________________ 278 प्रसन्नपदापरिभूषितम्- [3 अध्याये. १आह्निकेयदि पुनर्गन्धः सहकारी च स्याद् घाणस्य ? ग्राह्यश्च ( स्यादेव ? ) इत्यत आह तेनैव तस्याऽग्रहणाच // 71 // न गुणोपलब्धिरिन्द्रियाणाम् / यो ब्रूते- यथा बाह्यं द्रव्यं चक्षुषा गृह्यते तथा तेनैव चक्षुषा तदेव चक्षुर्गृह्यतामिति तादृगिदम्- तुल्यो ह्युभयत्र प्रतिपत्तिहेत्वभाव इति // 71 // न-शब्दगुणोपलब्धेः // 72 // 'स्वगुणान् नोपलभन्ते इन्द्रियाणि' इत्येतन्न भवति- उपलभ्यते हि स्वगुणः शब्दः श्रोत्रेणेति // 72 // तदुपलब्धिरितरेतरद्रव्यगुणवैधात् // 73 // एवमिति, एवमेव शेषाणाम्= रसनचक्षुस्स्पर्शनानामपीन्द्रियाणां स्वनिष्ठरसाद्यग्राहकत्वं विज्ञेयम् / तथा च घ्राणादिकं पृथिव्यादीनामेव गन्धादिकं गृह्णातीति सिद्धं तत्र पृथिव्यादीनामनेकगुणेषु गन्धादिकमेव गृह्णातीत्यत्र गन्धादीनामुत्कर्ष एव हेतुर्न तु ब्राणादीनां गन्धादिमात्रविशिष्टत्वमिति भावः / अन्यत् पूर्वमुक्तमेव // 7 // ननु यथा चैत्रसहकारी चैत्रग्राह्यो भवति तथा यदि स्वगन्धादिर्घाणादिसहकारी स्यात्तदा घ्राणादिग्राह्योपि स्यादेव तथा च घ्राणादेः स्वनिष्ठगन्धादिमात्रग्राहकत्वेनैव रसाद्यग्राहकत्वं प्राप्तमिति मदुक्तमेव युक्तमित्याशङ्कते- यदीति / अस्य सूत्रेणोत्तरमाह- तेनैवेति, तेनैव तस्य ग्रहणं न भवतीति प्रसिद्धमेव यथा घटेन तद्बटस्य. तद्धस्तेन तद्धस्तस्य ग्रहणं न भवति, इन्द्रियाणां स्वगन्धादिविशिष्टानामेवेन्द्रियत्वमुक्तमेव तत्र घ्राणादिभिः स्वगन्धादिग्रहणे स्वेनैव स्वग्रहणं प्रसज्येत न चैतदुपपद्यते इति सहकारिभूतस्यापि स्वगन्धादेर्घाणादिभिर्ग्राह्यत्वं न संभवतीति सूत्रार्थः / व्याचक्षाणः सूत्रशेषमाह- नेति, गुणो. पलब्धिः= स्वगुणोपलब्धिः, इन्द्रियाणामिति कर्तरि षष्ठी= इन्द्रियैरित्यर्थः / बाधकदृष्टान्तमाह- य इति, इदम्= इन्द्रियैः स्वगुणग्रहणम् तादृक्= उक्तदृष्टान्तसदृशमेव तथा च यथा तेनैव चक्षुषा तच्चक्षुर्ग्रहणमनुपपन्नं तथैवेन्द्रियैरपि स्वगुणग्रहणमनुपपन्नम्- अभेदात्= तेनैव तस्य ग्रहणासंभवात् , इन्द्रियगुणानां चेन्द्रियेष्वन्तर्भावस्योक्तत्वादित्यर्थः / चैत्रसहकारिणस्तु चैत्रेण ग्रहणं संभवति- परस्परं भेदात् / उक्ते साम्ये हेतुमाह- तुल्य इति, यथा तेन चक्षुषा तच्चक्षुर्ग्रहणस्य साधको हेतुर्नास्ति तथैवेन्द्रियैः स्वगुणग्रहणस्यापि साधको हेतुर्नास्तीत्यर्थः / तथा च ब्राणादिभिः पृथिव्यादिगन्धस्यैव ग्रहणं सिद्धं तत्र गन्धादिमात्रग्रहणे गन्धादीनां प्रकर्ष एव मदुक्तो हेतुः सिद्धो न त्वदुक्त इत्याशयः // 71 // उक्तं पूर्वपक्षी व्यभिचारप्रदर्शनेन निराकरोति-नेति, इन्द्रियैः स्वगुणो न गृह्यते इति नोपपद्यतेश्रोत्रेण स्वगुणस्य शब्दस्य ग्रहणात्, श्रोत्रस्याकाशत्वं शब्दस्य चाकाशगुणत्वं प्रसिद्धमेव, तथा च श्रोत्रवद् ब्राणादीनामपि स्वगुणग्राहकत्वं प्राप्तम् , श्रोत्रं ह्याकाशमेवाकाशं च व्यापकमिति शब्दमात्रस्याकाशलक्षणश्रोत्रगुणत्वं प्राप्तमिति न श्रोत्रस्य स्वगुणीभूतशब्दातिरिक्तशब्दग्राहकत्वमुपपद्यते इति स्वगुणग्राहकत्वं स्वीकार्यमेवेति सूत्रार्थः / ब्याचष्टे- स्वगुणानिति, अयं सिद्धान्तानुवादः / परिहरति- इत्येतदिति / उक्तसिद्धान्ते व्यभिचारं प्रदर्शयति- उपलभ्यते इति / तथा च श्रोत्रवद् प्राणादीनां स्वगुणग्राहकत्वे प्राप्ते गन्धादिमात्रग्रहणे मदुक्त एव हेतुर्युक्त:- ब्राणादीनां गन्धादिमात्रवत्त्वमितीत्यर्थः // 72 // श्रोत्रेण स्वगुणस्यापि शब्दस्योपलब्धि सिद्धान्ती समाधत्ते- तदिति, श्रोत्रेण तदुपलब्धिः= स्वगुणस्य शब्दस्य योपलब्धिः सा शब्दस्य इतरेतरद्रव्यगुणेभ्यः= गन्धादिभ्यो वैधात्= वैलक्षण्यादेव भवति वैलक्षण्यं च श्रोत्रानन्तर्भाव:- शब्दगुणविशिष्टस्याकाशस्य श्रोत्रत्वानङ्गीकारात्, पृथिव्यादिभूतानि हि गन्धादिरहितानि नैव सन्तीति गन्धादिविशिष्टपृथिव्यादिभ्यो जायमानानि ब्राणादीनि गन्धादिविशिष्टान्येवेन्द्रियाणि भवन्ति तत्र ब्राणादिभिः स्वनिष्ठगन्धादिग्रहणे पूर्व दोषाः प्रदर्शिता