________________ अर्षविवेचनम् ] न्यायभाष्यम् / 271 कथं तहाँमे गुणा विनियोक्तव्याः 1 इतिएकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तराणां तदनुपलब्धिः // 64 // गन्धादीनामेकैको यथाक्रमं पृथिव्यादीनामेकैकस्य गुणः अतस्तदनुपलब्धिः तेषां तयोः तस्य चानुपलब्धिः= घ्राणेन रसरूपस्पर्शानां. रसनेन रूपस्पर्शयोः. चक्षुषा स्पर्शस्येति // 64 // कथं तहऽनेकगुणानि भूतानि गृह्यन्ते ? इति, संसर्गाचानेकगुणग्रहणम् // 65 // अबादिसंसर्गाच्च पृथिव्यां रसादयो गृह्यन्ते एवं शेषेष्वपीति // 65 // नियमस्तर्हि न पामोति- संसर्गस्यानियमात् 'चतुर्गुणा पृथिवी' 'त्रिगुणा आपः' 'द्विगुणं तेजः / 'एकगुणो वायुः' इति, नियमश्चोपपद्यते, कथम् ? विष्टं ह्यपरं परेण // 66 // रसनग्राह्यत्वात् , तेजसि च रूपमेवैकं चक्षुह्यत्वादित्यर्थः / वाय्वाकाशयोस्तु सिद्धान्तिनाप्येकैक एव गुणोत्र स्वीकृत इति न तत्र किंचिचोद्यमस्तीत्यनुसंधेयम् // 63 // ___उक्ता गुणव्यवस्था यदि न युक्ता तदा कथं गुणव्यवस्था भूतेषु कार्येति जिज्ञासते- कथमिति, इमे= गन्धरसरूपस्पर्शशब्दाः ।सूत्रेण पूर्वपक्षी व्यवस्थामाह- एकैकेति, गन्धादिषु उत्तरोत्तरगुणानां मध्येभूतेषु एकैकश्येन= एकैकशः= एकैकस्यैव सद्भावादुत्तराणाम्= रसादीनां गुणानां तत्= तैः= घ्राणादिभिरनुपलब्धिरुपपन्नेत्यन्वयः, पृथिव्यां गन्ध एवैक: जले रस एवैक: तेजसि रूपमेवैकं वायौ स्पर्श एवैकः गगने च शब्द एवैको गुणो न तु पृथिव्यादिषु रसादय इतिव्यवस्था युक्ता तथा च पृथिव्यादिषु रसादीनामभावादेव घ्राणादिभिरनुपलब्धिरुपपद्यते- घ्राणादीनां स्वप्रकृतिभूतपृथिव्यादिवृत्तिमात्रगुणग्राहकत्वात् पृथिव्यादौ च गन्धादीनामेबैकैकशो वृत्तित्वस्वीकारादिति सूत्रार्थः / व्याचष्टे- गन्धादीनामिति, पृथिव्यादीनां मध्ये एकैकस्य पृथिव्यादिभूतस्य गन्धरसरूपस्पर्शशब्दानां मध्ये एकैको गुणः, यथाक्रमम् पृथिव्याः गन्ध एवैको गुण इत्येवं व्यवस्था / अतः= पृथिव्यादौ रसादीनामभावादेव ब्राणा. दिभिस्तदनुपलब्धिः= रसादीनामनुपलब्धिः, उक्तं व्याचष्टे- तेषामिति, रसादिगुणानामित्यर्थः / तेषाम्= रसरूपस्पर्शानाम्. तयोः रूपस्पर्शयो.. तस्य= स्पर्शस्य ब्राणरसनाचक्षुभिरनुपलब्धिरित्येवं यथाक्रममन्वयः / सामान्येनोक्तं विशेषरूपेणाह- घ्राणेनेति, अनुपलब्धिरिति त्रिष्वपि वाक्येषु योग्यम् / पृथिव्यादौ रसादीनामभावादित्यर्थः // 64 // ननु यदि पृथिव्यादिषु गन्धादिगुणेष्वेकैक एव गुणस्तदा कथं पृथिव्यादिषु रसादयोप्यनेके गुणा उपलभ्यन्ते ? इत्याशङ्कते-कथमिति / सूत्रेण समाधत्ते- संसर्गादिति, पृथिव्यादिषु जलादीनां संसर्गास्ति तादृशसंसर्गादेवाऽनेकेषां जलादिगुणभूतानां रसादीनां पृथिव्यादिषु ग्रहणं भवति न तु पृथिव्यादिगुणस्वेनेति सूत्रार्थः / ब्याचष्टे- अबादीति, जलतेजोवायूनां संसर्गात् पृथिव्यां रसरूपस्पर्शा उपलभ्यन्ते, शेषेष्विति- शेषयोरिति वक्तव्यमासीत् , तेजोवायुसंसर्गात् जले रूपस्पशौं उपलभ्येते, वायुसंसर्गाच्च तेजसि स्पर्श उपलभ्यते इत्यर्थः, तथा च पृथिव्यादिषु भूतान्तरसंसर्गादनेकगुणोपलब्धिरप्युपपन्ना. पृथिव्यादिषु वस्तुतो रसादीनामभावाद् घ्राणादिभिरनुपलब्धिरप्युपपन्नेत्याशयः // 65 // ___ उक्तव्यवस्थायामाशङ्कते- नियम इति, नियमश्चोभयत्रापि- " चतुर्गुणा पृथिवी " इत्यादिरूपो विज्ञेयः / न प्राप्नोतिन सिध्यति- संसर्गस्यानियमादिति- यथा पृथिव्यां जलादीनां संसर्गस्तथा जलादिषु पृथिव्यादीनामपि संसर्गः स्यादेव तथा च जलादिष्वपि गन्धादिग्रहणं स्यादेवेति चतुर्ध्वपि भूतेषु गन्धादयश्चत्वारो गुणाःप्राप्ता इत्युक्तनियमानुपपत्तिरिति शङ्कार्थः। नियमस्वरूपमाह- चतुर्गुणेति / अत्र पूर्व