________________ अर्थविवेचनम् ] न्यायभाष्यम। संयोगः स च द्वयोः समानः, वायुना च विष्टत्वात् स्पर्शवत् तेजः न तु तेजसा विष्टत्वाद् रूपवान् वायुरिति नियमकारणं नास्तीति / दृष्टं च तैजसेन स्पर्शेन वायव्यस्य स्पर्शस्याऽभिभवादग्रहणमिति न च तेनैव तस्याऽभिभव इति // 67 // तदेवं न्यायविरुद्धं प्रवादं प्रतिषिष्य " न सर्वगुणानुपलब्धेः 63" इति चोदित समाधीयते-- पूर्वपूर्वगुणोत्कर्षात् तत्तत्प्रधानम् // 68 // तस्मान्न सर्वगुणोपलब्धिर्घाणादीनाम्. पूर्व पूर्व गन्धादेर्गुणस्योत्कर्षात् तत्तत्प्रधानम् / का प्रधानता ?, विषयग्राहकत्वम् / को गुणोत्कर्षः ?, अभिव्यक्तौ समर्थत्वम् / यथा बाह्यानां पार्थिवाप्यतैजसानां द्रव्याणां चतुर्गुणत्रिगुणद्विगुणानां न सर्वगुणव्यञ्जकत्वं गन्धरसरूपोत्कर्षात्तु यथाक्रमं गन्धरसरूपव्यञ्जकत्वम् एवं प्राणरसनचक्षुषां चतुर्गुणत्रिगुणद्विगुणानां न सर्वगुण. अपरम्= पृथिव्यादिभूतं परेण= जलादिभूतेन विष्टम्= संयुक्तं संप्रत्यपि प्रत्यक्षेण दृश्यते, उदाहरतिवायुनेति, पृथिव्यादेर्जलादिना संयोगस्तु अत्यन्तप्रसिद्ध एवेत्यन्वयः / विष्टत्वपदार्थमाह-विष्टत्वमिति, सः संयोगः, द्वयोः= द्वयोः संयुक्तयोर्भूतयोः समान:- संयोगस्योभयवृत्तित्वात् तथा च यथा वायुसंयोगेन तेजसि स्पर्शः प्राप्नोति तथा तेजस्संयोगेन वायौ रूपं प्राप्नुयादेव न चैवमस्ति तत्र वायुना विष्टत्वात्= संयुक्तत्वात् तेजः स्पर्शवद् भवति तेजसा विष्टत्वाद् वायू रूपवान् न भवतीति त्वदुक्तनियमे कारणं नास्तीति न स नियमः स्वीकर्तुं शक्यते इत्यर्थः / पूर्वपक्षे दोषान्तरमाह- दृष्टं चेति, तैजसेनोष्णेन स्पर्शेन वायुस्पर्शम्यानुष्णाशीतस्याभिभवो भवति तेनाग्रहणं भवति ग्रीष्मादौ तत्र वन्मते वायोरेव स्पर्शी गुणः स एव वायुसंसर्गात् तेजसि गृह्यते तस्य च तेनैवाभिभवो न संभवतीति वायुस्पर्शस्याभिभवो न स्यात् तथा च ग्रीष्मादावपि वायोग्नुष्णाशीतः स्पर्शो गृह्येत न च गृह्यते गृह्यते चोष्णः स्पर्शः तेन वायुस्पर्शस्य तेजस्स्पर्शनाभिभवः सिद्धः अभिभवश्चान्येनैवान्यस्य संभवतीति वायुस्पर्शातिरिक्त एव स्पर्शस्तेजसि स्वीकार्य इति न त्वदुक्तरीत्या भूतान्तरेषु भूतान्तरसंसर्गेण भूतान्तरगुणानां ग्रहणव्यवस्थोपपद्यते किं तु मदुक्तरीत्यैव गुणव्यवस्थोपपद्यते इत्यर्थः // 67 // ___ अग्रिमसूत्रमवतारयति-- तदेवमिति, एवम्= उक्तरीत्या, प्रवादम्= भूतेष्वेकैकगुणव्यवस्थावादम् , चोदितम्= पूर्वपक्षः / न सर्वगुणेतिपूर्वपक्षसूत्रस्योत्तरमाह- पूर्वेति, ब्राणादिकमिन्द्रियं गन्धरसरूपस्पर्शशब्दानां गुणानां मध्ये पूर्वपूर्वगुणस्य उत्कर्षात्= विशिष्टत्वात् किं वा वाणादिग्राह्यत्वात् तत्तत्प्रधाम्= गन्धादिमात्रग्राहकमिति न घाणादिभिः रसादिग्रहणापत्तिस्तथा च पृथिव्यां गन्धरसरूपस्पर्शानां सत्त्वेपि ब्राणं गन्धस्यैव ग्राहकं जले च रसरूपस्पर्शानां सत्त्वेपि रसनं रसस्यैव ग्राहकं तेजसि रूपस्पर्शयोः सत्त्वेपि चक्षु रूपस्यैव ग्राहकं त्वक् च स्पर्शस्यैवेति सूत्रार्थः / व्याचक्षाणः सूत्रशेषमाह- तस्मादिति, तस्मात्= पूर्वपूर्वगुणस्योत्कर्षात् , ब्राणादीनामिति कर्तरि षष्ठी घ्राणादिभिरित्यर्थः / सूत्रान्वयमाह- पूर्वमिति, पूर्वपूर्वस्येत्यर्थः। ब्राणादिकं तत्तत्प्रधानम्= गन्धादिग्राहकम्। प्रधानशब्दप्रतिपाद्यं जिज्ञासते-केति, उत्तरमाह-विषयेति, अत्र ग्राहकत्वमित्येव वक्तव्यमासीत् तथा च " तत्तत्प्रधानम्" इत्यस्य 'गन्धादिमात्रग्राहकम् ' इत्यर्थः सिद्धः / उत्कर्षशब्दप्रतिपाद्यं जिज्ञासते- क इति, उत्तरमाह- अभिव्यताविति, घ्राणादिभिद्यत्वमितियावत् / उक्ते दृष्टान्तमाह- यथेति, यथा बाह्यं पार्थिवं गोघृतं गन्धरसरूपस्पशैंः चतुर्गुणमपि कुङ्कुमगन्धस्यैवाभिव्यञ्जकं तथा प्राणं पार्थिवत्वात् चतुर्गुणमपि स्वस्मिन् पृथिव्यां च गन्धमात्रस्योत्कर्षात् गन्धमात्रस्य ग्राहकं न रसादेः, यथा च बाह्यमाप्यं द्रव्यं मुखजलं त्रिगुणमपि मोदकादिरसस्यैवाभिव्यञ्जकं तथा रसनं जलीयत्वात् त्रिगुणमपि स्वस्मिन् जले च रसमात्रस्योत्कर्षात्