________________ 284 प्रसन्नपदापरिभूषितम- [3 अध्याये. २आह्निकेत्यभिज्ञानाद् नित्यत्वम् . दृष्टं हि करणभेदे ज्ञातुरेकत्वात् प्रत्यभिज्ञानम्- सव्यदृष्टस्येतरेण प्रत्यभिज्ञानादिति चक्षुर्वत् . प्रदीपवच्च- प्रदीपान्तरदृष्टस्य प्रदीपान्तरेण प्रत्यभिज्ञानमिति, तस्माद् ज्ञातुरयं नित्यत्वे हेतुरिति // 3 // ____यच्च मन्यते- बुद्धेरऽवस्थिताया यथाविषयं वृत्तयः= ज्ञानानि निश्चरन्ति वृत्तिश्च वृत्तिमतो नाऽन्येति. तच्च न-युगपदग्रहणात् // 4 // वृत्तिवृत्तिमतोरनन्यत्वे वृत्तिमतोऽवस्थानाद् वृत्तीनामवस्थानमिति यानीमानि विषयग्रहणानि तान्यवतिष्ठन्ते इति युगपद् विषयाणां ग्रहणं प्रसज्यते इति // 4 // अप्रत्यभिज्ञाने च विनाशप्रसङ्गः // 5 // संभवति तेन च न ज्ञानवत्त्वं संभवति तेन प्रत्यभिज्ञाकर्तृत्वमपि न संभवति तथा च नित्यत्वमपि न संभवतीत्यर्थः / पक्षान्तरमाह- यदीति, बोधनम्= ज्ञानसाधनम् , तत्= मनः / एतत्पदं स्वीकरोतिअस्त्विति / अत्र विशेषमाह-न विति, यन्मनसो नित्यत्वं तद् विषयप्रत्यभिज्ञानान्नास्ति- मनसि प्रत्यभिज्ञानस्याभावात् तस्यात्मवृत्तित्वात् किं त्वणुत्वात् अणूनां नित्यत्वात् , ज्ञानानामयोगपद्याच मनसोऽणुत्वमित्यन्वयः / प्रत्यभिज्ञानस्यात्मवृत्तित्वमाह- दृष्टमिति, यथा 'यं चक्षुषाऽद्राक्षं तं त्वचा स्पृशामि' इति करणभेदेपि आत्मन एकत्वात् प्रत्यभिज्ञानं भवति. करणानां प्रत्यभिज्ञानपक्षे च करणानां भेदेन प्रत्यभिज्ञानं न स्याद् भवति च करणभेदेपि प्रत्यभिज्ञानमिति प्रत्यभिज्ञानमात्मधर्मो न करणधर्म इति सिद्धम् . अस्मिश्च पक्षे ज्ञानसाधनत्वाद् बुद्धिशब्दवाच्यं मनः करणमेवेति न मनसि प्रत्यभिज्ञानं संभवति येन प्रत्यभिज्ञानान्मनसो नित्यत्वं स्यादित्यर्थः / करणभेदेपि ज्ञातुः प्रत्यभिज्ञानमुदाहरति- सव्येति, सव्यदृष्टस्य= वामचक्षुर्दृष्टस्य, इतरेण= दक्षिणचक्षुषा / उदाहरणान्तरमाहप्रदीपवदिति / उपसंहरति- तस्मादिति, ज्ञातुर्नित्यत्वे अयम्= इदम्= प्रत्यभिज्ञानं हेतुर्न तु मनसो नित्यत्वे इत्यन्वयः // 3 // __परिहतु पक्षान्तरमुपस्थापयति- यच्चेति, अवस्थितायाः= नित्यायाः, यथाविषयम्= प्रतिविषयं किं वा विषयानुरूपा वृत्तय इत्यर्थः, यथा घटवृत्तिर्घटानुरूपा घटाकारा भवति, वृत्तिरेव ज्ञानमित्युच्यते, निश्चरन्ति= विषयदेशं गच्छन्ति / कार्यकारणयोरभेदेन वृत्तिवृत्तिमतोरभेदमाह-वृत्तिश्चेति, तथा च प्रत्यभिज्ञानलक्षणा वृत्तिरपि बुद्धेरेवेति तया बुद्धेर्नित्यत्वं सिद्धमित्यर्थः / अत्राह- तच्चेति, अस्य सूत्रघटकनकारेणान्वयात् 'तच्च न संभवति' इत्यर्थः / उक्तं सूत्रेण निराकरोति-नेति, वृत्तिवृत्तिमतोरभेदो नोपपद्यते- युगपदग्रहणाद्विषयणामित्यन्वयः, वृत्तिवृत्तिमतोरभेदे हि वृत्तिमतो नित्यत्वेन वृत्तीनामपि नित्यत्वं स्याद् वृत्तिश्च ज्ञानस्य घटादिरूपेण परिणाम एव तथा च वृत्तीनां नित्यत्वेन स्थिरत्वात् तद्विषयभूतानां शब्दस्पर्शादीनां युगपद् भानं स्याद् न च युगपद् भानं भवतीति युगपदग्रहणान्न वृत्तीनां स्थायित्वं संभवति ततश्च न वृत्तिवृत्तिमतोरभेदः संभवति तथा च न वृत्तीनां बुद्धिकार्यत्वं संभवति येन प्रत्यभिज्ञानस्य बुद्धिकार्यत्वेन बुद्धनित्यत्वं स्यात् . कार्यकारणयोरभेदस्य त्वदिष्टत्वादिति सूत्रार्थः / व्याचष्टेवृत्तीति / अवस्थानमित्यत्र प्राप्तमितिशेषः / पर्यवसितमाह- यानीति / उपसंहरति- युगपदिति, वृत्तीनामवस्थानादितिशेषः, न च युगपद् विषयाणां ग्रहणं दृश्यते इति न वृत्तिवृत्तिमतोरभेदः // 4 // वृत्तिवृत्तिमतोरभेदे दोषान्तरमाह- अप्रत्यभिज्ञाने इति, प्रत्यभिज्ञानाभावे इत्यर्थः, यथा ह्यभेदपक्षे वृत्तिमतो नित्यत्वेन वृत्तीनां नित्यत्वं प्राप्नोति तथा वृत्तीनामनित्यत्वेन वृत्तिमतोप्यनित्यत्वं प्राप्नोतीति न बुद्धनित्यत्वं संभवतीत्याशयः, प्रत्यभिज्ञानमपि त्वन्मते बुद्धिवृत्तिरेव तत्र प्रत्यभिज्ञान