________________ 270 प्रसन्नपदापरिभूषितम्- [3 अध्याये. १आलिकेकथं तर्हि तरप्निर्देशः 1. स्वतन्त्रविनियोगसामर्थ्यात् तेनोत्तरशब्दस्य परार्थाभिधानं विज्ञायते- उद्देशसूत्रे हि स्पर्शपयन्तेभ्यः परः शब्द इति, तन्त्रं वा- स्पर्शस्य विवक्षितत्वात्= स्पर्शपर्यन्तेषु नियुक्तेषु योऽन्यस्तदुत्तरः शब्द इति // 62 // / न- सर्वगुणानुपलब्धेः // 63 // नायं गुणनियोगः साधुः, कस्मात् ?. यस्य भूतस्य ये गुणा न ते तदात्मकेनेन्द्रियेण सर्वे उपलभ्यन्ते= पार्थिवेन हि घ्राणेन स्पर्शपर्यन्ता न गृह्यन्ते गन्ध एवैको गृह्यते, एवं शेषेष्वपीति॥६३॥ उत्तरशब्दयोगे “अन्यारादितर " इत्यादिसूत्रेण पञ्चमीप्राप्तेः / उत्तरशब्दघटकस्य तर प्रत्ययस्यार्थ जिज्ञासते- कथमिति, किमर्थमित्यर्थः, अत्र- " उत्तर इत्ययं तरब्निर्देशो न युक्तः- द्वयोर्दृष्टत्वात् , इह पुनः प्रकृष्टवाचित्वे सति उत्तम इति स्यात् " इतिवार्तिकम् , द्वयोरकस्य बोधने तरप्निर्देशो भवति यथा 'अन्यतरः' इति न त्वेतादृशस्थले इत्यर्थः / उत्तरमाह- स्वतत्रेति, स्वतत्रो यो विनियोगः प्रयोगस्तसामर्थ्यादुत्तरशब्दप्रयोगोस्ति, अन्तिमार्थेऽत्रोत्तरशब्दस्य प्रयोगोस्ति स च स्वतन्त्र एव न त्वत्रानेकेष्वे. कार्थबोधनार्थ तरप्निर्देश इत्यर्थः, अत्र " नायं तरप्निर्देशः अपि तु पराभिधानमेतत् यदुक्तं भवति पर इति तदुक्तं भवति उत्तर इति" इतिवार्तिकम् , " अव्युत्पन्नोयमुत्तरशब्दोऽनन्तरवचनस्तेन बहूनां निर्धारणेप्युपपन्नार्थः” इतितात्पर्यटीका, " स्वतन्त्रस्य= अवधारणीयानपेक्षस्य विनियोगः= बोधार्थ व्युत्पन्नैः प्रयोगस्तत्सामर्थ्यात्= शक्तेरितियावत्" इति श्रीगुरुचरणाः / पर्यवसितमाह - तेनेति, परार्थाभिधानम्= परशब्दपर्यायत्वम्= परशब्दार्थबोधकत्वम् / उक्ते हेतुमाह- उद्देशेति, उद्देशसूत्रे= पूर्वसूत्रे उक्तचतुर्दशसूत्रे वा स्पर्शपयन्तेभ्यः परः शब्द एवोक्त इत्यत्रोत्तरशब्दः शब्दगुणग्रहणार्थ प्रयुक्तः परशब्दार्थक एव विज्ञायते इत्यर्थः / पक्षान्तरमाह- तत्रमिति, तत्रम् युक्तस्तरप्निर्देश:- स्पर्शस्य विवक्षितत्वात् स्पर्शशब्दयोरुत्तरः शब्दः आकाशस्य गुण इत्यर्थः, स्पर्शपर्यन्तेषु गुणेषु पृथिव्यादिषु विनियुक्तेषु योऽन्यः= तदुत्तरःस्पोत्तरः स्पर्शानिमः शब्दः स आकाशस्य गुण इत्यन्वयादित्यर्थः, अत्र "तदुत्तरः" इत्यत्र ‘स उत्तरः' इति वक्तव्यमासीत् / अत्र- "तत्रं वा स्पर्शस्य विवक्षितत्वात्= भवतु वा तरब्निर्देशः (इत्यर्थः) ननूतमुत्तम इति प्राप्नोति ? न स्पर्शस्य विवक्षितत्वात् गन्धादिभ्यः परः स्पर्शः. स्पर्शादयं पर इति यावदुक्तं भवति तावदुक्तं भवति उत्तर इति" इतिवार्तिकम् / किं वा तत्रं नाम स्पर्शस्य तत्रम्= उभयत्रान्वयस्तथा च 'स्पर्शपर्यन्तेभ्यः पूर्व पूर्वमपोह्य परिशिष्टा गुणा जलादीनां गुणाः स्पर्शशब्दयोश्चोत्तरः= अन्यतरः= द्वितीयः शब्द आकाशस्य गुणः' इत्येवं सूत्रान्वयस्तथा चात्र स्पर्शस्योभयत्रान्वयात् तत्रं सिद्धं तेन च तत्रेणोत्तरशब्दस्य द्वितीयार्थबोधकत्वेन तरप्निर्देशोपि युक्त इत्यर्थः // 62 // ___ उक्तां गुणव्यवस्थां निराकरोति-नेति, उक्ता भूतानां गुणव्यवस्था नोपपद्यते-सर्वगुणानुपलब्धेः= पृथिव्याद्युत्पन्नैर्घाणादिभिर्गन्धादिस्पर्शपर्यन्तादीनां सर्वेषां गुणानामनुपलब्धेरित्यन्वयः, यदि पृथिव्याः गन्धरसरूपस्पर्शाश्चत्वारो गुणाः स्युस्तदा पृथिव्युत्पन्नेन घ्राणेन चत्वार एव गृहीताः स्युः न च गृह्यन्ते इति न चत्वारः पृथिवीगुणाः, जलोत्पन्नरसनया च रसरूपस्पर्शा न त्रयो गृह्यन्ते इति न त्रयो जलगुणाः, तेजोजातेन चक्षुषा च न रूपस्पशौं गृह्यते इति न रूपस्पशौं द्वौ तेजोगुगुणौ किं त्वेकैक एव गुणो भूतानां यो घ्राणादिभिर्गृह्यते इतिसूत्रार्थः / व्याचष्टे- नायमिति, नियोगः= व्यवस्था / अयम्= पूर्वोक्तः / नियोगासाधुत्वे हेतुं जिज्ञासते- कस्मादिति / उत्तरमाह- यस्येति, ते सर्वे इत्यन्वयः, तदात्मकेन= तादृशभूतोत्पन्नेन, तत्= भूतम् आत्मा कारणं यस्य तत् तदात्मकमित्यर्थः। सामान्यत उक्तं विशेषरूपेण व्याचष्टे- पार्थिवेनेति, इति न स्पर्शपर्यान्ताश्चत्वारो गुणाः पृथिव्याः संभवन्तीति शेषः / उक्तमन्यत्रातिदिशति- एवमिति, एवमेव शेषेष्वपि भूतेष्वनेकगुणासंभवो विज्ञेय इत्यर्थः, जले रसरूपस्पर्शास्त्रयो न संभवन्ति- रसनेन्द्रियाग्राह्यत्वात् , तेजसि रूपस्पशौं न संभवतः- चक्षुरग्राह्यत्वात् किं तु जलें रस एवैक: