________________ बुद्धिविवेचनम् ] न्यायभाष्यम् / 287 पुरुषो जानीते नान्तःकरणमिति, एतेन विषयान्तरव्यासङ्गः प्रत्युक्तः= विषयान्तरग्रहणलक्षणो विषयान्तरव्यासङ्गः पुरुषस्य नान्तःकरणस्येति / केन चिदिन्द्रियेण संनिधिः केन चिदसंनिधिरित्ययं तु व्यासङ्गोऽनुज्ञायते मनस इति // 8 // एकमन्तःकरणं नाना वृत्तय इति, सत्यऽभेदे वृत्तेरिदमुच्यते स्फटिकान्यत्वाभिमानवत् तदन्यत्वाभिमानः // 9 // ___ तस्यां वृत्तौ नानात्वाभिमानो यथा द्रव्यान्तरोपहिते स्फटिकेऽन्यत्वाभिमानो 'नील' 'लोहितः' इति. एवं विषयान्तरोपधानादिति // नानात्वं वैकत्वं वा स्यादित्यर्थः / स्वसिद्धान्तेनोक्तं विषयान्तरमाह किं वा ज्ञानमनसोरेकत्वानुपपत्ती हेतुमाह- पुरुष इति, ज्ञानं पुरुषधर्मो न तु मनोधर्म इत्यर्थः / अस्य फलमाह- एतेनेति, प्रत्युक्तः= मनसः प्रतिषिद्धः / उक्तं व्याचष्टे- विषयान्तरेति, यदा हि ज्ञानं पुरुषधर्मस्तदा विषयान्तरग्रहणलक्षणो विषयान्तरव्यासङ्गोपि पुरुषे एव संभवति न तु मनसि- एतादृशव्यासङ्गस्य ज्ञानरूपत्वात् ज्ञानस्य च पुरुषधर्मत्वात् तथा चैतादृशविषयान्तरव्यासङ्गस्यापि मनसाऽभेदो नोपपद्यते- मनोधर्मत्वाभावादित्यर्थः / मनोवृत्तिव्यासङ्गस्य स्वरूपमाह- केनेति, केनचिदिन्द्रियेण संनिधिः= संयोगः केन चिच्चेन्द्रियेणाऽसंनिधिः= असंयोग एतादृशो यो व्यासङ्गः= इन्द्रियव्यासंगः स तु मनसि अनुज्ञायते= स्वीक्रियतेमनसोऽणुत्वेन एकस्मिन् काले सर्वैरिन्द्रियैः संयोगासंभवादित्यर्थः / अत्र- " यस्य पुनर्वृत्तिवृत्तिमतो - नात्वं तस्यान्तःकरणसाधनश्चक्षुरादिसाधनश्वात्मा अर्थानुपलभते इति युक्तम् , एतेन विषयान्तरव्यासङ्गः प्रत्युक्तः- पुरुषो जानीते नान्तःकरणमिति / कः पुनरयं व्यासङ्गः ?. अभीष्टविषयोऽनेकविज्ञानोत्पादः स च पुरुषस्य नान्तःकरणस्य, यः पुनरयं संनिधानासंनिधानलक्षणोऽन्तःकरणस्य व्यासङ्गः सोऽनुज्ञायते ( मनसि ) इति" इति वार्तिकम् / “पुरुषो जानीते नान्तःकरणमिति स्वमतसाधनपरं भाध्यम् / यदपि सांख्या आचरव्यु:-विषयान्तरव्यासक्तेऽन्तःकरणे चक्षुरादिसंबन्धस्याप्यज्ञानादन्तःकरणवृत्ति नमिति तन्निराकरणपरं भाष्यम्- एतेन विषयान्तरव्यासङ्ग इति / पुरुषो जानीते नान्तःकरणमिति हेतुना विषयान्तरव्यासङ्गोन्तःकरणस्य प्रत्युक्त:- व्यासक्तो हि स भवति यो जानीते न चान्तःकरणं जानीते किं तु पुरुष इति तस्येदृशव्यासको नान्तःकरणस्य, अन्यादृशस्त्वन्तःकरणस्य ध्यासङ्गो न निषिध्यते इत्यर्थः” इति च तात्पर्यटीका / यदि ज्ञानमात्मधर्मः स्यात्तदा मनसो विषयान्तरव्यासनेनात्मनो विषयान्तरभानासंभवेपि यो हि चक्षुरादिभिरात्मनो व्यापकत्वात् वर्तमानः संबन्धस्तस्य तु भानं स्यादेव ज्ञानस्यात्मधर्मत्वस्वीकारात्. न च तद्भानमपि भवतीति ज्ञायते ज्ञानं नात्मधर्मः किं तु मनोधर्मस्तथा च मनसो विषयान्तरव्यासक्तिकाले आत्मेन्द्रियसंयोगस्याभानमुपपद्यतेमनस एकस्मिन् काले एकमात्रविषयभासकत्वात् किं वा मनसो विषयान्तरव्यासक्तत्वेन आत्मेन्द्रियसंयोगव्यासक्तत्वाभावात् , तत्र धर्मधर्मिणोरभेदस्वीकारात् वृत्तिरूपस्य ज्ञानस्य वृत्तिमतश्च मनसोऽभेदः सिद्ध इति सांख्याभिप्रायः स एव तात्पर्यटीकायाम्- " यदपि सांख्याः " इत्यनेनोक्त इति विज्ञेयम् // 8 // अग्रिमसूत्रस्यावतारार्थ पूर्वसिद्धं स्मारयति- एकमिति / प्रकृतमाह- सतीति, वृत्तेरभेदे= एकत्वे सत्यपि प्रतीयमानस्य वृत्तिनानात्वस्योपपादनार्थमिदं सूत्रमुच्यते इत्यर्थः / स्फटिकेति- यथा स्फटिकस्यैकरूपत्वेपि जपाकुसुमाग्रुपाधिभेदवशात् 'रक्तः स्फटिकः' 'नीलः स्फटिकः' इत्येवमन्यत्वाभिमानः= नानात्वप्रतीतिर्भवति किं वा यथा स्फटिकस्य शुक्लत्वेपि जपाकुसमायुपाधिवशात् रक्तत्वादिविविधधर्मवत्त्वाभिमानो भवति तथैव वृत्तेरकत्वेपि तद्विषयाणां घटपटादीनां नानात्वादेव तत् तस्याः- वृत्तेरन्यत्वाभिमाना नानात्वप्रतीतिर्भवति न तु वस्तुतः तथा च वृत्तिवृत्तिमतोरेकत्वादभेद उपपद्यते तथा च कार्यकारणभावेन वृत्तमनोधर्मत्वं प्राप्तं नात्मधर्मत्वमिति सूत्रार्थः / ब्याचष्टे- तस्यामिति, एकस्यामित्यर्थः / स्फटिके