________________ 274 प्रसन्नपदापरिभूषितम्- [3 अध्याये. १आहिकेअथ वा पार्थिवाप्ययोर्द्रव्ययोर्व्यवस्थितगुणयोः प्रत्यक्षत्वात्= चतुर्गुणं पार्थिवं द्रव्यं त्रिगुणमाप्यं प्रत्यक्षं तेन तत्कारणमनुमीयते- तथाभूतमिति. तस्य कार्य लिङ्गम्- कारणभावाद्धि कार्यभाव इति / एवं तैजसवायव्ययोर्द्रव्ययोः प्रत्यक्षत्वाद् गुणव्यवस्थायास्तत्कारणे द्रव्ये व्यवस्थानुमानमिति / दृष्टश्च विवेक:- पार्थिवाप्ययोः प्रत्यक्षत्वात्= पार्थिवं द्रव्यमऽवादिभिर्वियुक्तं प्रत्यक्षतो गृह्यते आप्यं च पराभ्यां तैजसं च वायुना, न चैकैकगुणं गृह्यते इति / निरनुमानं तु " विष्टं ह्यपरं परेण 66" इत्येतदिति= नात्र लिङ्गमनुमापकं गृह्यते इति येनैतदेवं प्रतिपद्येमहि / यच्चोक्तम्- 'विष्ट ह्यपरं परेणेति भूतसृष्टौ वेदितव्यं न सांप्रतम्' इति नियमकारणाभावादयुक्तम् , दृष्टं च सांप्रतम्- 'अपरं परेण विष्टम् ' इति= वायुना च विष्टं तेज इति / विष्टत्वम्पृथिवीतेजसोः स्पर्शवत्वं स्वीकार्यमित्यर्थः / उक्तमते दोषमाह- पार्थिव इति, एकगुणानाम्= एकैक. गुणवतां भूतानाम् , एतत्= एतादृशवैषम्यं नोपपद्यते यत् पृथिव्यामनुष्णाशीतस्तेजसि चोष्णः स्पर्श इति, पूर्वोक्तमते स्पों वायोरेव गुणः स चाप्यनुष्णाशीत एव तथा चानुष्णाशीतस्पर्शविशिष्टवायुसंसर्गेण जलादौ प्राप्नुवन् स्पर्शोऽनुष्णाशीत एव प्राप्नुयात् न तु जले शीतस्तेजसि चोष्णः पृथिव्यां चानुष्णाशीत इति वैषम्यमुपपद्यते इत्यर्थः / वर्णकान्तरमाह- अथ वेति, व्यवस्थितगुणत्वमाह- चतुर्गुणमिति, गन्धरसरूपस्पर्शविशिष्टम् , त्रिगुणम्= रसरूपस्पर्शविशिष्टम्. इत्येवं व्यवस्थितगुणयोरेव पार्थिवाप्यद्रव्ययोः प्रत्यक्षं भवतीति पृथिव्यामुक्तगुणचतुष्टयं जले चोक्तगुणत्रितयं स्वीकार्यमिति नैकैकमात्रगुणवत्त्वमुपपद्यते इत्यर्थः, तेन- प्रत्यक्षेणानुमीयते- तत्कारणम्= पार्थिवद्रव्यकारणं पृथिवीभूतं तथाभूतम्= गुणचतुष्टयविशिष्टम् आप्यद्रव्यकारणं च जलभूतं गुणत्रितयविशिष्टमिति / तस्य= उक्तानुमानस्य कार्यम्= पार्थिवाप्यद्रव्यं किं वा तद्गतगुणवृन्द लिङ्गम्= साधकम् , कार्यस्य लिङ्गत्वे हेतुमाह-कारणेति, कारणानुरूपमेव कार्य भव. तीति कारणीभूतभूतेषूक्तगुणवृन्दस्य सत्त्वे एव तत्कार्येष्वपि सत्त्वं संभवतीत्यर्थः, किं वा गुणानां कारणेषु पृथिव्यादिभूतेषु भावात्= सत्त्वादेव कार्ये द्रव्ये भावः= सत्त्वं संभवतीति भूतेषूक्तरीत्या गुणवृन्दं सिद्धमिति न संसर्गेण गुणवत्त्वमित्यर्थः / उक्तमते दोषान्तरमाह- एवमिति, गुणव्यवस्थाया इति पञ्चम्यन्तं पष्ठयन्तं वा, व्यवस्थितगुणयोस्तैजसवायव्यद्रव्ययोः प्रत्यक्षमस्ति तत्र तैजसद्रव्ये रूपस्पर्शयोः वायव्यद्रव्येच स्पर्शस्य प्रत्यक्षं भवतीति गुणव्यवस्थया तत्कारणीभूते द्रव्ये तेजसि रूपस्पर्शयोर्वायौ च स्पर्शस्य व्यव. स्थाया अनुमानं भवति-कार्यगुणानां कारणगुणपूर्वकत्वनियमादिति पृथिवीजलतेजसामनेकगुणत्वं सिद्ध. मिति एकैकगुणवत्त्वव्यवस्था प्रदर्शिता नोपपद्यते इत्यर्थः। किं वा 'गुणव्यवस्थायाः प्रत्यक्षत्वात्' इत्यन्वयः ___ संसर्गेणानेकगुणत्वं तदा सिध्येत् यदि संसर्गाभावेऽनेकगुणत्वं न गृह्यत न चैवमस्तीत्याहदृष्टश्चेति, विवेकः= भेदः= संसर्गाभावः, विवेकग्रहणमुदाहरति- पार्थिवेति, अबादिभिः= जलादिभिः, वियुक्तम्= असंसृष्टम् , आप्यम्= जलीयं द्रव्यं पराभ्याम्= तेजोवायुभ्यां वियुक्तं प्रत्यक्षतो गृह्यते, तैजसं च द्रव्यं दीपादि वायुना वियुक्तं प्रत्यक्षतो गृह्यते, वियुक्तत्वेन तादृशप्रत्यक्षकालेपि पार्थिवादिकं द्रव्यम् एकै. कगुणम्= गन्धाद्यकैकगुणमात्रयुक्तं न गृह्यते किं तु पार्थिवं गन्धादिचतुर्गुणम् आप्यं रसादित्रिगुणं तैजसं च रूपादिद्विगुणं गृह्यते तेन भूतानामनेकगुणवत्त्वं सिद्धं तेन भूतानामेकैकगुणवत्त्वव्यवस्था नोपपद्यते इत्यर्थः / यदुक्तम्- "विष्टं ह्यपरम्" इति तदपि निरनुमानम्= निर्हेतुकमेवेति न त्वदुक्ता गुणव्यवस्थोपपद्यते इत्याह-निरनुमानमिति, उक्तं ब्याचष्टे- नात्रेति, अत्र- "विष्टम्" इति सूत्रोक्तार्थे, एतत्= उक्तसूत्रोक्तम्. एवम् = तथैव= युक्तमेवेति प्रतिपद्येमहि= स्वीकुर्मः इत्यन्वयः / परिहर्तुमन्यदनुवदति- यच्चेति, तदाह- विष्टमिति / परिहरति- नियमेति, इदानीं भूतानां परस्पर संसगों द्रष्टुं न शक्यते इत्युक्तनियमे कारणाभावात्तदुक्तमयुक्तम् / भूतानां संसर्गस्य संप्रत्यपि दृश्यत्वमाह- दृष्टमिति, सांप्रतम् इदानीम् ,