________________ 286 प्रसन्नपदापरिभूषितम्- . [3 अध्यायः २आह्निकेविभुत्वे चान्तःकरणस्य पर्यायेणेन्द्रियैः संयोगः न-गत्यभावात् // 8 // भाप्तानीन्द्रियाण्यन्तःकरणेनेति प्राप्त्यर्थस्य गमनस्याभावः तत्र क्रमवृत्तित्वाभावादयुगपद्ग्रहणानुपपत्तिरिति, गत्यभावाच्च प्रतिषिद्धं विभुनोऽन्तःकरणस्याऽयुगपदग्रहणं न लिङ्गान्तरेणानुमीयते इति, यथा चक्षुषो गतिः प्रतिषिद्धा- संनिकृष्टविप्रकृष्टयोस्तुल्यकालग्रहणात् . पाणिचन्द्रमसोर्व्यवधानेन प्रतीघाते साऽनुमीयते इति ।सोऽयं नान्तःकरणे विवादो न (च) तस्य नित्यत्वे- सिद्धं हि मनोऽन्तःकरणं नित्यं चेति / क तर्हि विवादः ?, तस्य विभुत्वे. तच्च प्रमाणतोऽनुपलब्धेः प्रतिषिद्धमिति / एकं चान्तःकरणं नाना चैता ज्ञानाल्मिका वृत्तयःचक्षुर्विज्ञानं घाणविज्ञानम्= रूपविज्ञानं गन्धविज्ञानम् . एतच्च वृत्तिवृत्तिमतोरेकत्वेऽनुपपन्नमिति / गृहीतस्य गन्धस्य वृत्त्यभिन्नमनसापि गृहीतत्वसंभवाद् तत्र विषयान्तरव्यासङ्गस्य वैयर्थ्य प्रसज्यते किं वा वृत्तिवृत्तिमतोरभेदपक्षे वृत्तिमतो मनसो नित्यत्वेन सदैव सत्त्वाद् वृत्तीनामपि सदा सत्त्वं स्यादिति विषया. न्तरव्यासङ्गस्यापि विषयान्तरग्रहणप्रतिबन्धकत्वं न स्यादिति पूर्वोक्तवत् सर्वदा सर्वविषयभानं स्यादेवेत्या. शयः न चैवं दृश्यते इति न वृत्तिवृत्तिमतोरैक्यमुपपद्यते इत्यर्थः / वस्तुतस्तु चिन्त्यमिदं भाष्यं सूत्रं च // 7 // __ अग्रिमसूत्रमवतारयति- विभुत्वे इति, अन्तःकरणस्य= मनसो विभुत्वे चेन्द्रियैः सह पर्यायेण संयोगो नोपपद्यते किं तु विभुत्वेन युगपदेव सर्वैरपीन्द्रियैः संयोगः स्यात्तथा च युगपदेवाऽनेकार्थग्रहणं स्यात् न चैवं दृश्यते इति न मनसो विभुत्वमुपपद्यते किं त्वणुत्वमेवेत्यर्थः, अत्र सूत्रघटकनकारेण 'संयोगी न' इत्येवमन्वयः / नेति- मनसो विभुत्वं नोपपद्यते-विभुनो गत्यसंभवात् सर्वदैव सर्वैरपीन्द्रियैः संयोगः स्यादिति युगपदनेकार्थग्रहणं स्यात् न चैवं दृश्यते इति न मनो विभु किं तु अणु अणुत्वे च गतिसंभवेन पर्यायेणेन्द्रियैः संयोगः संभवतीति पर्यायेण विषयग्रहणं दृश्यमानमुपपद्यते इतिसूत्रार्थः / सूत्रकृतात्र यन्मनसो विभुत्वं प्रत्याख्यायते तदत्र न केनापि सूत्रशब्देन प्राप्तमिति सूत्रकृतो विभावनीयं पाण्डित्यम् ।व्याचष्टे- प्राप्तानीति, मनसो विभुत्वपक्षे सर्वाण्यपीन्द्रियाणि सर्वदैव मनसा प्राप्तानि संयुकानि स्युस्तथा च मनसः प्राप्त्यर्थस्य= इन्द्रियैः संयोगार्थस्य गमनस्य- इन्द्रियसमीपगमनस्याभावः प्राप्तस्तत्र तथा चेन्द्रियैः मनस्संयोगस्य क्रमवृत्तित्वासंभवाद् युगपदेवाऽनेकार्थग्रहणं स्यादिति दृश्यमानस्याऽयुगपद्ग्रहणस्यानुपपत्तिः प्राप्तेत्यन्वयः / ननु मनसो विभुत्वेप्ययुगपद्ग्रहणं लिङ्गान्तरेण सेत्स्यतीत्याशङ्कयाह- गत्यभावादिति, विभुनो मनसो गत्यभावात् प्रतिषिद्धम् = अनुपपन्नमऽयुगपद्विषयग्रहणं लिङ्गान्तरेणापि नानुमातुं शक्यते- विभुत्वविरोधादित्यन्वयः / लिङ्गान्तरेणानुमाने दृष्टान्तमाहयथेति, संनिकृष्टविप्रकृष्टयोः- समीपदूरस्थयोः पदार्थयोस्तुलकालग्रहणात्= समानकालग्रहणात् चक्षुषो गतिः प्रतिषिध्यते-चक्षुषो गतिसत्त्वे समीपस्थस्य प्रथमं दूरस्थस्य च तदनन्तरं ग्रहणं स्यात् न चैवमस्तीति तुल्यकालग्रहणात् प्रतिषिद्धापि चक्षुर्गतिः सा पाणिना चन्द्रमसो व्यवधानेन प्रतीपाते= चन्द्राग्रहणे जातेऽनुमीयते- यदि चक्षुर्गतिर्न स्यात्तदा पाणिना चन्द्रमसो व्यवधानेपि चन्द्रग्रहणं स्यादेवेत्यर्थस्तथा च यथैवं प्रतिषिद्धापि चक्षुर्गतिरनुमीयते- अनुमाकसत्त्वान्न तथा विभुनो मनसो गतिः प्रतिषिद्धानुमातुं शक्यते- अनुमापकासंभवादित्याशयः / उपसंहरति- सोयमिति / सिद्धमाहसिद्धमिति / विवादविषयं जिज्ञासते- केति / उत्तरमाह- तस्येति, तस्य= मनसः / तत्= मनसो विभुत्वं प्रमाणेनानुपलभ्यमानत्वादेवात्र प्रतिषिद्धम्= निराकृतम्-प्रमाणसिद्धस्यैव स्वीकत शक्यत्वादित्यर्थः। संकलयति- एकं चेति, वृत्तीनां स्वरूपमाह- चक्षुरिति, उक्तं व्याचष्टे- रूपेति, चक्षुर्विज्ञानम्= चाक्षुषं विज्ञानं तच्च रूपज्ञानमेव. प्राणविज्ञानं नाम गन्धविज्ञानम् / पर्यवसितमाह-एतदिति, मनस एकत्वं तद्वृत्तीनां च नानात्वमिति वैषम्यं वृत्तिवृत्तिमतोरेकत्वे नोपपद्यते- एकत्वे= अभेदे धुभयोरपि