________________ इन्द्रियविवेचनम् ] न्यायभाष्यम् / 263 विप्रतिषेधाच न त्वगेका // 54 // न खलु त्वगेकमिन्द्रियम्- व्याघातात् , त्वचा रूपाण्यऽप्राप्तानि गृह्यन्ते इति अप्राप्यकारित्वे स्पर्शादिष्वप्येवं प्रसङ्गः, स्पर्शादीनां च प्राप्तानां ग्रहणाद् रूपादीनाम् ( अपि) प्राप्तानां ग्रहणमिति प्राप्तम् / प्राप्याऽप्राप्यकारित्वमितिचेत् ?. आवरणानुपपत्तेविषयमात्रस्य ग्रहणम् = अथापि मन्येत- प्राप्ताः स्पर्शादयस्त्वचा गृह्यन्ते रूपाणि त्वऽप्राप्तानीति, एवं सति नास्त्यावरणम्. आवरणानुपपत्तेश्च रूपमात्रस्य ग्रहणं व्यवहितस्य चाव्यहितस्य चेति / दूरान्तिकानुविधानं च रूपोपलब्ध्यनुपलब्ध्योर्न स्यात्= अप्राप्तं त्वचा गृह्यते रूपमिति दुरे रूपस्याग्रहणमन्तिके च ग्रहणमित्येतद् न स्यादिति // 54 // साहचर्ये इति, यदि रूपादिसर्वविषयकप्रत्यक्षाणां साहचर्य स्यात्तदाऽन्धस्य स्पर्शप्रत्यक्षकाले रूपप्रत्यक्षमपि स्यादेव- साहचर्यनियमात्= रूपादिप्रत्यक्षाणां युगपद्भावनियमात् , युगपद्भावनियमश्च त्वच एव सर्वप्राहकत्वस्वीकारात् प्राप्तः तथा चान्धाद्यनुपपत्तिः= अन्धाद्यभाव एव स्यात्- रूपादिप्रत्यक्षवतामन्धत्वाद्यसंभवात्- रूपादिप्रत्यक्षरहितानामेवान्धत्वादिनिर्देशात् , न चान्धाद्यभावस्तेन रूपादिप्रत्यक्षाणामसाहचर्य सिद्धम् असाहचर्याच्च ग्राह्याणां रूपादीनां भेदेनेन्द्रियभेदः सिद्ध इति नैकेन्द्रियवाद उपपद्यते इत्यर्थः // 53 // एकेन्द्रियवादे दोषान्तरमाह-विप्रतिषेधादिति, त्वगेकैवेन्द्रियमिति नोपपद्यते- विप्रतिषेधात्= व्याघातात्= परस्परविरोधात् , विरोधश्चायमेकेन्द्रियवादे यथा रूपादयोऽप्राप्ता गृह्यन्ते स्पर्शादयश्च प्राप्ता गृह्यन्ते इति रूपादीनां त्वचः दूरस्थानामपि ग्राह्यत्वं स्पर्शादीनां च त्वक्संयुक्तानामेव ग्राह्यत्वं प्राप्त तदेतदेकस्मिन्निन्द्रिये विरुद्धमेव- प्राप्तग्राहकत्वाऽप्राप्तग्राहकत्वयोर्मध्ये एकतरधर्मस्यैवैकत्र संभवादिति सूत्रार्थः। व्याचष्टे- नेति, उक्त हेतुमाह- व्याघातादिति। व्याघातमेवोद्घाटयति- त्वचेति, अप्राप्तानि= स्वासंयुक्तानि= दूरस्थानि / अप्राप्यकारित्वे त्वचः स्वासंयुक्तग्राहकत्वे, एवंप्रसङ्गः= अप्राप्यकारित्वप्रसङ्गः स्यात् , रूपवत् स्पर्शादीनामपि स्वासंयुक्तानां त्वचा ग्रहणं स्यात् न चैवमस्तीत्यर्थः, स्पर्शादीनामिति- किं वा स्पर्शादीनां प्राप्तानाम्= स्वसंयुक्तानां ग्रहणाद् रूपादीनामपि प्राप्तानामेव ग्रहणं स्यात् न चैवमप्यस्ति- गृह्यमाणै रूपादिभिस्त्वचः संयोगासंभवात्= नेत्रस्येव त्वचः किरणाभाबादित्यर्थः, तथा च रूपस्याऽप्राप्तस्य स्पर्शादीनां च प्राप्तानां त्वचा ग्रहणमित्येकेन्द्रियवादे विरोध एव व्याघातपदार्थ इत्याशयः। ननु दृष्टानुरोधात् त्वचः स्पर्शादिषु प्राप्यकारित्वम् स्वसंयुक्तग्राहकत्वं रूपादिषु चाऽप्राप्यकारित्वमाश्रीयते इत्याशङ्कते- प्राप्येति / अत्र दोषमाह- आवरणेति, त्वचोऽप्राप्यकारित्वे हि आवृतस्यापि ग्रहणं स्यादेव तथा चावरणवैयर्थ्यं स्यात् तेनावरणानुपपत्तिर्जाता तथा च विषयमात्रस्य दूरस्थस्यापि ग्रहणं स्यात्- प्रतिबन्धकाभावादित्यन्वयः / उक्तमेव विशेषरूपेण व्याचष्टे- अथापीति / उक्ते दोषमाह- एवमिति, अप्राप्तस्यापि रूपस्य ग्राह्यत्वे नास्त्यावरणम्= आवरणसार्थक्यं न स्यात्आवरणवैयर्थ्यमेव स्यात् आवरणवैयर्षे च व्यवहितस्याव्यवहितस्य च रूपमात्रस्य ग्रहणं स्यादेवव्यवहिताव्यवहितयोरप्राप्तेः समानत्वात् , न चैवमस्तीत्यन्वयः। अप्राप्यकारित्वपक्षे दोषान्तरमाहदूरेति, दूरान्तिकयोः= दूरसमीपयोः, रूपोपलब्धौ सामीप्यानुविधानम् सामीप्यस्य प्रयोजकत्वम् रूपानुपलब्धौ च दूरत्वस्य प्रयोजकत्वं न स्यात्- अप्राप्यकारित्वस्य दूरसमीपयोः समानत्वादित्यर्थः / उक्तमेव व्याचष्टे- अप्राप्तमिति, इति= इतिपक्षे / अप्राप्तस्य रूपस्य त्वचा ग्रहणाद् दूरस्थरूपस्यापि त्वचा ग्रहणं स्यादेवेतिशेषः / दूरस्थग्राह्यरूपेण त्वचः संयोगश्च नोपपद्यते-किरणाभावात् तथा च रूपादिष्वप्रा. प्यकारित्वं स्पर्शादिषु च प्राप्यकारित्वं वक्तव्यं तच्च परस्परं व्याहतमेवेति न त्वगेकैवेन्द्रियमित्यर्थः // 54 //