________________ 282 प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्रिकेधर्मस्य करणेऽनुपपत्तिः- पुरुषधर्मः खल्वयं ज्ञानं दर्शनमुपलब्धिर्बोधः प्रत्ययोऽध्यवसाय इतिचेतनो हि पूर्वज्ञातमर्थ प्रत्यभिजानाति तस्यैतस्माद् हेतोनित्यत्वं युक्तमिति / करणचैतन्याभ्युपगमे तु चेतनस्वरूपं वचनीयम्- नाऽनिर्दिष्टस्वरूपमाऽऽत्मान्तरं शक्यमस्तीति प्रतिपत्तुम् / ज्ञानं चेद् बुद्धेरन्तःकरणस्याभ्युपगम्यते चेतनस्येदानी कि स्वरूपं को धर्मः कि तत्त्वम् , ज्ञानेन च बुद्धौ वर्तमानेनायं चेतनः किं करोरीति // चेतयते इतिचेत् ?. न ज्ञानादर्थान्तर वचनम् / पुरुषश्चेतयते बुद्धिर्जानातीति. नेदं ज्ञानादर्थान्तरमुच्यते- चेतयते जानीते पश्यति उपलभते इत्येकोयमर्थ इति / बुद्धिपियतीति चेत् ?. अद्धा जानीते पुरुषो बुद्धिर्ज्ञापयतीति सत्यमेतत्. एवं चाभ्युपगमे 'ज्ञानं पुरुषस्य ' इति सिद्धं भवति न बुद्धेरन्तःकरणस्येति // प्रतिपुरुषं च शब्दान्तर व्यवस्थाप्रतिज्ञाने 1 प्रतिषेधहेतुवचनम् / साध्यमेवेत्यर्थः, बुद्धेः करणत्वं च स्पष्टमेव / प्रत्यभिज्ञानं हि ज्ञानविशेष एव स च पुरुषधर्म इत्याहपुरुषेति, ज्ञानादिशब्दाश्चैते एकार्थपरा एवेति स्पष्टमेव तथा च बुद्धेः प्रत्यभिज्ञानकर्तृत्वमसिद्धमेवेति न तेन नित्यत्वं संभवतीत्यर्थः / चेतनस्यात्मनः प्रत्यभिज्ञानकर्तृत्वमाह- चेतन इति, ज्ञातविषयकज्ञानमेव प्रत्यभिज्ञानम् , तस्य= चेतनस्य, एतस्माद् हेतोः प्रत्यभिज्ञानकर्तृत्वात् नित्यत्वं युक्तम्- सिध्यति, पूर्वापरकालस्थायिन एव प्रत्यभिज्ञासंभवान्नित्यत्वं सिध्यतीत्यर्थः / विपक्षे बाधकमाह- करणेति, यदि प्रत्यभिज्ञाकर्तृत्वं बुद्धौ तदा बुद्धेरेव चेतनत्वं स्यात् तथा च करणभूताया बुद्धेश्चेतनत्वस्वीकारे चेतनस्वरूपम्= आत्मस्वरूपं वक्तव्यम् . चेतनत्वमेवात्मस्वरूपं संभवति तच्च यदि बुद्धौ स्वीकृतं तदाऽऽत्मस्वरूपस्याऽसिद्धिरेव स्यात् चेतनत्वातिरिक्तस्यात्मस्वरूपत्वासंभवादित्यर्थः, स्वरूपनिर्देशं विना च पदार्थस्वीकारो न संभवतीत्याह- नेति, अनिर्दिष्टस्वरूपम्= अनिरूपितस्वरूपं चेतनातिरिक्तं किंचिदात्मान्तरमस्तीति प्रतिपत्तुम्= स्वीकर्तुं न शक्यमित्यन्वयः, चेतनत्वमेवात्मस्वरूपं निरूपयितुं शक्यते तच्च बुद्धौ प्राप्तमित्यात्मस्वरूपनिरूपणाभावः प्राप्त इत्यर्थः / बाधकान्तरमाह- ज्ञानमिति, तत्त्वम्= लक्षणम् , बुद्धिसमवेतज्ञानेन चेतनस्यात्मनः क उपयोग इतिसवै वक्तव्यम् / किं वा ननु चेतनत्वमात्मधमों न बुद्धेः किं तु ज्ञानं बुद्धिधर्म इति नात्मस्वरूपनिरूपणानुपपत्तिरित्याशङ्कयाह- ज्ञानं चेदिति, चेतनत्वमेव ज्ञानं तथा च पूर्वदोषः स्थित एवेत्यर्थः / किं वा ज्ञाने बुद्धौ वर्तमाने सति चेतनोऽक्रिय एव स्यात् तथा च वैयर्थ्यमेव स्यात्- ज्ञानक्रियार्थमेव चेतनस्वीकारस्य संभवादित्यर्थः / / ___ ननु बुद्धौ वर्तमानेन ज्ञानेन पुरुषश्चेतयते अर्थात् चेतनत्वं पुरुषों ज्ञानं च बुद्धिधर्म इत्याशङ्कते- चेतयते इति, उत्तरमाह- नेति, एवमपि ज्ञानादर्थान्तरं चेतनधो नोक्तः- चेतनत्वस्य ज्ञानरूपत्वादेव तस्य पुरुषधर्मत्वे ज्ञानस्यैव पुरुषधर्मत्वमुक्तं भवति तथा च बुद्धर्ज्ञानधर्मवत्त्वं न स्यादित्यर्थः / स्वयं ब्याचष्टे- पुरुष इति, अनेन चेतनत्वस्य पुरुषधर्मत्वं ज्ञानस्य च बुद्धिधर्मत्वं प्रदर्शितम् / परिहरतिनेदमिति, इदम्= चेतनत्वं ज्ञानादर्थान्तरं नेत्यर्थः / चेतनत्वज्ञानादीनामभेदमाह-चेतयते इति, चेतयते इत्यादीनां शब्दानामेकार्थपरत्वात् चेतनत्वज्ञानयोरभेदः प्राप्त इत्यर्थः / ननु बुद्धर्ज्ञापनं धर्मो न ज्ञानमित्याशङ्कते- बुद्धिरिति / उक्तं स्वीकरोति- अद्धेति, एवं हि ज्ञानस्य पुरुषधर्मत्वं ज्ञापनस्य च बुद्धिधर्मत्वं प्राप्तं तदेतद् युक्तमेवेत्यर्थः / अस्मिन् पक्षे खसिद्धान्तसिद्धिमाह- एवमिति / पूर्वपक्षिसिद्धान्तस्य हानिमाह- नेति, स्पष्टमन्यत् // __पूर्वपक्षिणः पक्षान्तरस्वीकारे दोषमाह- प्रतिपुरुषमिति, चेतनत्वादयो नैकस्य पुरुषस्य= आत्मनो धर्माः किं तु परस्परं भिन्नानामेव तथा च यस्य चेतनत्वं धर्मस्तस्य ज्ञानं न धर्मः किं तु ज्ञानं बुद्धिधर्म