________________ 268 प्रसन्नपदापरिभूषितम्- [3 अध्याये. १आह्निकेआकृतिः खलु परिमाणम्= इयत्ता सा पञ्चधा- स्वस्थानमात्राणि घ्राणरसनस्पर्शनानि विषयग्रहणेनानुमेयानि, चक्षुः कृष्णसाराश्रयं बहिनिस्सृतं विषयव्यापि, श्रोत्रं नान्यदाकाशात तच्च विभु शब्दमात्रानुभवानुमेयं पुरुषसंस्कारोपग्रहाचाधिष्ठाननियमेन शब्दस्य व्यञ्जकमिति / जातिरिति योनि प्रचक्षते- पञ्च खल्विन्द्रिययोनयः पृथिव्यादीनि भूतानि तस्मात् प्रकृतिपश्चत्वादपि पञ्चेन्द्रियाणीति सिद्धम् // 59 // कथं पुनर्जायते- भूतप्रकृतीनीन्द्रियाणि नाऽव्यक्तप्रकृतीनीति ?, भूतगुणविशेषोपलब्धेस्तादात्म्यम् // 60 // किं तु विषयाः स्पर्शादय एव त्वगादीनां समीपे गच्छन्ति, तत्र स्पर्शादीनां स्वरूपेण गमनासंभवादुक्तम्" आश्रयोपसर्पणात्" इति, स्पर्शादीनामाश्रयीभूतं द्रव्यं त्वगादिसमीपे गच्छति तद्वारा स्पर्शादीनामपि गमनं संभवति, प्रत्यासीदन्ति= संयुजन्ति / शब्दस्य श्रोत्रसंबन्धमाह- सन्तानेति, सन्तानः= उत्तरोत्तरशब्दपरम्परा तवृत्त्या= तद्द्वारा, श्रोत्रप्रत्यासत्तिः- श्रोत्रेण संबन्धः / तथा चात्र गतिशब्देन विषयेन्द्रिययोः संबन्धो ग्राह्यस्तस्यानेकविधत्वादिन्द्रियाणामप्यनेकत्वं सिद्धमित्यर्थः / ___ आकृत्यनेकत्वेनेन्द्रियाणामनेकत्वमाह- आकृतिरिति, स्वस्थानमात्राणि= स्वस्थानपरिमितानि, स्थानानि चोक्तान्येव / गन्धादिग्रहणेन हि घ्राणादिकमनुमीयते इत्याह- विषयेति, तदेतद्बहुत्र व्याख्यातम् / चक्षुश्च चक्षुर्गोलकपरिमितम् , तथा च चक्षुर्गोलकादीनां स्थानानां परिमाणभेदादिन्द्रियाणामपि परिमाणभेदः सिद्ध इति परिमाणपञ्चत्वादपीन्द्रियाणां पञ्चत्वं सिद्धमित्यर्थः / विषयव्यापि= विषयग्राहकम् किं वा विषयपरिमितं भवतीत्यर्थः / विषयव्यापनं च रश्मिद्वारा / श्रोत्रपरिमाणमाह- श्रोत्रमिति, तत्= आकाशं श्रोत्रं वा, शब्दमात्रानुभवानुमेयम्= शब्दग्रहणानुमेयम् , आकाशस्य व्यापकत्वेपि सर्वेषां सर्वशब्दाश्रवणप्रयोजकमाह- पुरुषेति, पुरुषः श्रोता शब्दोत्पादकवाय्वादिभिः सामीप्यादिभिर्वा संस्कियते तादृशसंस्कारोपग्रहात्= तादृशसंस्कारस्य नियमात्= तच्छब्दप्राहकमात्रपुरुषवृत्तित्वाद् अधिष्ठाननियमेन= समीपस्थस्यैव श्रोत्रशष्कुल्यवच्छेदेनगगनं शब्दस्य व्यञ्जकं= ग्राहकं भवतीति न सर्वेषां सर्वशब्दश्रवणापत्तिः- पुरुषसंस्कारस्य नियामकत्वादित्यर्थः, किं वा संस्कारशब्देनात्राऽदृष्टं ग्राह्यं तस्यापि नियामकत्वात् / अत्र- " श्रोत्रं त्वाकाशं तदधिष्ठाननियमेन प्रवर्तते. धर्माधर्मसंहितया इष्टानिष्टोपेक्षणीयशब्दसाधनभूतया कर्णशष्कुल्या य आकाशस्य संबन्धस्तत्संबन्धानुविधाययाऽऽकाशं न विवरान्तरेणाऽऽस्यादिना शब्दमुपलम्भयति नान्यत्रेति तदुपकारप्रतीकारभेदाद्वोपक्रियते प्रतिक्रियते चेति. न च पुनराकाशं नित्यत्वादुपक्रियते प्रतिक्रियते इति" इति वार्तिकम् / ___ इन्द्रियाणां कारणपञ्चत्वात् पञ्चत्वमाह- जातिरिति, योनिम्= उत्पादकं कारणम् , जातिशब्देनात्र कारणं ग्राह्यमित्यर्थः, कारणीभूतानां पृथिव्यादिभूतानां पञ्चत्वादपीन्द्रियाणां पञ्चत्वं सिद्धमित्यन्वयः / इन्द्रियैक्ये हि उक्तानां बुद्धिलक्षणादीनामनेकत्वं नोपलभ्येत उपलभ्यते चेतीन्द्रियाणामप्यनेकत्वम्= पञ्चत्वं सिद्धमित्यर्थः // 59 // ____ इन्द्रियाणां पञ्चत्वे सिद्धेपि उक्तभौतिकत्वस्य कारणं जिज्ञासते- कथमिति, अव्यक्तप्रकृतीनिअहङ्कारकारणिकानि / सूत्रेणोत्तरमाह- भूतेति, इन्द्रियैर्भूतगुणविशेषाणां गन्धादीनामुपलब्धेः= इन्द्रियाणां गन्धादिव्यञ्जकत्वात् तादात्म्यम्= भौतिकत्वं स्वीक्रियते- भूतकार्याणामेव भूतगुणव्यञ्जकत्वदर्शनाद् यथा गोघृतं कुङ्कुमगन्धव्यञ्जकं दृश्यते इतीन्द्रियाणां भौतिकत्वं सिद्धम् , आहङ्कारिकत्वे हि अहङ्कारस्य गन्धादिसर्वगुणाश्रयत्वाद् अहङ्कारोत्पन्नानामिन्द्रियाणां गन्धादिसर्वगुणव्यञ्जकत्वं स्यान्न तु गन्धाद्येकैकगुणव्यञ्जकत्वमिति भौतिकत्वं स्वीक्रियते तत्र पृथिव्यादीनां विशेषगुणो गन्धाधेकैक एव गुण इति पृथिव्यादिभ्य उत्पन्नानां घ्राणादीनां गन्धाकैकगुणव्यजकत्वमुपपद्यते इतिसूत्रार्थः / व्याचष्टे