________________ इन्द्रियविवेचनम् ] न्यायभाष्यम् / 267 अनुमीयन्ते. अनुमीयन्ते च पञ्च गन्धादयो गन्धत्वादिभिः स्वसामान्यैः कृतव्यवस्था इन्द्रियान्तरग्राह्याः. तस्मादसंबद्धमेतत् , अयमेव चार्थोऽनूद्यते- 'बुद्धिलक्षणपञ्चत्वात् ' इति= बुद्धय एव लक्षणानि- विषयग्रहणलिङ्गत्वादिन्द्रियाणाम् , तदेतत् " इन्द्रियार्थपञ्चत्वात् 55" इत्येतस्मिन् सूत्रे कृतभाष्यमिति, तस्माद् बुद्धिलक्षणपञ्चत्वात् पञ्चेन्द्रियाणि / ___ अधिष्ठानान्यपि खलु पञ्च इन्द्रियाणाम्- सर्वशरीराधिष्ठानं स्पर्शनं स्पर्शग्रहणलिङ्गम् , कृष्णताराधिष्ठानं चक्षुः बहिनिस्सृतं रूपग्रहणलिङ्गम् , नासाधिष्ठानं घ्राणम् , जिह्वाधिष्ठानं रसनम्, कर्णच्छिद्राधिष्ठानं श्रोत्रम् , गन्धरसरूपस्पर्शशब्दग्रहणलिङ्गत्वादिति / ___ गतिभेदादपीन्द्रियभेदः- कृष्णसारोपनिबद्धं चक्षुर्वहिनिस्सृत्य रूपाधिकरणानि द्रव्याणि प्रामोति, स्पर्शनादीनि त्विन्द्रियाणि विषया एवाऽऽश्रयोपसर्पणात् प्रत्यासीदन्ति, सन्तानवृत्त्या शब्दस्य श्रोत्रप्रत्त्यासत्तिरिति / नेति, कृतव्यवस्थाः= संगृहीताः, विषयाः= गन्धादयः, ग्राहकान्तरनिरपेक्षाः= इन्द्रियान्तरनिरपेक्षाः एकसाधनप्राह्याः= एकेन्द्रियग्राह्या नानुमीयन्ते= नानुमातुं शक्यन्ते इत्यन्वयः, शब्दस्पर्शादीनां सर्वेषां विषयाणामेकेन्द्रियग्राह्यत्वं नानुमीयते- अनुमापकहेतोरभावाद् येनेन्द्रियैक्यं सिध्येदित्यर्थः / यदि सर्वेषां शब्दस्पर्शादीनामेकेन्द्रियग्राह्यत्वं स्यात्तदा ग्राहकान्तरनिरपेक्षत्वं स्यादपि न चैवमस्ति किं तु ग्राहकान्तरसापेक्षत्वमेव- रूपादिग्राहकेण चक्षुरादिना गन्धादीनां ग्रहणासंभवादित्याशयः / अभीष्टानुमानप्रकारमाह- अनुमीयन्ते चेति, इन्द्रियान्तरग्राह्याः= पृथक्पृथगिन्द्रियग्राह्याः, तथा हि रूपाणां चक्षुर्ग्राह्यत्वं रूपविलक्षणानां गन्धानां घ्राणग्राह्यत्वं रूपगन्धविलक्षणानां रसानां रसनाग्राह्यत्वमित्येवं विज्ञे. यम्-विलक्षणग्राहकत्वे सर्वग्राहकत्वं प्रसज्येत तच्च प्रत्यक्षविरुद्धम्- आकाशादीनामग्रहणादित्यर्थः / उपसंहरति- तस्मादिति / एतत्= पूर्वसूत्रोक्तम् असंबद्धम्= अयुक्तमेव / उक्तार्थे सूत्रं प्रमाणयतिअयमिति, अयमर्थः= इन्द्रियपञ्चत्वम् / अनूद्यते= उच्यते / सूत्रोक्तहेतुमाह- बुद्धीति, इन्द्रियपञ्चत्वमितिशेषः / उक्तवाक्यं व्याचष्टे- बुद्धय इति, लक्षणानि= अनुमापकानि इन्द्रियाणाम् / बुद्धीनामि. न्द्रियलक्षणत्वे हेतुमाह-विषयेति, इन्द्रियाणां विषयग्रहणमेव लिङ्गं यत स्तत इन्द्रियाणि बुद्धिलक्षणानि इत्यर्थः / तदेतत्= विषयज्ञानानां= बुद्धीनां पञ्चत्वेनेन्द्रियाणां पञ्चत्वमिति, कृतभाष्यम्= व्युत्पादितमेव- तत्रार्थशब्देन विषयग्रहणानामेव गृहीतत्वादित्यर्थः, अन्यत्तत्रैव द्रष्टव्यम् / उपसंहरति- तस्मादिति, बुद्धयात्मकानाम्= रूपादिविषयकज्ञानात्मत्कानां लक्षणानाम् ज्ञापकानां पञ्चत्वेनेन्द्रियाणामपि तज्ज्ञाप्यानां पञ्चत्वं सिद्धमित्यन्वयः / ___ इन्द्रियाणां स्थानपञ्चत्वेन पञ्चत्वमाह- अधिष्ठानान्यपीति, सर्व शरीरमधिष्ठानं यस्य तत् सर्वशरीराधिष्ठानम् , त्वचः सर्व शरीरं स्थानमित्यर्थः, स्पर्शग्रहणमेव लिङ्गम्= अनुमापकं यस्य तत् स्पर्शग्रहणलिङ्गम् , एवमुत्तरत्रापि व्याख्येयम् / चक्षुस्स्थानमाह- कृष्णेति, बहिनिस्सृतम्= स्वस्थानात्= चक्षुगोलकाद्वहिर्गतमेव रूपेण संयुज्य रूपग्राहकमित्यर्थः, बहिर्गमनं च स्वरश्मिद्वारा / ब्राणाधिष्ठानमाह- नासेति / रसनाधिष्टानमाह- जिह्वेति / श्रोत्रस्थानमाह- कर्णेति / हेतुवाक्यं तत्रेणाहगन्धेति, गन्धादिग्रहणमेव ब्राणादीनामनुमापकं तानि च गन्धादिग्रहणानि पञ्च सन्तीति तैरनुमेयानामिन्द्रियाणामपि पञ्चत्वं सिद्धं यथा गन्धग्रहणेन घ्राणमनुमीयते रूपग्रहणेन चक्षुः शब्दग्रहणेन श्रोत्रमित्येवं पञ्चेन्द्रियाणि सिद्धानीत्यर्थः / ___ गतिभेदेनेन्द्रियाणामनेकत्वमाह- गतीति, कृष्णसारोपनिबद्धम्= चक्षुगोलकस्थितम् , रूपाधिकरणानि= रूपविशिष्टानि, प्राप्नोति= गच्छति, रूपसमीपे गच्छतीत्यर्थः / द्रव्याणीति कर्मपदम् / त्वगादीनां गतिमाह- स्पर्शनेति, इन्द्रियाणीति शसो रूपम् , त्वगादीनीन्द्रियाणि विषयसमीपे न गच्छन्ति