________________ बुद्धिविवेचनम् न्यायभाष्यम्। 283 यश्च प्रतिजानीते- कश्चित पुरुषश्चेतयते कश्चिद् बुध्यते कश्चिदुपलभते कश्चित् पश्यति इति पुरुषान्तराणि खल्विमानि= चेतनो बोद्धा उपलब्धा द्रष्टेति नैकस्येते धर्मा इति, अत्र कः प्रतिषेधहेतुरिति // अर्थस्याऽभेद इतिचेत् ?. समानम् / अभिन्नार्था एते शब्दा इति तत्र व्यवस्थानुपपत्तिरित्येवं चेत् मन्यसे ?. समानं भवति= पुरुषश्चेतयते बुद्धिर्जानीते इत्यत्राप्यों न भिद्यते, तत्रोभयोश्चेतनत्वादन्यतरलोप इति / यदि पुनर्बुध्यतेऽनयेति बोधनं बुद्धिर्मन एवोच्यते तच्च नित्यम् ? अस्त्वेतदेवं न तु मनसो विषयमएव इति यदि प्रतिज्ञायते तदा चेतनत्वज्ञानादीनामेकधर्मत्वप्रतिषेधस्य हेतुर्वक्तव्यः न च स संभवतीत्यन्वयः / स्वयमेव व्याचष्टे- यश्चेति, कश्चित् चेतयते कश्चिद् बुध्यते इत्येषैव प्रतिपुरुषं शब्दान्तरव्यवस्था तस्याः प्रतिज्ञाने, शब्दान्तरशब्देन चेतयते इत्यादिशब्दवाच्याः चेतनत्वादयः पदार्था ग्राह्यास्ते च प्रतिपुरुष भिन्नाः= पुरुषभेदेनैव चेतनत्वादयो धर्मा भवन्ति नैकस्य पुरुषस्येत्याह- पुरुषान्तराणीति, इमानि= चेतनत्वादिविशिष्टानि पुरुषान्तराण्येव नैकः पुरुष इत्यन्वयः, चेतनत्वादिविशिष्टान् पुरुषानाह- चेतन इति, अन्यश्चेतनः अन्यो बोद्धा इत्येवमन्वयः। पर्यवसितमाह- नैकस्येति, एते= चेतनत्वादयः, तथा च चेतनत्वं ज्ञानं च नैकधर्म इति चेतनत्वं पुरुषधर्मो ज्ञानं च बुद्धिधर्म इति 'पुरुषश्चेतयते बुद्धिर्जानाति' इति पूर्वोक्तं सिद्धमित्यर्थः / अत्रानुपपत्तिमुद्बाटयति- अत्रेति, अत्र= " नैकस्यैते धर्माः” इत्यत्र, चेतनत्वादीनां यदेकधर्मत्वं प्रतिषिद्धं तादृशप्रतिषेधस्य को हेतुरितिवक्तव्यमित्यर्थः प्रतिभाति / वार्तिकमप्यत्रत्यं द्रष्टव्यम् / प्रतिषेधहेतुस्तेन पूर्वपक्षसिद्धिश्चाग्रे द्रष्टव्ये // जिज्ञासितं प्रतिषेधहेतुमाह- अर्थस्याभेद इति / अत्र दोषमाह- समानमिति / अत्र " अत्र भवता किं वक्तव्यम् ? अभिन्नार्था एते शब्दा इत्येतद्वक्तव्यम्" इति वार्तिकम् / स्वयं व्याचष्टेमभिन्नार्था इति, एते= चेतयते पश्यति बुध्यते इत्याद्या उक्ताः शब्दाः, एतेषामभिन्नार्थत्वं च स्पष्टमेव, तत्र यथा ' कश्चिद् गौरः कश्चित् शुक्लः' इत्युक्ते गौरत्वशक्तत्वयो कधर्मत्वं भवति- अभेदात् अन्यथा द्विधाप्रयोगस्य वैयर्थ्य स्यात् तथा प्रकृतेपि ‘कश्चित् चेतयते कश्चिद् बुध्यते' इत्यत्र चेतनत्वादिपदार्थानां नैकधर्मत्वं संभवति- अभेदात्. तत्रापि यश्चेतयते स एवात्मा यो बुध्यते स नात्मेति व्यवस्था नोपपद्यते इति चेतनत्वबोधादिविशिष्टानां सर्वेषामपि आत्मत्वं प्राप्नोतीति चेतनत्वादिविशिष्टानामात्मनां परस्परं भेदोपि सिद्धः- अन्यथा ' कश्चित् चेतयते कश्चिद् बुध्यते / इत्यादिप्रयोगस्य पुनरुक्तत्वं स्यात् , न चैवमस्ति, तत्रात्मनां भेदेपि चेतनत्वादिधर्माणां भेदोन संभवतीति चेतयते बुध्यते इत्याद्याः शब्दा अभिन्नार्था जातास्तत्र चेतनत्वादेरात्मधर्मत्वेपि ज्ञानस्य बुद्धिधर्मत्वमेव नात्मधर्मत्वम्- ज्ञानस्य चेतनत्वाद्यतिरिक्तत्वात् ज्ञानक्रियारूपत्वेनात्मन्यसंभवाच्च तथा च प्रत्यभिज्ञानमपि ज्ञानमेवेति तदपि बुद्धेरेव धर्मस्तेन च बुद्धनित्यत्वं प्राप्तम्- प्रत्यभिज्ञातुनित्यत्वस्यावश्यकत्वादित्यर्थः प्रतिभाति / किंवा चेतनत्वादिधर्मविशिष्टानां भेदो ज्ञानविशिष्टस्य च न भेद इति व्यवस्था नोपपद्यते तेन चेतनत्वादिधर्मविशिष्टेभ्यो ज्ञानविशिष्टस्य भेदः सिद्ध इति आत्मातिरिक्ताया एव बुद्धर्ज्ञानवत्त्वं प्राप्तं तेन प्रत्यभिज्ञावत्वं तेन च नित्यत्वं प्राप्तमित्येवं पूर्वपक्ष उपपादनीय इति प्रतिभाति / पूर्वपक्षोपपत्तिप्रकारस्त्वत्र किंचिदपि न स्पष्ट इति स्पष्टमेव / अत्र दोषमाह- समानमिति, उक्तं व्याचष्टे-पुरुष इति, 'पुरुषश्वे. तयते बुद्धिर्जानीते' इत्यत्रापि ' चेतयते जानीते ' इति शब्दयोरथों न भिद्यते- चेतनत्वज्ञानयोरेकपदार्थत्वात् तथा च यथा 'चैत्रश्चेतयते मैत्रो बुध्यते ' इत्यत्र चैत्रमैत्रयोरुभयोरपि चेतनत्वं प्राप्तं तथा 'पुरुषश्वेतयते बुद्धिर्जानीते ' इत्यत्रापि पुरुषबुद्धयोरुभयोरपि चेतनत्वं प्राप्तं तत्रैकस्मिन् शरीरे चेतनद्वयासंभवादन्यतरस्य लोपः= अभावः स्यात् , किं वान्यतरस्य चेतनत्वलोपः स्यादेवेति न बुद्धेश्वेतमरक