________________ 272 प्रसन्नपदापरिभूषितम्- [3 अध्याये. १आहिकेपृथिव्यादीनां पूर्वपूर्वमुत्तरेणोत्तरेण विष्टम् अतो न संसर्गानियम इति. तच्चैतद् भूतसृष्टौ वेदितव्यं नैतीति // 66 // न-पार्थिवाप्ययोः प्रत्यक्षत्वात् // 67 // नेति त्रिसूत्री प्रत्याचष्टे, कस्मात् ?, पार्थिवस्य द्रव्यस्याऽऽप्यस्य च प्रत्यक्षत्वात् / महत्त्वानेकद्रव्यत्वाद्रूपाचोपलब्धिरिति तैजसमेव द्रव्यं प्रत्यक्षं स्यात्. न पार्थिवमाप्यं वा- रूपाभावात् / तैजसवत्तु पार्थिवाप्ययोः प्रत्यक्षत्वाद् न संसर्गादनेकगुणग्रहणं भूतानामिति / भूतापक्षी नियमोपपत्तिं प्रतिजानीते-नियमश्चेति / नियमोपपत्तिप्रकारं जिज्ञासते- कथमिति / सूत्रेण प्रकारमाह- विष्टमिति, न संसर्गस्यानियमोस्ति येन 'चतुर्गुणा पृथिवी ' इत्यादिनियमस्यानुपपत्तिः स्यात् किं तु पृथिवीजलतेजोवायूनां भूतानां मध्ये अपरम्= पूर्व पूर्व भूतं परेण= उत्तरेणोत्तरेण भूतेन विष्टम्= संसृ. ष्टम्= सयुक्तमस्ति न तूत्तरोत्तरं पूर्वपूर्वेणेति न संसर्गस्यानियमस्तथा च पृथिव्यादिषु जलादीनां संसर्गाद् रसादय उपलभ्यन्ते, पृथिव्यादीनां च न जलादिषु संसर्ग इति न जलादौ गन्धादय उपलभ्यन्ते इत्युक्तनियम उपपन्न इतिसूत्रार्थः / परिशिष्टं पूर्वमेव प्रतिपादितम्। व्याचष्टे-पृथिवीति, पृथिव्यादीनां मध्ये पूर्व पूर्वम्= पृथिव्यादिकम् , उत्तरेणोत्तरेण= जलादिना, एवमग्रेप्यन्वयः / उपसंहरति- अत इति / ननु पूर्व पूर्वम् उत्तरेणोत्तरेण भूतेन संयुक्तं न तूत्तरोत्तरं पूर्वपूर्वेणेत्यत्र किं मानमित्याशङ्कयाह- तदिति, एतत्= सूत्रोक्तसंसर्गनियमः, भूतसृष्टौ= भूतसृष्टिप्रतिपादकपुराणेषु द्रष्टव्यं एतर्हि= इदानीमेतत् प्रत्यक्षेण ज्ञातुं न शक्यते प्रत्यक्षायोग्यत्वादित्यर्थः / तदुक्तम् " आकाशं शब्दमानं तु स्पर्शमात्रं समाविशत् / रूपं तथैवाऽऽविशतः शब्दस्पर्शगुणावुभौ। (रूपमितिकर्मपदम् ) शब्दः स्पर्शश्च रूपं च रसमानं समाविशत् // " इत्यादि / अत्र शब्दस्पर्शादिशब्दा आकाशवाय्वादिभूतपरा व्याख्येयास्तदनेन पूर्वपूर्वस्य भूतस्योत्तरोत्तरभूतेन संयुक्तत्वं सिद्धमित्यलम् // 66 // पूर्वोक्तमेकैकगुणवादं निराकरोति-नेति, पृथिव्यादीनामुक्ता एकैकमात्रगुणवत्त्वव्यवस्था न युक्ता- पार्थिवाप्ययोरपि पदार्थयोर्घटादिहिमाद्योः प्रत्यक्षत्वात् चाक्षुषप्रत्यक्षविषयत्वात् , उक्तव्यवस्थया पृथिवीजलयो रूपं न प्राप्नोति- एककगुणस्वीकारेण तेजस्येव रूपसंभवात् रूपं विना च चाक्षुषप्रत्यक्षासंभवादिति पृथिवीजलयोरपि चाक्षुषप्रत्यक्षं न स्यात् भवति तु तस्माज्ज्ञायते पृथिवीजलयोरपि रूपमस्तीति तस्मात् पूर्वोक्ता त्वदीया एकैकगुणव्यवस्था नोपपद्यते इतिसूत्रार्थः / ब्याचष्टे- नेति, त्रिसूत्रीम् " एकैकश्येन " इत्यारभ्य सूत्रत्रयं नकारेण प्रत्याचष्टे इत्यर्थः, तत्रैकैकगुणस्वीकारपक्षे तेजस्येव रूपनियमात् पार्थिवाप्ययोः चाक्षुषप्रत्यक्षं न स्यात् न चैवमस्तीत्येवं पूर्वसूत्रद्वयस्य प्रत्याख्यानम् , तृतीयसूत्रेण च जलस्य तेजस्संयोगेन चाक्षुषप्रत्यक्षसंभवेपि पार्थिवद्रव्यस्य चाक्षुषप्रत्यक्षं न संभवति- परेण जलमा. त्रेण संयोगस्वीकारात् भवति च पार्थिवस्यापि चाक्षुषप्रत्यक्षमित्येवं तृतीयसूत्रस्य प्रत्याख्यानं वेदितव्यं स्थूलदृष्ट्या ।भाष्ये चात्रान्ते उक्ततृतीयसूत्रस्य प्रत्याख्यानं द्रष्टव्यमितिविवेकः / एतत्प्रत्याख्याने हेतुं जिज्ञासते- कस्मादिति / हेतुमाह-पार्थिवस्येति, आप्यस्य= जलीयस्य करकादेः पार्थिवस्य घटादेश्च चाक्षु. पप्रत्यक्षविषयत्वाद्रूपवत्त्वं प्राप्नोति तेनोक्तत्रिसूत्र्युक्ता व्यवस्था न युक्तेत्यर्थः / स्वाभिप्रायमुद्घाटयतिमहत्त्वेति, चाक्षुषप्रत्यक्षं प्रति महत्त्वम् अनेकद्रव्यत्वम् अनेकावयवसमवेतत्वं रूपवत्त्वं च कारणमस्ति तत्र पूर्वोक्तमतेन रूपस्य तेजस्येव सत्त्वात् पृथिवीजलयोश्चाऽसत्त्वात् तैजसमेव द्रव्यं चाक्षुषप्रत्यक्षविषयो भवेन्न तु पार्थिवमाप्यं च, भवति च तैजसद्रव्यवत् पार्थिवाप्ययोरपि द्रव्ययोः प्रत्यक्षमिति पृथिवीजलयोरपि रूपवत्त्वं प्राप्तमिति नोक्तनीत्या भूतानां भूतान्तरसंसर्गादनेकगुणग्रहणमुपपद्यते इत्याह