SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ 288 प्रसन्नपदापरिभूषितम्- [3 अध्यायः २आह्निके न- हेत्वभावात् / स्फटिकान्यत्वाभिमानवदयं ज्ञानेषु नानात्वाभिमानो गौणः न पुनर्गन्धाद्यन्यत्वाभिमानवदिति हेतुर्नास्ति हेत्वभावादनुपपन्न इति / समानो हेत्वभावः इति चेत् 1. न- ज्ञानानां क्रमेणोपजनापायदर्शनात्= क्रमेण हीन्द्रियार्थेषु ज्ञानान्युपजायन्ते चाऽपयन्ति चेति दृश्यते तस्माद् गन्धाद्यन्यत्वाभिमानवदयं ज्ञानेषु नानात्वाभिमान इति // 9 // " स्फटिकान्यत्वाभिमानवत् " इत्येतदमृष्यमाणः क्षणिकवाद्याहस्फटिकेप्यऽपरापरोत्पत्तेः क्षणिकत्वाद् व्यक्तीनामहेतुः // 10 // 'स्फटिकस्याऽभेदेनाऽवस्थितस्योपधानभेदानानात्वाभिमानः' इत्ययमविद्यमानहेतुकः पक्षः, कस्मात ?. स्फटिकेप्यपरापरोत्पत्तेः= स्फटिकेप्यऽन्या व्यक्तय उत्पद्यन्ते अन्या निरुध्यन्ते इति, कथम्? क्षणिकत्वाद् व्यक्तीनाम् , क्षणश्वाल्पीयान् कालः क्षणस्थितिकाः ऽन्यत्वाभिमानमुदाहरति- नील इति / प्रकृतमाह- एवमिति, विषयान्तराणाम्= नानाविषयाणां घटपटादीनामुपधानात्= संबन्धाद् वृत्तौ नानात्वं प्रतीयते वस्तुतस्त्वेकत्वमेवेत्यर्थः // एतद् भाष्यकारः परिहरति- नेति, स्फटिके इव वृत्तौ मिथ्याभूतं नानात्वं प्रतीयते इत्यत्र हेतोरभावादेवोक्तं नोपपद्यते, वस्तुतस्तु न स्फटिके नानात्वं प्रतीयते किं तु नाना रूपाण्युपाधिभेदात् प्रतीयन्ते इति न स्फटिकदृष्टान्तो घटते इत्यर्थः / स्वयं व्याचष्टे- स्फटिकेति, ज्ञानेषु= वृत्तिषु, न पनर्गन्धाद्यन्यत्वाभिमानवन्मुख्यः इति= इत्यत्र हेतुर्नास्तीति हेत्वभावाद् वृत्तिषु नानात्वाभिमानस्य गौणत्वमनुपपन्नमित्यन्वयः / गन्धरूपरसादिषु चान्यत्वाभिमानो मुख्य एव न गौण इति स्पष्टमेव / ननु वृत्तिषु नानात्वाभिमानस्य मुख्यत्वेपि हेतुर्नास्तीति गौणत्वमुख्यत्वयोर्हेत्वभावः समान एवेत्याशङ्कतेसमान इति / परिहरति- नेति / परिहारहेतुमाह- ज्ञानानामिति, उक्तं व्याचष्टे- क्रमेणेति, इन्द्रियाथेषु= गन्धादिविषयकाणि ज्ञानानि क्रमेणोपजायन्ते अपयन्ति= विनश्यन्तीति च प्रत्यक्षमेव तेन वृत्तीनां नानात्वं मुख्यमेव सिद्धम् एकत्वे क्रमेण उत्पत्तिविनाशौ न स्याताम्- नानात्वे एव क्रमसंभवादित्यर्थः / उपसंहरति- तस्मादिति, मुख्य इतिशेषः / तथा चैकत्वनानात्ववैषम्यादुक्ताद् वृत्तिवृत्तिमतो दः सिद्धस्तथा च न ज्ञानं मनोधर्मः किं त्वात्मधर्म एवेति युक्तमित्याशयः // 9 // अग्रिमसूत्रमवतारयति- स्फटिकेति, क्षणिकवादे पदार्थस्य स्थायित्वमेव नास्तीति कथं मिथ्यान्यत्वाभिमानविषयत्वं स्यादित्यमर्शः / स्फटिकेपीति- व्यक्तीनाम्= पदार्थमात्रस्य क्षणिकत्वात् स्फटिकस्यापि क्षणिकत्वं प्राप्तं तथा च स्फटिके= स्फटिकस्यापि प्रतिक्षणम् अपरापरा अन्याऽन्या व्यक्ति रुत्पद्यते इति नैकस्मिन् स्फटिके उपाधिभूतजपाकुसमादिभेदादन्यत्वाभिमानो गौणः संभवति येन तदृष्टान्तेन वृत्तावन्यत्वाभिमानो गौण उपपद्येत तस्मात् पूर्वसूत्रेण वृत्तौ नानात्वाभिमानस्य गौणत्वे यो हेतुरुक्तः सोऽहेतुरेवेति सूत्रार्थः। यदि स्फटिकः स्थायी स्यात् तदैकस्मिन् स्फटिके उपाधिभेदात 'नीलः स्फटिक: "लोहितः स्फटिकः' इति नानात्वाभिमानः स्यादपि न चैवमस्ति तथा च क्षणिकत्वात् नीलत्वादिज्ञानविषयाणां स्फटिकव्यक्तीनां परस्परं भेदात् नैकस्मिन् नानात्वाभिमानः संभवतीत्याशयः। व्याचक्षाणः पूर्वोक्तमनुवदति- स्फटिकस्येति, इदं पूर्वत्र व्याख्यातम् / क्षणिकवादी स्ववक्तव्यमाहइत्ययमिति, अविद्यमानहेतुकः= निहेतुक:- स्फटिकादेवस्थितत्वासंभवेन एकस्मिन् नानात्वाभिमानविषयत्वासंभवादित्यर्थः / निर्हेतुकत्वे हेतुं जिज्ञासते- कस्मादिति / हेतुमाह- स्फटिकेपीति / उक्तं व्याचष्टे- स्फटिकेपीति, उत्तरोत्तरक्षणे अन्या अन्या व्यक्तय उत्पद्यन्ते अन्याः= पूर्वाः पूर्वा व्यक्तय निरुध्यन्ते विनश्यन्ति-क्षणिकत्वात्. तथा च नीलत्वादिधर्मेण भासमाना व्यक्तयो भिन्ना एवेति
SR No.004320
Book TitleNyayadarshanasya Nyayabhashyam
Original Sutra AuthorN/A
AuthorVatsyayan
PublisherManilal Iccharam Desai
Publication Year1922
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy