________________ 269 अर्थविवेचनम् ] न्यायभाष्यम्। ___ दृष्टो हि वाय्वादीनां भूतानां गुणविशेषाभिव्यक्तिनियमः= वायुः स्पर्शव्यञ्जकः आपो रसव्यञ्जिकाः. तेजो रूपव्यञ्जकम्. पार्थिवं किंचिद् द्रव्यं कस्यचिद् द्रव्यस्य गन्धव्यञ्जकम् , अस्ति चायमिन्द्रियाणां भूतगुणविशेषोपलब्धिनियमः तेन भूतगुणविशेषोपलब्धेर्मन्यामहेभूतप्रकृतीनीन्द्रियाणि नाऽव्यक्तभकृतीनिति // 60 // (अथाऽर्थविवेचनम् ) गन्धादयः पृथिव्यादिगुणा इत्युद्दिष्टम् उद्देशश्च पृथिव्यादीनामेकगुणत्वे चाऽनेकगुणत्वे समान इत्यत आह गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः // 61 // अप्सेजोवायूनां पूर्व पूर्वमपोह्याकाशस्योत्तरः // 62 // स्पर्शपर्यन्तानामिति विभक्तिविपरिणामः, आकाशस्योत्तरः= शब्दः स्पर्शपर्यन्तेभ्य इति / दृष्ट इति, गुणविशेषाभिव्यक्तिनियमः= गुणविशेषाभिव्यञ्जकत्वनियमः / सामान्येनोक्तं विशेषरूपेणाहवायुरिति, स्पष्टमिदम् , किंचिद्रव्यम्= गोघृतादिकम् , कस्यचिद् द्रव्यत्य= कुमादेर्गन्धस्य व्यञ्ज कम् / कर्णशष्कुल्यवच्छिन्नं चाकाशं शब्दव्यञ्जकम् / प्रकृतमाह- अस्तीति, भूतगुणविशेषाणां गन्धादीनाम् उपलब्धिनियमः= उपलम्भकत्वनियमः= व्यजकत्वनियमः- घ्राणादीनां गन्धादिमात्रव्यजकत्वात् / उपसंहरति- तेनेति, इन्द्रियाणि भौतिकानि भूतगुणविशेषव्यजकत्वाद् कुङ्कुमगन्धव्यजक'गोघृतवदित्यर्थः, तेनेति शब्द उपसंहारमात्रपरः // 60 // ॥इतीन्द्रियविवेचनं समाप्तम् // अग्रिमसूत्रद्वयमवतारयति- गन्धादय इति, इति= प्रथमाध्यायप्रथमाह्निकचतुर्दशसूत्रे उद्दिष्टम् , उद्देशः= तादृशोपदेशः, तत्र हि- "गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणाः" इत्युक्तं तच्च पृथिव्यादीनामेकैकगुणत्वेपि संभवति अनेकगुणत्वेपि संभवति, तत्र भूतानामनेकगुणत्वे तादृशभूतोत्पन्नेन्द्रियाणामनेकगुणग्राहकत्वं प्रसज्येत तथा चैकमेवेन्द्रियं स्वीकार्यम्- तेनैव सर्वगुणग्रहणसंभवात् किं चैवं तादृशमिन्द्रियमाहङ्कारिकं स्वीकार्य न भौतिकम्- अनेकगुणग्रहणस्याहङ्कारिकत्वपक्षेपि संभवादित्याशयः प्रतिभाति / उक्तं सूत्रद्वयेन व्यवस्थापयति- गन्धेति, गन्धरसरूपस्पर्शशब्दानां मध्ये स्पर्शपर्यन्ताः= गन्धरसरूपस्पर्शाश्चत्वारो गुणाः पृथिव्याः- पृथिव्यामुपलभ्यमानत्वादिति सूत्रार्थः / तत्र च गन्धस्यैव प्राधान्यात् पृथिव्युत्पन्ननाणस्य गन्धमात्रग्राहकत्वमुपपद्यते एवमग्रेपि तत्तद्गुणप्राधान्यादेवेन्द्रियाणां तत्तन्मात्रगुणग्राहकत्वं विज्ञेयम् / अत्र भाष्यं नास्ति / / 61 // __ अप्लेज इति- गन्धरसरूपस्पर्शानां च मध्ये पूर्व पूर्व गन्धादिकमपोह्य= परित्यज्य परिशिष्टा अप्तेजोवायूनां गुणा ज्ञेयास्तथाहि-गन्धं परित्यज्य रसरूपस्पर्शा जलस्य गुणाः, रसरूपस्पशेष्वपि रसं परित्यज्य रूपस्पशौं तेजसो गुणौ, रूपस्पर्शयोरपि रूपं परित्यज्य स्पर्श एवैको वायोर्गुणः, उत्तरः= पूर्वसूत्रोक्तगुणेष्वन्तिमः शब्द आकशस्य गुण इत्येवं भूतानां गुणव्यवस्था विज्ञेया तथा च पृथिवीजलतेजसामनेकगुणत्वं वाय्वाकाशयोश्चैकगुणत्वं सिद्धमित्येषैव व्यवस्था प्रथमाध्यायप्रथमाह्निकचतुर्दशसूत्रे विज्ञेयेति सूत्रार्थः / व्याचष्टे- स्पर्शेति, “पूर्व पूर्वम्" इत्यत्रान्वयार्थम् " स्पर्शपर्यन्ताः” इतिपदस्य “स्पर्शपर्यन्ता. नाम्" इत्येवं विभक्तिविपरिणामः कर्तव्यस्तथा च स्पर्शपर्यन्तानां मध्ये पूर्व पूर्वमपोह्येत्यन्वयः, सूत्रार्थस्तूक्त एव / " आकाशस्योत्तरः” इत्यत्रान्वयार्थम् "स्पर्शपर्यन्ताः" इत्यस्य "स्पर्शपर्यन्तेभ्यः” इत्येवं विभक्तिविपरिणामः कर्तव्यस्तथा च स्पर्शपर्यन्तेभ्यः उत्तरः= अग्रिमः शब्द आकाशस्य गुण इत्यन्वयः