक्षराणां वाक्यार्थानुकूल्यमनुसंधेयम् / वस्तुवस्तु 'क्षीरविनाशे दध्युत्पत्तौ च कारणानुपलब्धिवत् तदनुपब्धिः' इत्येवं सूत्रं वक्तव्यमासीत् / व्याचष्टेयथेति / क्षीरस्य दधिभावस्थले इतिशेषः / प्रकृतमाह- तथेति, परासु= पूर्वपूर्वस्फटिकव्यक्तीनां विनाशकारणम् अपरासु= उत्तरोत्तरस्फटिकव्यक्तीनामुत्पत्तिकारणं च स्वीकार्य तेन स्फटिके परापरव्यक्तीनां विनाशोत्पादौ नाऽनुपपन्नावित्यर्थः // 13 // ___ उक्तं परिहरति-लिङ्गत इति, क्षीरविनाशकारणस्य दध्युत्पत्तिकारणस्य चानुपलब्धिर्नास्तिलिङ्गतः क्षीरविनाशेन दुध्युत्पत्त्या च तादृशकारणस्य ग्रहणात्= उपलभ्यमानत्वात्, कारणं विना विनाशादिकार्याणामसंभवात् , नैवं स्फटिके परापरव्यक्तीनां विनाशोत्पादयोः कारणं लिड्नेनाप्युपलभ्यते येन स्वीक्रियेतेति न स्फटिकादौ परापरव्यक्तीनां विनाशोत्पादौ संभवत इति स्फटिकादौ वृत्तौ च गौणमेव नानात्वमिति सूत्रार्थः / व्याचष्टे-क्षीरेति, कार्यस्य कारणलिङ्गत्वात् क्षीरविनाश एव लिङ्गं यस्य तत् क्षीरविनाशलिङ्गम्= क्षीरविनाशानुमेयं क्षीरविनाशकारणम्. एवं दध्युत्पत्तिलिङ्गम्= दध्युत्पत्त्यनुमेयं दध्युत्पत्तिकारणं चानुमानेन गृह्यते= उपलभ्यते इति नैतादृशकारणयोरनुपन्धिरस्ति या दृष्टान्तो भवेदित्यर्थः / पूर्वपक्षिमते बाधकमाह- विपर्यय इति, विपर्ययः= कारणानुपलब्धिः, स्फटिकादिषु अपरापरव्यक्तीनामुत्पत्तेन लिङ्गमस्तीति नापरापरोत्पत्तिः पूर्वपूर्वविनाशश्च स्वीकर्तुं शक्यते इति स्फटिकादीनामनुवृत्तिः= स्थिरत्वं सिद्धमित्यर्थः // 14 // ___ अग्रिमसूत्रमवतारयति- अत्रेति, कश्चित्= सांख्यवादी, यदुक्तम्-क्षीरविनाशस्य दध्युत्पत्तेश्चानुमानेन कारणमुपलभ्यते तस्य परिहारमाहेत्यर्थः। नेति-क्षीरविनाशस्य दध्युत्पत्तेश्च कारणमेव न संभवति येनोपलभ्येत- तत्र सद्वादस्वीकारेण क्षीरविनाशस्य दुध्युत्पत्तेश्वाभावात् किं तु तत्र पयसः क्षीरस्य परिणामेन= विकारविशेषेण गुणान्तरस्य रसरूपाकृत्याद्यन्तरस्य दधित्वानुकूलस्य प्रादुर्भावो भवति तेनैव