________________ इन्द्रियविवेचनम् ] न्यायभाष्यम् / 265 भिन्नाः, तद् यस्येन्दियार्थपञ्चत्वात् पञ्चेन्द्रियाणि तस्येन्द्रियार्थबहुत्वाद् बहूनीन्द्रियाणि प्रसज्यन्ते इति // 56 // गन्धत्वाद्यऽव्यतिरेकाद् गन्धादीनामप्रतिषेधः // 57 // गन्धत्वादिभिः स्वसामान्यैः कृतव्यवस्थानां गन्धादीनां यानि गन्धादिग्रहणानि तान्यऽसमानसाधनसाध्यत्वाद् ग्राहकान्तराणि न प्रयोजयन्ति. अर्थसमूहोऽनुमानमुक्तो नाऽथैकदेशः, अर्थैकदेशं चाश्रित्य विषयपञ्चत्वमात्रं भवान् प्रतिषेधति. तस्मादयुक्तोयं प्रतिषेध इति / कथं पुनर्गन्धत्वादिभिः स्वसामान्यैः कृतव्यवस्था गन्धादयः ? इति, स्पर्शः खल्वयं त्रिविधःशीत उष्णोऽनुष्णाशीतश्च स्पर्शत्वेन स्वसामान्येन संगृहीतः, गृह्यमाणे च शीतस्पर्शे नोष्णस्याऽनुष्णाशीतस्य वा स्पर्शस्य ग्रहणं ग्राहकान्तरं प्रयोजयति- स्पर्शभेदानामेकसाधनसाध्यत्वात् येनैव शीतस्पर्शो गृह्यते तेनैवेतरावपीति / एवं गन्धत्वेन गन्धानाम्. रूपत्वेन रूपाणाम्. रसा इति, रसाः मधुरादयः षट् / शब्दानां द्वैविध्यमाह- शब्दा इति / उपसंहरति- तदिति, यस्य मते शब्दादीनां प्रत्येकं ग्रहणार्थ पृथक् पृथगिन्द्रियकल्पनया इन्द्रियार्थपञ्चत्वात् पञ्चेन्द्रियाणीत्युच्यते तस्यैव मते बहूनि पञ्चाधिकानीन्द्रियाणि प्रसज्यन्ते- इन्द्रियार्थानामुक्तरीत्या बहुत्वात्= पञ्चाधिकत्वात् , तथा च त्रयः स्पर्शा गन्धाश्च. षट् रसा रूपाणि च द्विविधाः शब्दा इति विषयाणां विंशतिप्रकारत्वादिन्द्रियाणामपि विंशतिसंख्याकत्वं स्यात् , यदि च स्पर्शत्वादिना स्पर्शादीनां संग्रहात् विषयाणां पञ्चत्वमुच्यते तदा विषयत्वेन सर्वेषां संग्रहादेकत्वमेव स्यादित्येकमेवेन्द्रियं स्वीकार्यमित्यर्थः // 56 // ___ उक्तमर्थबहुत्वं सिद्धान्ती प्रतिषेधति- गन्धत्वेति, सर्वविधानां गन्धादीनां गन्धत्वादिना= गन्धत्वादिरूपेणाऽव्यतिरेकात्= अभेदात्= ऐक्याद् विषयाणां पञ्चत्वस्य प्रतिषेधो नोपपद्यते तथा च गन्धत्वावच्छिन्नस्य ग्राहकं घ्राणं रूपत्वावच्छिन्नग्राहकं चक्षुरिति व्यवस्था क्रियते गन्धत्वादिसामान्यं च पञ्चविधमेवेति गन्धत्वाद्यवच्छिन्नानां शब्दस्पर्शरूपरसगन्धानां पञ्चविधत्वाद् गन्धादीनां च ब्राणाद्यतिरिक्तैश्चक्षुरादिभिरग्राह्यत्वात् घ्राणादिभिर्ग्राह्यत्वाच्च पञ्चैवेन्द्रियाणीतिसिद्धमिति सूत्रार्थः / व्याचष्टेगन्धत्वादिभिरिति, स्वसामान्यैः= गन्धादीनां सामान्यैः, कृतव्यवस्थानाम्= संगृहीतानाम्= अभिन्नानाम् , " गन्धादिग्रहणानि" इत्यत्र 'ग्रहणानि ' इत्येव वक्तव्यमासीत् , असमानसाधनसाध्यत्वात्= घाणाद्येकग्राह्यत्वात् ग्राहकान्तराणि= इन्द्रियान्तराणि न प्रयोजयन्ति, सर्वेषामपि गन्धानामेकेनैव घाणेन ग्राह्यत्वाद् गन्धभेदेन तद्ग्राहकेन्द्रियभेदस्यापेक्षा नास्तीत्यर्थः, अत्र " असमानम्= असाधारणं यत्साधनं घ्राणादि तत्साध्यत्वादेकेन घ्राणेनैव सर्वविधगन्धग्रहणसंभवादितियावत् " इति श्रीगुरुचरणाः, वस्तुतस्तु " असमानसाधनसाध्यत्वात्" इत्यत्र 'समानसाधनसाध्यत्वात् ' इतिवक्तव्यमासीत् / ब्राणस्य सर्वविधगन्धग्राहकत्वमाह- अर्थेति, अर्थस्य= गन्धादेर्यः समूह स एवानुमानम्= ब्राणाद्यनुमापकमुक्तं न त्वर्थैकदेश:- तत्तद्गन्धादिर्येन गन्धादीनामवान्तरभेदेनापीन्द्रियाणां भेदः स्यादित्यन्वयः, तथा च गन्धत्वावच्छिन्नस्य गन्धसमूहस्य= यावद्गन्धानामेकघ्राणानुमापकत्वेन यावद्गन्धग्राहकमेकमेव ब्राणं सिध्यति एवं यावद्पादीनां ग्राहकमेकमेव चक्षुरादिकं सिध्यतीति पञ्चैवेन्द्रियाणि सिध्यन्ति न तु न्यूनाधिकानीत्यर्थः / पूर्वपक्षमनुवदति- अर्थैकदेशमिति, अर्थकदेशम्= पूर्वोक्तरीत्या गन्धादीनामवान्तरभेदमाश्रित्य / पूर्वपक्षं परिहति- तस्मादिति, तस्मात्= उक्तरीत्या सर्वविधगन्धादीनां गन्धत्वादिसामान्यैरभेदात् पञ्चत्वसिद्धेविषयाणां पञ्चत्वप्रतिषेधोयमऽयुक्त एवेत्यर्थः। गन्धत्वादिसामान्यगन्धादीनां संग्रहे हेतुं जिज्ञासते- कथमिति / उक्तसंग्रहहेतुमाह- स्पर्श इत्यादिना, स्पर्शत्वजात्या सर्वेषामपि स्पर्शानां संग्रहः संभवतीत्यर्थः, त्वचा शीते स्पर्श गृह्यमाणे सति उष्णादिस्पर्शस्य यद् ग्रहणं तत् त्वगतिरिक्तं ग्राहकान्तरम्= स्पर्शग्राहकेन्द्रियान्तरं न प्रयोजयतीत्यन्वयः, अत्र हेतुमाह- स्पशेति, स्पर्शभेदा