________________ 273 अर्थविवेचनम् ] न्यायभाष्यम् / न्तररूपकृतं च पार्थिवाप्ययोः प्रत्यक्षत्वं ब्रुवतः प्रत्यक्षो वायुः प्रसज्यते. नियमे वा कारणमुच्यतामिति / रसयोर्वा पार्थिवाप्ययोः प्रत्यक्षत्वात् , पार्थिवो रसः षड्विधः आप्यो मधुर एव न चैतत् संसर्गाद भवितुमर्हति / रूपयोर्वा पार्थिवाप्ययोः प्रत्यक्षत्वात् , तैजसरूपानुगृहीतयोः संसर्गे हि व्यञ्जकमेव रूपं न व्यङ्गन्यमस्तीति / एकानेकविधत्वे च पार्थिवाप्ययोः प्रत्यक्षत्वाद् रूपयोः= पार्थिवं हरितलोहितपीताद्यनेकविधं रूपम् आप्यं तु शुक्लमप्रकाशकं न चैतदेकगुणानां संसर्गे सत्युपलभ्यते इति / उदाहरणमात्रं चैतत् / / अतः परं प्रपञ्चः- स्पर्शयोर्वा पार्थिवतैजसयोः प्रत्यक्षत्वात्. पार्थिवोऽनुष्णाशीतः स्पर्शः उष्णस्तैजसः प्रत्यक्षः. न चैतदेकगुणानामऽनुष्णाशीतस्पर्शेन वायुना संसर्गेणोपपद्यते इति / तैजसवदिति / उक्तमते बाधकमाह- भूतान्तरेति, यदि तेजोरूपेण पार्थिवाप्ययोर्द्रव्ययोः प्रत्यक्षत्वम् प्रत्यक्षविषयत्वं स्यात्तदा विशेपासंभवात् तैजसरूपेण वायोरपि संसर्गात् चाक्षुषप्रत्यक्षं स्यात् न चैवमस्ति, किं वा नियमे= तेजोरूपेण पार्थिवाप्ययोरेव चाक्षुषं संभवति न वायोरिति नियमे कारणं वक्तव्यं न च वक्तुं शक्यते इति नोक्ता व्यवस्था युक्तेत्यर्थः / अत्र " यस्यैकैकगुणानि भूतानि तस्य तैजसमेव द्रव्यं रूपवत्त्वात् प्रत्यक्षं प्राप्नोति न पार्थिवमाप्यं वा- अरूपत्वात्" इतिवार्तिकम् , " त्रिविधं हि द्रव्यं चाक्षुपमिष्यते-- पार्थिवमाप्यं तैजसं च तत्र रूपवत्त्वेन तैजसमेव चाक्षुषं स्याद् नेतरत्- अरूपवत्त्वात् , न च रूपिद्रव्यसंसर्गाचाक्षुषत्वमरूपयोरपि पार्थिवाप्ययोरिति वाच्यम्- नभोनभस्वतोरपि चाक्षुषत्वप्रसङ्गात्-- अस्ति हि रूपवता तेजसा तयोः संयोगः" इति च तात्पर्यटीका।। सूत्रे " पार्थिवाप्ययोः” इति सामान्येनोक्तं तदनेन पदेन पृथिवीजलसंबन्धिपदार्थमात्रस्य प्रकृतो. पयोगिनो ग्रहणसंभवाद् वर्णकान्तरमाह- रसयोरिति, पार्थिवाप्यौ रसौ रासनप्रत्यक्षविषयावेव तत्र पृथिव्यां पड्विवस्य रसस्य जले चैकस्य मधुरस्यैव प्रत्यक्षं भवति एतद्वैपम्यं च पूर्वोक्तसंसर्गमतेन नोपपद्यते- तादृशमतेन पृथिवीजलयोः रसानां साम्यमेव स्यात् किं वोक्तमतेन रसो जलस्यैव गुण इति जले एव पड्विधरसस्य प्रत्यक्षं स्यात् न पृथिव्यामित्यर्थः / वर्णकान्तरमाह-रूपयोरिति, पार्थिवाप्ययो रूपयोः प्रत्यक्षत्वात् पृथिवीजलयोरपि रूपसत्त्वं प्राप्तमिति तेन तेजस्येव रूपमितिपूर्वोक्ता व्यवस्था न युक्तेत्यन्वयः / उक्तमते बाधकमाह- तैजसेति, संसर्गे= उक्तभूतान्तरसंसर्गपक्षे तैजसरूपानुगृहीतयोः= तैजसरूपयुक्तयोः पार्थिवाप्ययोः रूपस्य प्रत्यक्षं न संभवति हि= यतः- रूपम्= तैजसरूपं घटादीनां व्यञ्जकम्= प्रकाशकमेव भवति न तु व्यङ्ग्यम्= ग्राह्यमपि गृह्यते च पार्थिवाप्ययोरपि रूपमिति नोक्तसंसर्गमतं युक्तमित्यर्थः / पार्थिवाप्ययोस्तैजसरूपेणानुग्रहपक्षे तद्रूपं परप्रकाशकमपि स्यात्- तेजोरूपस्य परप्रकाशकत्वात् न च पार्थिवादिरूपं परप्रकाशमिति नोक्तमतं युक्तमित्याशयः / अत्र “संसर्गे” इत्यस्य स्थाने 'प्रत्यक्षे' इति वक्तव्यमासीत् / वस्तुतस्तु चिन्त्यमेतत्- दीपादिरूपस्यापि प्रत्यक्षत्वात् वाक्यमपीदमसंबद्धमेव, अत एव बाधकान्तरमाह- एकेति, विषयत्वं सप्तम्यर्थः- पार्थिवाप्ययोः रूपयोः एकानेकविधत्वविषयकप्रत्यक्षस्य स्पष्टत्वादुक्तसंसर्गमतं नोपपद्यते इत्यर्थः, उक्तं व्याचष्टे- पार्थिवमिति, पार्थिवं रूपं हरितादिप्रकारेणानेकविधं जलरूपं त्वेकविधमेव शुक्लम् अप्रकाशकम्= अभास्वरम् एतद्वैषम्यं चैकैकगुणानां भूतानां संसर्गे सति भूतान्तरगुणग्रहणमते नोपपद्यते- तन्मते रूपं तेजस एव गुण इति तेजसंसर्गात् पृथिवीजलयोः प्राप्नुवद्रूपमेकविधयैव प्राप्नुयात् किं वा जलतेजसोरव्यवधानाजले एवानेकविधं स्यात् न पृथिव्यामित्यर्थः / किंचिदुपसंहरति- उदाहरणेति, एतत्= यदत्रोक्तम् / / ___ संक्षेपेणोक्तं भूतानां प्रस्तारेण प्रपञ्चयति- अतः परमिति, उक्तमते पार्थिवाप्ययोः समुच्चयेन दोषाः प्रदर्शिता: संप्रति पार्थिवतैजसादिसमुच्चयेन दोषानाह- स्पर्शयोरिति, पार्थिवतैजसस्पर्शयोः प्रत्यक्षत्वात्