________________ 266 प्रसन्नपदापरिभूषितम्- [3 अध्याये. १ाहिकेरसत्वेन रसानाम्. शब्दत्वेन शब्दानामिति / गन्धादिग्रहणानि पुनरसमानसाधनसाध्यत्वान्न ग्राहकान्तराणां प्रयोजकानि, तस्मादुपपन्नमिन्द्रियार्थपञ्चत्वात् पञ्चेन्द्रियाणीति // 57 // यदि सामान्यं संग्राहकम् ? प्राप्तमिन्द्रियाणाम् विषयत्वाव्यतिरेकादेकत्वम् // 58 // विषयत्वेन हि सामान्येन गन्धादयः संगृहीता इति // 58 // न- बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः // 59 // न खलु विषयत्वेन सामान्येन कृतव्यवस्था विषया ग्राहकान्तरनिरपेक्षाः= एकसाधनग्राह्या नाम= शीतादिसर्वविधस्पर्शानाम् एकसाधनसाध्यत्वात्= एकनैव त्वगिन्द्रियेण ग्राह्यत्वात् सर्वविधस्पर्शग्राहकमेकमेव त्वगिन्द्रियमित्यर्थः, उक्तं विशदयति- येनेति, येन त्वगिन्द्रियेण शीतस्पर्शो गृह्यते तेनैव त्वगिन्द्रियेण इतरौ= उष्णानुष्णाशीतौ स्पशौं गृह्यते इति यावत्स्पर्शग्रहणार्थमेकमेव त्वगिन्द्रियं सिद्धमित्यर्थः / उक्तन्यायमन्यत्रातिदिशति- एवमिति, एवं सर्वेषां गन्धानां गन्धत्वेन संग्रहः सर्वेषां रूपाणां रूपत्वेन संग्रहः सर्वेषां रसानां रसत्वेन संग्रहः सर्वेषां शब्दानां च शब्दत्वेन संग्रहो वेदितव्यः / तत्र यावद्गन्धानां ग्रहणार्थमेकमेव घ्राणेन्द्रियं. यावद्रूपाणां ग्रहणार्थमेकमेव चक्षुरिन्द्रियं. यावद्रसानां ग्रहणार्थमेकमेव रसनेन्द्रियं. यावच्छब्दानां च ग्रहणार्थमेकमेव श्रोत्रेन्द्रियं स्वीक्रियते इत्याह- गन्धादीति, गन्धादिज्ञानानि असमानसाधनसाध्यत्वात्= घ्राणाचेकैकेन्द्रियमात्रग्राह्यत्वात् ग्राहकान्तराणाम्= इन्द्रियान्तराणां प्रयोजकानि न भवन्तीति पञ्चैवेन्द्रियाणि संभवन्तीत्यर्थः / उपसंहरति- तस्मादिति, इन्द्रियार्थानाम्= शब्दस्पर्शरूपरसगन्धानां शब्दत्वादिभिः संगृहीतानां पञ्चत्वात् तेषां ग्राहकाणीन्द्रियाण्यपि पञ्चैव संभवन्ति न तु न्यूनाधिकानीत्यर्थः // 57 // पूर्वपक्षमाश्रित्याग्रिमसूत्रमवतारयति- यदीति, यदि गन्धत्वादिसामान्यं सर्वविधगन्धानां संग्राहकं तदा विषयत्वसामान्यं शब्दस्पर्शरूपरसगन्धानां सर्वेषां संग्राहकमेवेति विषयत्वेन सर्वविधविषयग्राहकमेकमेवेन्द्रियं स्वीकार्यमितीन्द्रियाणामेकत्वं प्राप्तमिति सूत्रभागेनान्वयः / उक्तं पूर्वपक्षी परिहरतिविषयेति, शब्दस्पर्शरूपरसगन्धानां सर्वेषामपि विषयत्वेन सामान्येन जात्या अव्यतिरेकात= अभेदात तथा च विषयत्वेन रूपेण सर्वविषयग्राहकमेकमेवेन्द्रियं स्वीकार्यमिति एकत्वम्= इन्द्रियैकत्वं सिद्धमिति न पञ्चेन्द्रियाणि स्वीकार्याणीति सूत्रार्थः / व्याचष्टे- विषयत्वेनेति, विषयत्वेन सामान्येन गन्धादयःशब्दस्पर्शरूपरसगन्धाः संगृहीतास्तथा च विषयत्वेन सर्वविषयग्राहकमेकमेवेन्द्रियं स्वीकार्यम्, विषयत्वेन सर्वेषां संग्रहासंभवे च गन्धत्वादिना सर्वविधगन्धादीनामपि संग्रहो न स्यादित्युक्तरीत्या विंशतिसंख्याकानीन्द्रियाणि स्वीकार्याणि स्युरित्यर्थः // 58 // ____ उक्तमिन्द्रियैकत्वं सिद्धान्ती निराकरोति-नेति, विषयत्वेन सर्वविषयाणामैक्यमुपपाद्य तेन यदिन्द्रियैक्यमुक्तं तन्नोपपद्यते इत्यर्थः, उक्ते हेतुमाह- बुद्धीति, बुद्धयः= रूपादिज्ञानानि रूपादीनां पञ्चत्वात् पञ्च सन्ति तान्येवेन्द्रियाणामनुमापकानि सन्ति- रूपादिज्ञानैरेव जायमानैः रूपादिप्राहकाणां चक्षुरादीनामिन्द्रियाणामनुमानात् तथा च बुद्धयात्मकानि यानि लक्षणानि= इन्द्रियानुमापकानि तेषां पञ्चत्वादिन्द्रियाणां पञ्चत्वं सिद्धम्- रूपज्ञानेन चक्षुषो गन्धज्ञानेन व्राणस्येत्येवमेवानुमानात् / इन्द्रियाणां यान्यधिष्ठानानि स्थानानि चक्षुर्गोलकादीनि तेषां पञ्चत्वादपीन्द्रियाणां पञ्चत्वं सिद्धम्इन्द्रियैक्ये तत्स्थानस्याप्यैक्यं स्यादिति / गतिः= गमनम्= विषयग्रहणं तस्याप्यनेकविधत्वादनेकत्वमिन्द्रियाणां सिद्धम् अन्यथा गत्यनेकत्वं न स्यादिति न चैवमस्ति / आकृतिः= परिमाणं संस्थानं वा तदनेकत्वादपीन्द्रियाणामनेकत्वं सिद्धम् / जायतेऽस्मादिति जातिः= प्रकृतिः= कारणम् इन्द्रियकारणीभूतपृथिव्यादिभूतानामपि पञ्चत्वात् तत्कार्यभूतानामिन्द्रियाणामपि पञ्चत्वं सिद्धमिति सूत्रान्वयः / ब्याचष्टे