________________ बुद्धिविवेचनम् ] न्यायभाष्यम्। 289 क्षणिकाः / कथं पुनर्गम्यते क्षणिका व्यक्तयः ? इति, उपचयापचयप्रबन्धदर्शनात् शरीरादिषु= पक्तिनिवृत्तस्याऽऽहाररसस्य शरीरे रुधिरादिभावेनोपचयोऽपचयश्च प्रबन्धेन प्रवर्तते उपचयाद् व्यक्तीनामुत्पादः अपचयाद् व्यक्तिनिरोधः एवं च सत्यऽवयवपरिणामभेदेन वृद्धिः शरीरस्य कालान्तरं गृह्यते इति सोयं व्यक्तिविशेषधर्मो व्यक्तिमात्रे वेदितव्य इति // 10 // नियमहेत्वभावाद् यथादर्शनमभ्यनुज्ञा // 11 // ___ सर्वासु व्यक्तिषु उपचयापचयप्रवन्धः शरीरवदिति नायं नियमः, कस्मात् ?, हेत्वभावात्= नात्र प्रत्यक्षमनुमानं वा प्रतिपादकमस्तीति, तस्माद् यथादर्शनमभ्यनुज्ञा- यत्र यत्रोपचयापचयप्रवन्धो दृश्यते तत्र तत्र व्यक्तीनाम् अपरापरोत्पत्तिरुपचयाऽपचयप्रबन्धदर्शनेनाभ्यनुज्ञायते यथा शरीरादिपु. यत्र यत्र न दृश्यते तत्र तत्र प्रत्याख्यायते यथा ग्रावप्रभृतिषु, नैकस्मिन् नानात्वाभिमानः संभवतीत्यर्थः / उक्ते हेतुं जिज्ञासते- कथमिति / हेतुमाह-क्षणिकत्वादिति / क्षणिकशब्दव्युत्पत्तिमाह- क्षणश्चेति, "अष्टादश निमेपास्तु काष्टा. त्रिंशत्तु ताः कला, तास्तु त्रिंशत् क्षणः” इत्यमरः / क्षणिकत्वे हेतुं जिज्ञासते- कथं पुनरिति / हेतुमाह- उपचयेति, शरीरादिषु उपचयापचययोः प्रबन्धस्य= नैरन्तर्यस्य दर्शनात् क्षणिकत्वमित्यन्वयः / आदिशब्देन वृक्षादिकं ग्राह्यम् / उक्तं व्याचष्टे- पक्तीति, पक्तिनिवृत्तस्य= भक्षितान्नपाकसंपन्नस्याऽऽहाररसस्य शरीरे रुधिरादिरूपपरिपामेन ह्रासेन च शरीरस्योपचयापचयौ नैरन्तर्येण प्रवर्तेते. अत एव शरीरस्याहारे सति वृद्धिर्लङ्घनादौ च क्षीणता निरीक्ष्यते तथा चोपचिताऽपचितव्यत्तयोदस्यावश्वकत्वादुपचयादन्या शरीरव्यक्तिरुत्पद्यते अपचयाच पूर्वा शरीरव्यक्तिर्विनश्यतीति प्राप्तम् उपचयाऽपचययोश्च क्षणभेदेन भेदात् शरीरव्यक्तेरपि क्षणभेदेन भेदः प्राप्त इति क्षणिकत्वं सिद्धमित्यर्थः / अत्र प्रत्यक्षं प्रमाणमाह- एवमिति, एवम्= उपच. यापचयाभ्यामुत्पादविनाशयोः संभवे सति अवयवानाम्= रुधिरादीनां परिणामविशेषेण शरीरस्य वृद्धिः कालान्तरे प्रत्यक्षेण गृह्यते, यदि शरीरस्य क्षणिकत्वं न स्याम्कि त्वेकत्वं स्यात् तदा जन्मारभ्य मरणपर्यन्तं समानरूपत्वमेव स्यादिति कुमारत्वयुवत्वादिकं न स्यादित्यर्थः / उपसंहरति- सोयमिति, सोयम्= क्षणिकत्वम् , व्यक्तिविशेषस्य= शरीरस्य, तथा च यथा शरीरे क्षणिकत्वं तथा स्फटिकादिपदार्थमात्रे क्षणिकत्वं वेदितव्यम्. क्षणिकत्वाञ्च नैकस्मिन् नानात्वाभिमानः संभवति येन स्फटिक• दृष्टान्तेनोक्तेन वृत्तौ गौणो नानात्वाभिमान उपपद्येत तस्मादू वृत्तीनां स्वरूपेण मुख्यमेव नानात्वं प्राप्त न तु गौणमित्यर्थः // 10 // उक्तं निराकरोति- नियमति, पदार्थमात्रस्य क्षणिकत्वनियमे हेतुर्नास्तीति यथादर्शनम्= प्रत्यक्षानुसारेण प्रमाणानुरोधेन वा अभ्यनुज्ञा= क्षणिकत्वस्थिरत्वादिकं स्वीक्रियते तथा च शरीरस्य रुधराद्यवयवभेदेनोपचयापचयाभ्यां क्षणिकत्वेपि स्फटिकादिव्यक्तीनां क्षणिकत्वं नोपपद्यते-क्षणिकत्वप्रयोजकीभूतयोरुपचयापचययोरभावादिति सूत्रार्थः / व्याचष्टे- सर्वास्विति, नायं नियमः= न दृश्यते येन क्षणिकत्वं स्यादित्यर्थः / उक्तनियमाभावे हेतुं जिज्ञासते-- कस्मादिति / हेतुमाह- हेत्वभावादिति / उक्तं व्याचष्टे- नात्रेति, अत्र= पदार्थमात्रक्षणिकत्वे, प्रतिपादकम्= प्रमाणम् / स्वाभिप्रायमाह- तस्मादिति, यथादर्शनम्= प्रमाणानुसारेण / उक्तं व्याचष्टे- यत्रेति, यत्र यत्र= शरीरादौ, व्यक्तीनाम् शरीरादिव्यक्तीनाम् उपचयापचययोः प्रबन्धदर्शनेनापरापरोत्पत्तिरभ्यनुज्ञायते इत्यन्वयः, दृष्टान्तमाह- यथेति / तदेतत् पूर्वसूत्रे प्रतिपादितमेव / व्यातिरेकमाह- यत्र यत्र नेति, यत्र यत्र ग्रावप्रभृतिषु पाषाणादिषु उपचयापचयप्रबन्धो न दृश्यते तत्र तत्र पाषाणादिषु अपरापरोत्पत्तिः प्रत्याख्यायते इत्यन्वयः / तथा चापरापरोत्पत्तेः= क्षणिकत्वस्य उपचयापचयप्रबन्ध एव प्रयोजक इति सिद्धं तथा च