________________ 279 अर्थविवेचनम् ] न्यायभाष्यम्। न शब्देन गुणेन सगुणमाकाशमिन्द्रियं भवति. न शब्दः शब्दस्य व्यञ्जकः / न च घाणादीनां स्वगुणग्रहणं प्रत्यक्षं नाप्यनुमीयते, अनुमीयते तु श्रोत्रेणाकाशेन शब्दस्य ग्रहणं शब्दगुणत्वं चाकाशस्येति, परिशेपश्चानुमानं वेदितव्यम्- आत्मा तावत् श्रोता न करणम् , मनसः श्रोत्रत्वे बधिरत्वाभावः, पृथिव्यादीनां घ्राणादिभावे सामर्थ्य श्रोत्रभावे चाऽसामर्थ्यम् , अस्ति चेदं श्रोत्रम् आकाशं च शिष्यते परिशेषादाकाशं श्रोत्रमिति // 73 // // इति वात्स्यायनविरचिते न्यायभाष्ये तृतीयाध्यायस्य प्रथममाह्निकम् // एव, आकाशस्य तु न शब्दविशिष्टत्वनियम:- आकाशस्याऽनादित्वेनाऽनित्यशब्दापेक्षया पूर्वभावित्वादिति शब्दगुणरहितमेवाकाशं श्रोत्रं भवति तथा च श्रोत्रेणापि न श्रोत्रान्तर्भूतः शब्दो गृह्यते इति नेन्द्रियाणां स्वगुणाऽग्राहकत्वे व्यभिचार: संभवति- वाणादीनामपि स्वान्तर्भूतगन्धादिग्राहकत्वस्यैव प्रतिषिद्धत्वादिति सूत्रार्थः / व्याचष्टे- नेति, गुणेन सगुणम्= गुणेन सहितम् , शब्दरहितस्याकाशस्य श्रोत्रत्वं च सूत्रव्याख्याने प्रतिपादितमेव / उक्ते उपपत्तिमाह- नेति, शब्दस्य शब्दव्यञ्जकत्वे व्यङ्ग्यत्वमपि स्यादेव तच्च द्वितीयाध्यायद्वितीयाह्निके शब्दनिरूपणावसरे प्रतिषिद्धमिति न शब्दस्य शब्दव्यञ्ज. कत्वं संभवति तथा च न शब्दसहितस्याकाशस्य श्रोत्रत्वमुपपद्यते इति न शब्दस्य श्रोत्रस्वरूपान्तर्भावः, शब्दस्य श्रोत्रस्वरूपान्तभावे तु व्यङ्गयव्याकभावः स्यादेव-- शब्दस्य शब्दविशिष्टश्रोत्रव्यङ्गयत्वेनावश्यं शब्दव्यङ्गयत्वप्रसङ्गात् तत्र च पूर्वत्र दोषाः प्रदर्शिता एव, गन्धादीनां तु व्यङ्ग्यव्यञ्जकभावो न निराकृत इति गन्धादीनामभिव्यक्त्यर्थ गन्धादीनां ब्राणादिस्वरूपान्तर्भावः स्वीक्रियते तथा च श्रोत्रेणापि न स्वरूपान्तर्भूतस्य शब्दस्य ग्रहणं भवतीति नोक्तव्यभिचारः संभवती. त्यर्थः / वाणादिभिः स्वगुणभूतगन्धादीनां ग्रहणे प्रमाणाभावमाह- न चेति / श्रोत्रेण शब्दग्रहणे प्रमाणमाह- अनुमीयते इति, आकाशभूतेन श्रोत्रेण शब्दस्य ग्रहणम् आकाशस्य शब्दगुणवत्त्वं चानुमीयते इत्यन्वयस्तत्र शब्दग्रहणं तु प्रत्यक्षमेव श्रोत्रस्याकाशत्वमेवानुमेयं विज्ञेयम् / आकाशस्य श्रोत्रत्वे परिशेषानुमानमाह- परिशेषश्चेति, पूर्वोक्तं शेषवदेव परिशेषः स चानुमानलक्षणे व्याख्यातः / आत्मेतिकर्तृकरणयोर्भेदः स्पष्ट एव तत्र श्रोत्रं करणमेवेति श्रवणकर्ताऽऽत्मा न श्रोत्रं संभवति, नापि मनः श्रोत्रं संभवति- मनसः श्रोत्रत्वे बधिरत्वाभावः प्रसज्येत- मनसो नित्यत्वेन विनाशासंभवात्, पृथिव्यादीनामपि श्रोत्रत्वं न संभवति- ब्राणत्वादिभिर्विनियुक्तत्वात् तत्र गन्धग्राहकत्वाद् गन्धप्रधानपृथिव्या एव घ्राणत्वम् एवं रसादिप्रधानजलादीनामेव रसादिग्राहकरसनादिभावनियम इति पृथिव्यादीनां ब्राणादिभावे सामर्थ्यमस्ति श्रोत्रभावे च सामर्थ्य नास्ति- श्रोत्रस्य शब्दग्राहकत्वात् पृथिव्यादीनां चतुर्णा च शब्दगुणवत्त्वाभावादिति शब्दगुणकस्यैवाकाशस्य शब्दग्राहकत्वसंभवेन श्रोत्रत्वं संभवति नान्यस्येत्यर्थः / परिशेषानुमानमुपसंहरति- अस्तीति, इन्द्रियाणां भौतिकत्वमुपपादितमेव तत्र वाणादीनां पृथिव्यादिभिः सिद्धिर्जातेति इन्द्रियेषु शब्दग्राहकं श्रोत्रमवशिष्यते भूतेषु च शब्दगुणकमाकाशमवशिष्यते इति परिशेषादाकाशं श्रोत्रमिति सिद्धम् / आकाशस्य च न शब्दविशिष्टस्य श्रोत्रत्वं येन प्रदर्शितव्यभिचारः प्रसज्येत, तथा चेन्द्रियैर्न स्वगुणा गृह्यन्ते किं तु पृथिव्यादीनामेव गन्धादयो गुणा गृह्यन्ते इति सिद्धं तत्र पृथिव्यादिवृत्तिगन्धादिमात्रग्रहणे गन्धादीनां प्रकर्ष एव हेतुः संभवति न तु पूर्वपक्ष्युक्तो घ्राणादीनां गन्धादिमात्रवत्त्वमित्युपसंहारस्तथा च ब्राणादीनां पृथिव्यादीनां च या कार्यकारणभावव्यवस्थोक्ता सा न व्याहन्यते इत्यलम् / / 73 // // इत्यर्थविवेचनं समाप्तम् / / // इति न्यायभाष्यप्रसन्नपदायां तृतीयाध्यायस्य प्रथममाह्निकम् समाप्तम् / /