________________ बुद्धिविवेचमम् ] न्यायभाष्यम्। 285 अतीते च प्रत्यभिज्ञाने वृत्तिमानप्यतीत इत्यन्तःकरणस्य विनाशः प्रसज्यते, विपर्यये च नानात्वमिति // 5 // अविभु चै मनः पर्यायेणेन्द्रियैः संयुज्यते इति क्रमवृत्तित्वादयुगपद्ग्रहणम् // 6 // इन्द्रियार्थानाम् / वृत्तिवृत्तिमतो नात्वमिति. एकत्ये च प्रादुर्भावतिरोभावयोरभाव इति // 6 // अप्रत्यभिज्ञानं च विषयान्तर व्यासङ्गात् // 7 // अप्रत्यभिज्ञानम्= अनुपलब्धिः. अनुपलब्धिश्च कस्य चिदर्थस्य विषयान्तरव्यासक्ते मनस्युपपद्यते- वृत्तिवृत्तिमतो नात्वात् , एकत्वे हि अनर्थको व्यासङ्ग इति // 7 // लक्षणवृत्तेरभावकाले बुद्धेविनाशः= अभावः प्रसज्यते- वृत्तिवृत्तिमतोरभेदस्वीकारादिति न बुद्धनित्यत्वं संभवतीति न वृत्तिवृत्तिमतोरभेदः संभवति तेन न कार्यकारणभावः संभवति तेन न प्रत्यभिज्ञानं बुद्धिधर्मः संभवति तेन न बुद्धनित्यत्वं संभवतीति सूत्रार्थः / व्याचष्टे- अतीते इति, अतीते= विनष्टे / वृत्तिमान= प्रत्यभिज्ञालक्षणवृत्तिमदन्तःकरणम् , अन्तःकरणस्य= बुद्धेः / विपक्षे बाधकमाह- विपर्यये इति, यदिबुद्धिवृत्तीनां प्रत्यभिज्ञानादीनां विनाशेपि बुद्धेर्न विनाश इति विपर्ययस्तदा नानात्वम् वृत्तिवृत्तिमतोर्भेद एव स्यान्नाऽभेद इत्यर्थः, एवं पूर्वसुत्रेपि विपर्यये नानात्वं विज्ञेयम् // 5 // स्वसिद्धान्तेनाग्रिमसूत्रमवतारयति- अविम्विति, मनः अविभु= अणु चैकं चेतीन्द्रियैः पर्यायेण संयुज्यते अत एव विषयाणामयुगपद् ग्रहणं भवतीत्यन्वयः / क्रमेति- इन्द्रियैः सह मनस्संयोगस्य क्रमवृत्तित्वात्= पर्यायेण= कालभेदेन जायमानत् विषयाणां शब्दस्पर्शादीनामयुगपद् ग्रहणं भवति तथा च वृत्तिवृत्तिमतोर्भेदः सिद्धः- वृत्तिमतो मनसः सदातनत्वाद् वृत्तीनां च सदातनत्वाभावादिति सूत्रार्थः / ज्याचष्टे-इन्द्रियेति, "इन्द्रियार्थानाम्" इतिसूत्रशेषः, 'इन्द्रियार्थानामयुगपद् ग्रहणम्' इति सूत्रान्वय इत्यर्थः / तदनेन सिद्धमाह- वृत्तीति, नानात्वम्= भेदः सिद्ध इत्यर्थः, वृत्तिवृत्तिमतोरभेदे हि वृत्तिमतो नित्यत्वेन वृत्तीनामपि नित्यत्वं स्यादिति विषयाणां ग्रहणम्= भानं युगपदेव स्यात् न चैवमस्तीति नानात्वं सिद्धम् / विपक्षे बाधकमाह- एकत्वे इति, वृत्तिवृत्तिमतोरेकत्वे वृत्तिमतो नित्यत्वेन वृत्ती. नामपि विषयग्रहणाख्यानां नित्यत्वं स्यादिति प्रादुर्भावतिरोभावयोरभावः स्यात् स्तश्च प्रादुर्भावतिरो. भावाविति नित्याद् वृत्तिमतो वृत्तीनामनित्यानां भेदः सिद्ध इत्यन्वयः // 6 // वृत्तिवृत्तिमतो नात्वे हेत्वन्तरमाह किं वेन्द्रियेण मनस्संयोगस्य प्रत्यक्षकारणत्वे हेतुमाह- अप्रत्यभिज्ञानमिति, मनसो विषयान्तरव्यासङ्गात्= विषयान्तरासक्तत्वाद् विषयान्तरस्याऽप्रत्यभिज्ञानम्= अग्रहणमुपपद्यते, यदा हि मनो रूपादिग्रहणासक्तं भवति तदा गन्धादिग्रहणं गन्धादीनामिन्द्रियेण संयोगे सत्यपि न भवति तत्र यदीन्द्रियैः मनस्संयोगस्य प्रत्यक्षकारणत्वं न स्यात्तदा रूपादिवद् गन्धादीनामपीन्दियेण संयक्तत्वाद ग्रहणमेव स्यात ग्रहणाभावश्च न स्याद भवति च ग्रहणाभाव इतीन्द्रियैः मनस्संयोगस्य प्रत्यक्षकारणत्वं मनसश्चैकत्वमणुत्वं च कल्प्यते तथा चाणुभूतस्य मनसो विषयान्तरव्यासङ्गे सति विषयान्तराग्रहणमुपपद्यते-अणोरेकस्मिन् कालेऽनेकैरिन्द्रियैः संयोगासंभवादिति सूत्रार्थः / व्याचष्टे- अप्रत्यभि. ज्ञानमिति, अत्राऽप्रत्यभिज्ञानशब्दः प्रत्यक्षाभावपर इत्याह- अनुपलब्धिरिति, यथा रूपादौ= रूपादिग्रहणे व्यासक्त मनसि कस्य चिदर्थस्य= गन्धादेरनुपलब्धिरुपपद्यते- वृत्तिवृत्तिमतो नात्वात्= भेदात् / विपक्षे बाधकमाह- एकत्वे इति, वृत्तिवृत्तिमतोरेकत्वे हि रूपेण चक्षुस्संनिकर्षकाले किं वा रूपज्ञानकाले घ्राणस्य गन्धेन संयोगः संभवत्येवेति तादृशसंयोगेन गन्धविषयकवृत्तौ जातायां गन्धग्रहणमपि स्यादेव- वृत्त्या