________________ अथ / न्यायभाष्यतृतीयाध्यायस्य द्वितीयमाह्निकम् // परीक्षितानीन्द्रियाणि अर्थाश्च, बुद्धेरिदानी परीक्षाक्रमः- सा किमनित्या नित्या वा ? इति / कुतः संशयः ? कर्माकाशसाधात् संशयः // 1 // अस्पर्शवत्वं ताभ्यां समानो धर्म उपलभ्यते बुद्धौ. विशेषश्चोपजनाऽपायधर्मवत्त्वम् , विपर्ययश्च यथास्वमऽनित्यनित्ययोस्तस्यां बुद्धौ नोपलभ्यते तेन संशय इति // अनुपपन्नः खवयं संशयः- सर्वशरीरिणां हि प्रत्यात्मवेदनीयानित्या बुद्धिः सुखादिवत्. भवति च संवित्तिः- 'ज्ञास्यामि' 'जानामि ' ' अज्ञासिषम्' इति, न चोपजनापायावन्तरेण त्रैकाल्यव्यक्तिस्ततश्च त्रैकाल्यव्यक्तेः 'अनित्या बुद्धिः' इत्येतत् सिद्धम् , प्रमाणसिद्धं चेदं शास्त्रेप्युक्तम्" इन्द्रियार्थसंनिकर्पोत्पन्नम् 1-1-4" " युगपत् ज्ञानानुत्पत्तिर्मनसो लिङ्गम् 1-1-16" प्रमेयेष्वात्मशरीरेन्द्रियार्थान निरूप्य बुद्धयादीनां निरूपणाथै द्वितीयमाह्निकमारभते- परीक्षितानीति, अर्थाः- इन्द्रियाणां विषयाश्च परीक्षिताः / सांप्रतं कर्तव्यमाह- बुद्धेरिति / सा= बुद्धिरनित्या वा नित्या वेति संशयः / संशयहेतुं जिज्ञासते-कुत इति / सूत्रेण संशयहेतुमाह-कर्मेति, कर्मणः= क्रियाया अनित्यायाः साधात् नित्यस्याकाशस्य च साधाद् बुद्धौ नित्यत्वानित्यत्वसंशय इत्यन्वयः, साधये च स्पर्शरहितत्वं तच्च कर्मणि आकाशे बुद्धौ च वर्तते तथा च किम् 'बुद्धिरनित्या स्पर्शरहि. तत्वात् कर्मवत् ' किं वा 'बुद्धिर्नित्या स्पर्शरहितत्वादाकाशवत् / इत्येवं कर्माकाशयोः साधाद् बुद्धौ नित्यत्वानित्यत्वयोः संशय इतिसूत्रार्थः / व्याचष्टे- अस्पर्शवत्वमिति, ताभ्याम्= कर्माकाशाभ्याम् अस्पर्शवत्वं साधये बुद्धौ उपलभ्यते तेन संशय इत्यन्वयः / समानधर्ममुक्त्वा विशेषधर्ममाह- विशेष इति, उपजनः= उत्पत्तिः, अपाय:- विनाशः, बुद्धावुत्पत्तिविनाशवत्वमप्युपलभ्यते तेन चानित्यत्वं सिध्यतीत्यर्थः / बुद्धौ व्यतिरेकानुपलब्धिमाह- विपर्यय इति, अनित्यनित्ययोः यथास्वम्= प्रत्येकं यो विपर्ययो यथा- अनित्येषु घटादिषु अस्पर्शवत्त्वस्य विपर्ययः= स्पर्शवत्त्वमस्ति तद् बुद्धौ नोपलभ्यते तेनाऽनित्यत्वाभावः प्राप्नोति, नित्येष्वात्मादिषु उपजनापायधर्मस्य विपर्ययः= अभावोस्ति सोपि बुद्धौ नोपलभ्यते तेन नित्यत्वाभावः प्राप्नोति. तथा चाऽस्पर्शवत्त्वेनोपजनापायधर्मवत्त्वेन च बुद्धौ नित्यत्वानित्यत्वयोः संशयो जायते इत्यर्थः / एतादृशसंशयस्यानुपपत्तिमाह- अनुपपन्न इति, उपजनापायधर्मवत्त्वे. नानित्यत्वं सिध्यति. अस्पर्शवत्त्वं च न नित्यत्वव्याप्यम्- अनित्ये कर्मण्यपि सत्त्वात् उपजनापायधर्मवत्त्वं च नानित्यत्वव्यभिचारीत्याशयः / उक्ते हेतुमाह- सर्वेति 'बुद्धिरनित्या सुखादिवत्' इति प्रत्यात्मवेदनीया= सर्वप्रसिद्धमस्तीत्यर्थः / बुद्धेरनित्यत्वज्ञानमुदाहरति- भवतीति, संवित्तिः= प्रतीतिः, 'ज्ञास्यामि' इत्यनेन बुद्धेः प्रागभाव उच्यते, 'जानामि ' इत्यनेन स्थितिः, 'अज्ञासिषम् ' इत्यनेन विनाश उक्त:- बुद्धर्भूतकालिकत्वबोधनात् , स्वाभिप्रायमाह- न चेति, उपजनापायौ= उत्पत्तिविनाशौ विना त्रैकाल्यव्यक्तिः= 'आसीदस्ति भविष्यति' इत्येवं त्रैमालिकप्रयोगो न भवति- नित्येष्वेवं प्रयोगासंभवात् , ततश्च त्रैकाल्यव्यक्तितो बुद्धेरनित्यत्वं सिद्धमित्यन्वयः / इदम्= बुद्धरनित्यत्वं प्रमाणसिद्धम्= उत्पत्तिविनाशाभ्यां प्रत्यक्षसिद्धमेवास्मिन् शास्त्रे " इन्द्रियार्थ" इत्यादिसूत्रैरुक्तं न त्वप्रामाणिकम् , इन्द्रियार्थसंनिकर्षेणोत्पन्नस्य ज्ञानस्य= बुद्धेरनित्यत्वं स्पष्टमेव, ज्ञानानुत्पत्तिशब्देनाप्यनित्यत्वं प्राप्तम्