________________ 264 प्रसन्नपदापरिभूषितम्- [3 अध्याये. १आह्निके___ एकत्वप्रतिषेधाच्च नानात्वसिद्धौ स्थापनाहेतुरप्युपादीयते इन्द्रियार्थपञ्चत्वात् // 55 // अर्थः= प्रयोजनं तत् पञ्चविधमिन्द्रियाणाम्= स्पर्शनेनेन्द्रियेण स्पर्शग्रहणे सति न तेनैव रूपं गृह्यते इति रूपग्रहणप्रयोजनं चक्षुरनुमीयते, स्पर्शरूपग्रहणे च ताभ्यामेव न गन्धो गृह्यते इति गन्धग्रहणप्रयोजनं घ्राणमनुमीयते, त्रयाणां ग्रहणे न तैरेव रसो गृह्यते इति रसग्रहणप्रयोजनं रसनमनुमीयते, न चतुर्णा ग्रहणे तैरेव शब्दः श्रूयते इति शब्दग्रहणप्रयोजनं श्रोत्रमनुमीयते, एवमिन्द्रियप्रयोजनस्याऽनितरेतरसाधनसाध्यत्वात् पञ्चैवेन्द्रियाणि // 55 // न-तदर्थबहुत्वात् // 56 // न खलु 'इन्द्रियार्थपञ्चत्वात् पश्चेन्द्रियाणि' इति सिध्यति, कस्मात् ?. तेषामर्थानां बहुत्वात्= बहवः खल्विमे इन्द्रियार्थाः= स्पर्शास्तावत् शीतोष्णानुष्णाशीता इति. रूपाणि शुक्लहरितादीनि. गन्धा इष्टानिष्टोपेक्षणीयाः. रसाः कटुकादयः, शब्दा वर्णात्मनो ध्वनिमात्राश्च अग्रिमसूत्रमवतारयति- एकत्वेति, उक्तेनेन्द्रियाणामेकत्वस्य प्रतिषेधेनार्थादऽनेकत्वे सिद्धेपि अनेन सूत्रेणेन्द्रियाणामनेकत्वस्य स्थापनाहेतुः= स्थापको हेतुरुच्यते इत्यन्वयः / इन्द्रियेति- इन्द्रियाणां येऽर्थाः= ग्राह्या विषयाः= शब्दस्पर्शरूपरसगन्धास्तेषां पञ्चत्वात् एकैकेन्द्रियग्राह्यत्वाञ्चेन्द्रियाणां पञ्चत्वम् पञ्चत्वसंख्या विशिष्टत्वं सिद्धं तथा च श्रोत्रत्वक्चक्षुरसनाघ्राणानीति पञ्चेन्द्रियाणीतिसिद्धमिति सूत्रार्थः / व्याचष्टे- अर्थ इति, प्रयोजनम्= विषयग्रहणम्= विषयज्ञानम् , प्रयोजनानामिन्द्रियाणां च पञ्चत्वमुपपादयति- स्पर्शेति, स्पर्शनेन= त्वचा, स्पर्शग्रहणं हि स्पष्टमेव तेन स्पर्शग्रहणेन त्वगिन्द्रियमनुमीयते, तेन त्वगिन्द्रियेण सिद्धेनापि रूपं न गृह्यते रूपग्रहणं च प्रत्यक्षमेवेति रूपग्रहणं प्रयोजनं यस्य तादृशं रूपग्राहकं चक्षुरिन्द्रियमनुमीयते इत्यन्वयः / स्पर्शरूपेति- त्वक्चक्षुा स्पर्शरूपयोर्ग्रहणे सिद्धेपि ताभ्याम्= त्वक्चक्षुामेव गन्धो न गृह्यते- अन्यथा ब्राणव्यापारं विनापि गन्धग्रहणं स्यादिति गन्धग्रहणप्रयोजनं घ्राणेन्द्रियमनुमीयते इत्यन्वयः / त्रयाणाम्= स्पर्शरूपगन्धानां त्वक्चक्षुर्घाणैर्ग्रहणे सिद्धेपि तैः= त्वचक्षुर्घाणैरेव रसो न गृह्यते रसग्रहणं च प्रत्यक्षमेवेति रसग्रहणप्रयोजनं रसनेन्द्रियमनुमीयते इत्यन्वयः / चतुर्णाम्= स्पर्शरूपगन्धरसानां ग्रहणे सिद्धेपि तैः= त्वक्चक्षुर्घाणरसनैः शब्दो न श्रूयते शब्दग्रहणं च प्रत्यक्षमेवेति शब्दग्रहणप्रयोजनं श्रोत्रेन्द्रियमनुमीयते इत्यन्वयः / चक्षुरादीनां व्यापारं विना रूपादीनां ग्रहणादर्शनादेव रूपादीनां पञ्चानां ग्रहणाथै चक्षुरादीनि पञ्चेन्द्रियाणि सिद्धानि, अन्यथा चक्षुरादेापारं विनापि रूपादीनां ग्रहणं स्यादित्याशयः / उपसंहरति- एवमिति, इन्द्रियप्रयोजनस्य= रूपादिग्रहणस्य अनितरेतरसाधनसाध्यत्वात्= इतरेतरसाधनसाध्यत्वाभावात्- इतरेतरं यत् साधनम् त्वगादीन्द्रियं तेन साध्यत्वाभावात् , रूपग्रहणं त्वगादिसाध्यं नास्ति स्पर्शग्रहणं चक्षुरादिसाध्यं नास्ति रसग्रहणं च रसनातिरिक्तसाध्यं नास्तीत्युक्तरीत्या शब्दस्पर्शरूपरसगन्धानां ग्रहणार्थ श्रोत्रत्वक्चक्षुरसनाघ्राणानीति पञ्चैवेन्द्रियाणि सिद्धानीत्यर्थः // 55 // इन्द्रियपञ्चत्वं पूर्वपक्षी पराकरोति-नेति, उक्तरीत्यापीन्द्रियाणां पञ्चत्वं नोपपद्यते-- तत्तेषामिन्द्रियाणां येऽर्थाः= विषयारतेषां बहुत्वात् पञ्चत्वसंख्याधिकसंख्याविशिष्टत्वादिन्द्रियाणामप्याधिक्यम्= विषयसंख्याविशिष्टत्वं स्यादेव, विषयाणां च बहुत्वं रूपादीनामनेकप्रकारत्वात् स्पष्टमेवेति सूत्रार्थः, अन्यद् भाष्ये स्पष्टमेव / व्याचष्टे- नेति, शब्दस्पर्शरूपरसगन्धानां पञ्चत्वादिन्द्रियाणां पञ्चत्वं न सिध्यति- शब्दादीनामनेकप्रकारत्वादित्यर्थः / उक्तप्रतिषेधे हेतुं जिज्ञासते- कस्मादिति / उत्तरमाहतेषामिति / अर्थबहुत्वमुपपादयति- बहव इति / स्पर्शस्य त्रैविध्यमाह- शीतेति / रूपाणां बहुत्वमाहशुक्लेति / गन्धानां त्रैविध्यमाह- गन्धा इति, इष्टाः= प्रियाः, अनिष्टाः= अप्रियाः / रसानां बहुत्वमाह