________________ बुद्धिविवेचनम् ] न्यायभाष्यम्। 281 इत्येवमादि, तस्मात्संशयप्रक्रियानुपपत्तिरिति / दृष्टिपवादोपालम्भार्थ तु प्रकरणम्. एवं हि पश्यन्तः प्रवदन्ति सांख्याः- 'पुरुषस्यान्तःकरणभूता नित्या बुद्धिः' इति // 1 // साधनं च प्रचक्षते विषयप्रत्यभिज्ञानात् // 2 // किं पुनरिदं प्रत्यभिज्ञानम् ? ' पूर्वमज्ञासिपमर्थ तमिमं जानामि' इतिज्ञानयोः समानेऽर्थे पतिसन्धिज्ञानं प्रत्यभिज्ञानम् एतच्चाऽवस्थिताया बुद्धरुपपन्नम्. नानात्वे तु बुद्धिभेदेपूत्पन्नापवर्गिषु प्रत्यभिज्ञानानुपपत्तिः- नान्यज्ञातमन्यः प्रत्यभिजानातीति // 2 // साध्यसमत्वादहेतुः॥३॥ यथा खलु नित्यत्वं बुद्धेः साध्यम् एवं प्रत्यभिज्ञानमपीति / किं कारणम् ?. चेतनप्रागभावप्रतियोगित्वलाभादित्याह- प्रमाणेति / उपसंहरति- तस्मादिति, तस्मात्= उक्तरीत्या बुद्धेरनित्यत्वस्य सर्वप्रसिद्धत्वात् तत्र संशयप्रक्रियायाः= संशयप्राप्तेरनुपपत्तिः / ननु यदि बुद्धयनित्यत्वं सर्वप्रसिद्धमेव तर्हि किमर्थमिदं परीक्षाप्रकरणम् ? इत्याशङ्कयाह- दृष्टीति, दृष्टिः= दर्शनम्= सांख्यदर्शनं तत्प्रवादस्य= तत्सिद्धान्तस्योपालम्भार्थम्= खण्डनार्थ प्रकरणमस्ति / सांख्यसिद्धान्तमाह- पुरुषस्येति / एवम्= बुद्धिनित्यत्वम् , पुरुषस्य= आत्मनः / वस्तुतस्तु चिंत्यमेतत् " हेतुमदनित्यमव्यापि" " प्रकृतेर्महान् " इत्यादिना सांख्यैर्बुद्धेरनित्यत्वस्यैवोक्तत्वात् / अत एव वाचस्पतिमित्रैः- " सांख्यानां हि दर्शने प्रवादः- महदन्तःकरणं बुद्धिरिति तदुपालम्भार्थम्= दूषणार्थ प्रकरणमिति" इत्येवं व्याख्यातम् / किं वा सांख्यशब्दोत्र वेदान्तपरो विज्ञेयः- वेदान्तिभिरात्मलक्षणज्ञानस्य नित्यत्वस्वीकारात्. अन्तःकरणस्य तु तैरपि नित्यत्वं न स्वीक्रियते इतिविभाव्यम् , भाष्यकारोयं बहुत्र प्रमादं करोतीत्युक्तमेव // 1 // अग्रिमसूत्रमवतारयति- साधनमिति, नित्यत्वहेतुमित्यर्थः, बुद्धिनित्यत्ववादिन इतिशेषः / विषयेति-- विषयस्य प्रत्यभिज्ञानाद् बुद्धनित्यत्वं सिद्धम्- 'सोयं देवदत्तः' इत्यादिज्ञानं प्रत्यभिज्ञानं तेन प्रत्यभिज्ञातुः पूर्वापरकालस्थायित्वेन नित्यत्वं सिध्यति प्रत्यभिज्ञात्री च बुद्धिरेवेति बुद्धनित्यत्वं सिद्धम् , न च प्रत्यभिज्ञानमात्मधर्मः- आत्मनो धर्मित्वाभावाद् अक्रियत्वेन ज्ञानलक्षणक्रियारहितत्वाचेति सूत्रार्थः / व्याचष्टे- किमिति / प्रत्यभिज्ञानस्वरूपमाह- पूर्वमिति, यमितिशेषः, 'यमर्थ पूर्वमज्ञासिषम्' इत्येकं ज्ञानम् ' तमिममर्थ जानामि' इत्यपरं ज्ञानं तयोर्ज्ञानयोर्यः समानोऽर्थः= एक एव विषयस्तद्विषयकं यत् प्रतिसंधिज्ञानम्= उभयात्मकमेकम् ' यमज्ञासिषं तं पश्यामि' इत्यादिरूपं ज्ञानं तदेव प्रत्यभिज्ञानमित्युच्यते. एतत्= प्रत्यभिज्ञानम्= प्रत्यभिज्ञाकर्तृत्वमवस्थितायाः= नित्याया बुद्धेरुपपद्यते नाऽनित्याया इत्यन्वयः / विपक्षे बाधकमाह- नानात्वे इति, बुद्धेरनित्यत्वे नानात्वं स्यात् तेन बुद्धीनामुत्पन्नापवर्गित्वम् उत्पादविनाशशालित्वं स्यात् तथा चोत्पन्नापवर्गिषु बुद्धिभेदेषु= बुद्धिव्यक्तिषु प्रत्यभिज्ञानानुपपत्तिः= प्रत्यभिज्ञानकर्तृत्वानुपपत्तिः / उक्ते हेतुमाह- नान्येति, बुद्धर्नानात्वे हि अन्यया बुद्धया ज्ञातस्याऽन्यया बुद्धया प्रत्यभिज्ञानं न संभवतीति प्रत्यभिज्ञानसिद्धयर्थ बुद्धनित्यत्वं स्वीकार्यमित्यर्थः // 2 // ___ बुद्धिनित्यत्वं निराकरोति- साध्येति, बुद्धनित्यत्वसाधनाय प्रत्यभिज्ञानकर्तृत्वं हेतुरुक्तः स च बुद्धौ न सिद्धः- परैरात्मन एव प्रत्यभिज्ञानकर्तृत्वस्वीकारादित्य सिद्धत्वात् साध्यसमः= साध्यवत्साध्य एवेति साध्यसमत्वादहेतुः= साध्यासाधकः- पक्षे सिद्धस्यैव हेतुत्वसंभवादिति नाऽसिद्धेन प्रत्यभिज्ञानकर्तृत्वेन बुद्धनित्यत्वमुपपद्यते इतिसूत्रार्थः / साध्यसमत्वं व्याचष्टे- यथेति, प्रत्यभिज्ञानम्= प्रत्यभिज्ञाकर्तृत्वम् / प्रत्यभिज्ञानस्य साध्यसमत्वे कारणं जिज्ञासते- किमिति / उत्तरमाह- चेतनेति, प्रत्यभिज्ञानकर्तृत्वं हि चेतनस्य कर्तुरेव धर्मो न तु तत्करणभूताया बुद्धेरिति बुद्धेः प्रत्यभिज्ञाकर्तृत्वं