________________ अर्थविवेचनम ] न्यायभाष्यम् / 277 पुरुषसंस्कारवशाद् विषौषधिमणिप्रभृतीनि द्रव्याणि निय॑न्ते न सर्व सर्वार्थम् एवं पृथविषयग्रहणसमर्थानि ब्राणादीनि नियन्ते न सर्वविषयग्रहणसमर्थानीति // 69 // स्वगुणान् नोपलभन्ते इन्द्रियाणि, कस्मादितिचेत् ?-- सगुणानामिन्द्रियभावात् // 70 // स्वान् गन्धादीन नोपलभन्ते घ्राणादीनि / केन कारणेनेतिचेत् ?, स्वगुणैः सह घ्राणादीनामिन्द्रियभावात्- घ्राणं स्वेन गन्धेन समानार्थकारिणा सह बाह्यं गन्धं गृह्णाति तस्य स्वगन्धग्रहणं सहकारिवैकल्यान्न भवति. एवं शेषाणामपि // 70 // र्थस्य गन्धादेः पुरुषसंस्कारकारितः-- जीवादृष्टकृतो यो ब्राणादौ संसर्गः= संबन्धः किं वा प्रकर्षः स एव भूयस्त्वमत्र विज्ञेयं तथा च तादृशभूयस्त्वात्= संबन्धादेव वा प्रकर्षादेव वा घ्राणादीनां पृथिव्यादिभिसह कार्यकारणभावो विज्ञेयः, अस्ति च घ्राणे गन्धप्रकर्षः- गन्धमात्रग्राहकत्वात् अस्ति च पृथिव्यामपि गन्धप्रकर्षः- गन्धप्राधान्यादिति घ्राणपृथिव्योर्गन्धभूयस्त्वादेव कार्यकारणभावः सिद्धः, एवं रसनादीनां जलादिभिरुक्तरीत्यैव रसादिभूयस्त्वादेव कार्यकारणभवः सिद्ध इति न कार्यकारणभावस्याऽव्यवस्था न वा सर्वेषामिन्द्रियाणां सर्वभूतकार्यत्वापत्ति प्येकभूतकार्यत्वापत्तिर्वाऽऽपद्यते इत्यर्थः / घ्राणादिजन्यप्रत्यक्षकाले घ्राणादिभिर्गन्धादीनां भुज्यमानत्वं रसादीनां चाभुज्यमानत्वमदृष्टकृतं स्पष्टमेव / अत्र प्रकर्षार्थे संसर्गशब्दप्रयोगस्तु भाष्यकारस्य नैसर्गिकप्रमादकृत एवेत्यलम् / प्रकर्षभूयस्त्वयोरैक्यमुदाहरति- दृष्ट इति, 'यथा प्रकृष्टो विषयः' इत्येवमन्वयः / प्रकर्षे= प्रकर्षबोधनार्थम्. भूयस्त्वशब्दः= भूयस्त्वबोधको भयाशब्दः प्रयुज्यमानो दृष्टः-- भूयान् गन्ध इति= प्रकष्टो गन्ध इत्यर्थ इत्यन्वयः / स्ववक्तव्ये दृष्टान्त माह- यथेति, यथा जीवादृष्टवशात् विषादिद्रव्याणि पृथगर्थक्रियासमर्थानि निर्वय॑न्ते= जायन्ते न सर्व सर्वार्थम्= सर्वक्रियासमर्थ जायते अर्थक्रिया च यथा विषयस्य मारणम् . तथा घ्राणादीनीन्द्रियाण्यपि जीवादृष्टवशात् पृथविषयग्रहणसमर्थान्येव जायन्ते, न तु सर्वविषयग्रहणसमर्थानीति तेन ब्राणादिभिर्गन्यादिमात्रस्यैव ग्रहणं भवति न रसादेस्तेन ब्राणादौ गन्धादीनां भूयस्त्वमनुमीयते गन्धादीनां भूयस्त्वेन च वाणादेर्गन्धादिभूयस्त्वविशिष्टपृथिव्यादिकार्यत्वमनुमीयते इति न सर्वेषामिन्द्रियाणामेकभूतकार्यत्वमित्यर्थः / यदि च सर्वाणीन्द्रियाणि सर्वेषां गन्धादीनां ग्राहकाणि स्युस्तदोक्ता कार्यकारणभावव्यवस्था न स्यादपि न चैवमस्तीति कार्यकारणव्यवस्थोक्ता सिद्धेति शङ्कासमाधानं विज्ञेयम् // 69 // . यदि वाणादीनां स्वनिष्ठगन्धादिग्राहकत्वं स्यात्तदा गन्धाद्येकैकगुणवत्त्वेन गन्धाद्येकैकगुणग्राहकत्वं पूर्वपक्षोक्तमुपपद्येतापि न चैवमस्ति किं तु घ्राणादिकं पृथिव्यादिविषयनिष्ठमेव गन्धादिकं गृह्णाति न स्वनिष्ठमपीत्याह- स्वगुणानिति, स्वगुणान् स्वनिष्ठान् गन्धादीन् , इन्द्रियाणि= घ्राणादीनि / अत्र हेतुं जिज्ञासते- कस्मादिति / सूत्रेणोत्तरमाह- सगुणानामिति, सगुणानाम्= गन्धादिविशिष्टानामेव घाणादीनामिन्द्रियभावात्= इन्द्रियत्वं स्वीक्रियते इति वाणादीनां स्वनिष्ठगन्धादिग्राहकत्वं नोपपद्यतेस्वात्मनि वृत्तिविरोधात् , स्वनिष्ठगन्धादिग्राहकत्वेऽशतः स्वग्राहकत्वमेव स्यात्- गन्धादिविशिष्टस्यैव घाणादेरिन्द्रियत्वात् न चेन्द्रियाणामिन्द्रियग्राह्यत्वमुपपद्यते- अप्रत्यक्षत्वादिति सूत्रार्थः / व्याचष्टेस्वानिति, स्वनिष्ठानित्यर्थः / उक्त हेतुं जिज्ञासते- केनेति / हेतुमाह- स्वगुणैरिति, सूत्रोक्त एव हेतु स च व्याख्यातः / इन्द्रियाणामुक्तं स्वगुणाऽग्राहकत्वमुपपादयति-प्राणमिति, स्वेन= स्वसमवेतेन, समानार्थकारिणा= सहकारिणा, सहकारिणश्च समानार्थकारित्वम्= एकार्थक्रियाकारित्वं स्पष्टमेव तथा च प्राणादेर्बाह्यगन्धादिग्रहणे स्वगन्धादिकं सहकारि भवति. तस्य= प्राणादेः स्वगन्धादिग्रहणे गन्धाद्यन्तरं सहकारि नास्तीति सहकारिवैकल्यादेव स्वगन्धादिग्रहणं न संभवति, सहकारिणं च विना कार्य न संभवति, न च बाझं गन्धादिकं सहकारि संभवति- तस्य ग्राह्यत्वादित्यर्थः / उक्तं सर्वत्रातिदिशति