________________ 290 ___ प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्निकेस्फटिकेप्युपचयापचयपबन्धो न दृश्यते तस्मादध्युक्तम्- ' स्फटिकेप्यऽपरापरोत्पत्तिः' इति, यथा चाऽर्कस्य कटुकिम्ना सर्वद्रव्याणां कटुकिमानमापदयेत् तादृगेतदिति // 11 // यश्चाशेषनिरोधेनापूर्वोत्पादं निरन्वयं द्रव्यसंताने क्षणिकतां मन्यते तस्यैतत् न-उत्पत्तिविनाशकारणोपलब्धेः // 12 // उत्पत्तिकारणं तावदुपलभ्यते- अवयवोपचयो वल्मीकादीनाम् . विनाशकारणं चोपलभ्यते- घटादीनामवयवविभागः / यस्य त्वऽनपचितावयवं निरुध्यते अनुपचितावयवं चोत्पद्यते तस्याशेषनिरोधे निरन्वये वाऽपूर्वोत्पादे न कारणमुभयत्राप्युपलभ्यते इति // 12 // स्फटिकेप्युपचयापचययोरभावेन क्षणिकत्वं न संभवतीत्याह- स्फटिकेपीति, तथा च पूर्वसूत्रेण " स्फटिकेप्यपरापरोत्पत्तेः" इति यदुक्तं तदयुक्तमेवेत्यन्वयः / अयुक्तत्वमुपपादयति- यथेति, अर्कस्य= कटुवृक्षविशेषस्य, कटुकिम्ना= कटुत्वेन, कटुकिमानम्= कटुत्वम् , मोदकं कटु पदार्थत्वादर्कवदित्येवम् आपादयेत्= प्रतिपादयेत् तद् यथा न युक्तं भवति एवं एतत्= शरीरक्षणिकत्वदृष्टान्तेन पदार्थमात्रस्य क्षणिकत्वप्रतिपादनमपि ताहक्= तादृशमेव= अयुक्तमेवेत्यर्थः, तथा च स्थिरत्वसंभवाद् वृत्तेर्नानात्वं गौण संभवतीतिभावः // 11 // ___ अग्रिमसूत्रमवतारयति- यश्चेति, यः= क्षणिकवादी बौद्धः, पूर्वक्षणवृत्तिपदार्थस्याऽशेषविनाशेन निरन्वयमपूर्वोत्पादं द्रव्यसंतानस्य क्षणिकतालक्षणं मन्यते तस्यैतत्= एतत्सूत्रमुत्तरमित्यन्वयः, बौद्धातिरिक्तैोऽपूर्वोत्पादः स्वीक्रियते स सान्वयः= पूर्वसंबद्ध एव स्वीक्रियते- अपूर्वेपि घटे उत्पन्ने पूर्वस्य मृत्स्वरूपस्यानुवर्तमानत्वात् घटध्वंसकालेपि च घटखण्डानां पूर्वाणामुपलभ्यमानत्वात् तथा च द्रव्यस्य सर्वात्मना विनाशो न भवतीत्ययं सान्वयो विनाश उत्पादश्च / क्षणिकवादिना च पूर्वद्रव्यम्योत्तरोत्तरक्षणे सत्त्वम् अपूर्वकार्येषु संबन्धश्च न स्त्रीक्रियते- एकस्यानेकविरुद्धधर्मासंभवादित्ययमेवाशेषनिरोधःनिरन्वयो विनाश उत्पादश्च इयमेव क्षणिकता स्वीक्रियते, पुराणत्वपरिणामित्वादिलक्षणायाः क्षणिकताया अन्यैरपि स्वीकृतत्वेन तस्वीकारे विशेषाभावादित्यर्थः / उक्तं च बौद्धैः- " यत् सत् तत् क्षणिकम् " "न सतः कारणापेक्षा " " निस्स्वभावाश्च दर्शिताः" इत्यादि / उक्तबौद्धमतं परिहरति- नेति, उत्पत्तिकारणमपचयो विनाशकारणं चाऽपचयः स च पदार्थेषपलभ्यते क्षणिकानां च पदार्थानामुपचयापचयवत्वं नोपपद्यते स्थायिपदार्थस्यैव किंचित्कालेनोपचयापचययोः संभवात् तथा च पदार्थेषु उत्पत्तिविनाशकारणयोरुपचयापचययोरुपलब्ध्या स्थायित्वं प्राप्तमिति न क्षणिकत्वं संभवति क्षणिकत्वाभावे च निरन्वयोऽशेषनिरोधोऽपूर्वोत्पादश्चापि न संभवति तथा च न स्फटिकेप्यरापरोत्पत्तिः संभवति येन नानात्वाभिमानो मुख्यः स्यादिति सूत्रार्थः / व्याचष्टे- उत्पत्तीति, वल्मीकादीनामवयवोपचय उत्पत्तिकारणमुपलभ्यते, घटादीनामवयवविभागः= अवयवापचयो विनाशकारणमुपलभ्यते तादृशोपच. यापचयविशिष्टत्वेन च घटादीनां स्थायित्वं सिद्धमिति न क्षणिकत्वमुपपद्यते इत्यर्थः / बौद्धमते बाधक. माह- यस्येति, यस्य बौद्धस्य मते अनपचितावयवम्= अवयवापचयं विना निरुध्यते= विनश्यति वस्तु. अनुपचितावयवम् = अवयवोपचयं विना चोत्पद्यते तस्य मते उभयत्रापि= अशेषनिरोधे निरन्वये चापूर्वोत्पादे कारणं नोपलभ्यते- लोकेऽवयवोपचयस्यैवोत्पादकारणत्वम् अवयवापचयस्यैव च विनाशकारणत्वं क्लप्तमस्ति उक्तबौद्धमते च क्षणिकेषु उपचयापचयौ न संभवतः, न च निष्कारणक उत्पादो विनाशश्व स्वीकर्तुं शक्यते- अतिप्रसङ्गात् , उपचयापचयस्वीकारे च स्थायित्वमेव स्यान्न क्षणिकत्वमित्यर्थः / अत्र- " उपचय इति वृद्धिः उपचितो गौरिति, अपचय इति हासः. अपचितो गौरिति, उभयं चैतदवस्थितवस्तुविषयम् " " तदुभयं क्षणिकत्वे न स्यात् " इति वार्तिकम् // 12 //