________________ 276 प्रसन्नपदापरिभूषितम्- [3 अध्याये. ५आह्निकेग्राहकत्वं गन्धरसरूपोत्कर्षात्तु यथाक्रमं गन्धरसरूपग्राहकत्वं तस्माद् घ्राणादिभिर्न सर्वेषां गुणानामुपलब्धिरिति / यस्तु प्रतिजानीते- गन्धगुणत्वाद् घ्राणं गन्धस्य ग्राहकम् एवं रसनादिष्वपीति, तस्य यथागुणयोगं घ्राणादिभिर्गुणग्रहणं प्रसज्यते इति // 68 // किंकृतं पुनर्व्यवस्थानं किंचित् पार्थिवमिन्द्रियं न सर्वाणि ?. कानिचित् आप्यतैजसवायव्यानि इन्द्रियाणि न सर्वाणि ? इति तयवस्थानं तु भूयस्त्वात् // 69 // __ अर्थनिर्वृत्तिसमर्थस्य प्रविभक्तस्य द्रव्यस्य संसर्गः पुरुषसंस्कारकारितो भूयस्त्वम् , दृष्टो हि प्रकर्षे भूयस्त्वशब्दः- प्रकृष्टो यथा विषयः 'भूयान्' इत्युच्यते, यथा पृथगर्थक्रियासमर्थानि रसमात्रस्य ग्राहकं न रूपादेः, यथा च बाह्यं तैजसं द्रव्यं दीपादि द्विगुणमपि घटादिरूपस्यैवाभिव्यञ्जकं तथा चक्षुस्तैजसत्वात् रूपस्पर्शाभ्यां द्विगुणमपि स्वस्मिन् तेजसि च रूपमात्रस्योत्कर्षाद् रूपमात्रस्य ग्राहक न स्पर्शस्येति न घ्राणादिभी रसादीनां सर्वेषां गुणानां पृथिव्यादिवृत्तीनामुपलब्ध्यापत्तिरित्येवं घ्राणादिभिर्गन्धादिमात्रोपलब्धिव्यवस्थोपपद्यते इत्यन्वयः / “रसनमिन्द्रियमा यम्- गन्धादिषु मध्ये नियमेन रसस्य व्यञ्जकत्वात् दन्तान्तरस्यन्दमानोदकबिन्दुवत्. न खलु विशुष्यदास्यो मोदकादिरसमनुभवति " इति वाचस्पतिमिश्राः / निराकर्तु पूर्वपक्षिमतमनुवदति- यस्त्विति, घ्राणे गन्ध एवैको गुणोस्तीति घाणं गन्धमात्रस्य ग्राहकं न तु गन्धस्योत्कर्षात्. एवं रसने रस एवैक: चक्षुषि च रूपमेवैकमस्तीति रसनं रसमात्रग्राहक चक्षुश्च रूपमात्रग्राहकं न तु रसरूपयोरुत्कर्षादित्यर्थः, अत्र “गन्धमात्रगुणत्वादेव वाणं गन्धस्य व्यञ्जकं न तु गन्धस्योत्कर्षादित्यर्थः” इतितात्पर्यटीका। उक्तं निराकरोति- तस्येति, उक्त पूर्वपक्षिमते यथागुणयोगम् पृथिव्यां गन्धरसरूपस्पर्शाः सन्तीति घ्राणेन तेषां चतुर्णामपि ग्रहणं स्यात् गन्धवद् रसादीनामपि पृथिवीवृत्तित्वात्. न हि घ्राणेन स्ववृत्तिर्गन्धो ग्राह्योस्ति येन ब्राणे गन्धमात्रसत्त्वात् गन्धमात्रग्रहणनियम उपपद्येत, एवं रसनेन जलवृत्तिरूपस्पर्शयोरपि ग्रहणमापद्येत- रसवत् जलवृत्तित्वाविशेषात् , एवं चक्षुषा तेजोवृत्तिस्पर्शस्यापि ग्रहणमापद्येत- रूपवत् तेजोवृत्तित्वाविशेषात् , न हि रसनादिभिरपि स्ववृत्तिरसादिकं ग्राह्यमस्ति येन रसादिमात्रवत्त्वेन रसादिमात्रग्रहणनियम उपपद्येतेत्यर्थः / किं च घ्राणादीनां पृथिव्यादिकार्यत्वात् पृथिव्यादौ च रसादीनां प्रत्यक्षत्वाद् घ्राणादावपि रसादीनां सत्त्वं प्राप्तमिति स्ववृत्तिगुणग्राहकत्वेपि ब्राणादिभी रसादीनां ग्रहणमापद्यते, तथा स्ववृत्तिगन्धादिग्राहकत्वे सर्वदेव गन्धादिग्रहणं गन्धादेरभिव्यक्तिश्वापद्यतेति पूर्वपक्षिमते दोषः / मदुक्तरीत्या तूत्कर्षस्य ग्रहणकारणत्वे पृथिव्यादिषु घ्राणादिषु च गन्धादीनामेवोत्कर्षाद् रसादीनां चोत्कर्षाभावाद् घ्राणादिभिर्गन्धादिमात्रग्रहणनियम उपपद्यते इति // 68 // सर्वाणीन्द्रियाण्येकभूतोत्पन्नानि किं न स्वीक्रियन्ते इत्याशङ्कते- किंकृतमिति, किंचित् घ्राणं पार्थिवं कानिचित्= रसनमाप्यं चक्षुस्तैजसं स्पर्शनं वायव्यमितिव्यवस्थानियामकं किमित्यर्थः / सर्वाण्येवेन्द्रियाणि पार्थिवानि वा आप्यानि वा तैजसानि वा वायव्यानि वा किं न स्युरित्याक्षेपः / सूत्रेणोत्तरमाह- तदिति, घ्राणं पार्थिवमित्यादिव्यवस्था भूयस्त्वात्घ्राणादौ गन्धादीनां भूयस्त्वादुपपद्यते भूयस्त्वं चात्र प्रधानत्वम् , तथा हि पृथिव्यां गन्धस्य भूयस्त्वं स्पष्टमेव घ्राणेन च गन्धमात्रं गृह्यते तेन नाणेपि गन्धभूयस्त्वमनुमीयते इतिगन्धभूयस्त्वविशिष्टस्य ब्राणस्य गन्धभूयस्त्वविशिष्टपृथिवीकार्यत्वं विज्ञायते एवं जलरसनयोः रसभूयस्त्वात् कारणकार्यभावः तेजश्चक्षुषोश्च रूपभूयस्त्वात् वायुस्पर्शनयोश्व स्पर्शभूयस्त्वात कारणकार्यभावो विज्ञायते इति घ्राणं पार्थिवं रसनमाप्यं चक्षुस्तैजसं स्पर्शनं वायव्यमिति व्यवस्थोपपद्यते इतिसूत्रार्थः / व्याचष्टे- अर्थेति, अत्र- " अर्थः= पुरुषार्थः, प्रविभक्तस्येति- इतरेभ्यो विशिष्टस्य संस्कारकारित इति- अदृष्टकारितः” इतितात्पर्यटीका। अर्थनिर्वृत्तिसमर्थस्य= सुखादिभोगसंपत्ति समर्थस्य प्रविभक्तस्य= इतरेभ्यः= अभुज्यमानेभ्यो विशिष्टस्य वैशिष्टयं चात्र भुज्यमानत्वं द्रव्यस्य= पदा.