________________ 262 प्रसन्नपदापरिभूषितम्- [3 अध्याये. १ाहिके संदिग्धश्वाऽव्यतिरेकः। पृथिव्यादिभिरपि भूतैरिन्द्रियाधिष्ठानानि व्याप्तानि. न च तेष्वसत्सु विषयग्रहणं भवतीति. तस्मान्न त्वग् अन्यद्वा सर्वविषयमेकमिन्द्रियमिति // 52 // न- युगपदर्थानुपलब्धेः // 53 // आत्मा मनसा संबध्यते मन इन्द्रियेण इन्द्रियं सर्वार्थः संनिकृष्टमिति आत्मेन्द्रियमनोऽर्थसंनिकर्षेभ्यो युगपद् ग्रहणानि स्युः न च युगपद् रूपादयो गृह्यन्ते तस्मान्नैकमिन्द्रियं सर्वविषयमस्तीति= असाहचर्याच विषयग्रहणानां नैकमिन्द्रियं सर्वविषयकम् , साहचर्ये हि विषयग्रहणानामन्धाद्यनुपपत्तिरिति // 53 // ___एकेन्द्रियवादे दोषान्तरमाह- संदिग्ध इति, अव्यतिरेकः= सर्वेषामिन्द्रियाणां त्वगभिन्नत्वं संधिग्धमेव संदिग्धत्वादेवायं हेतुनेंन्द्रियैकत्वसाधक इत्यर्थः, अभेदस्य संदिग्धत्वं च व्याप्यव्यापकयोरभेदनियमासंभवादेव विज्ञेयं यथा यत्र गोत्वं तत्र द्रव्यत्वं भवत्येव अथापि गोत्वद्रव्यत्वयो भेदस्तथा त्वचः सर्वेन्द्रियाधिष्ठानव्यापकत्वेपि न सर्वेषामिन्द्रियाणां त्वगभिन्नत्वं संभवतीतिभावः / स्वयं व्याचष्टे- पृथिव्यादीति, भूतानामिन्द्रियाधिष्ठानव्यापकत्वेपि विषयग्रहणकाले सत्त्वेपि च यथा न विषयग्राहकत्वं तथा त्वचोपि न सर्वविषयग्राहकत्वं संभवतीत्यर्थः, पृथिव्यादिभूतानां विषयग्रहणस्यान्वयव्यतिरेकावुक्तौ-न चेति, तेषु= पृथिव्यादिभूतेषु / शरीरस्य पाञ्चभौतिकत्वादेव पृथिव्यादिभूतानामिन्द्रियाधिष्ठानव्यापकत्वं स्पष्टमेव, यदि त्वचः सर्वेन्द्रियाधिष्ठानव्यापकत्वेन सर्वविषयग्रहणैश्चान्वयव्यतिरेकाभ्यां सर्वविषयप्राहकत्वं स्यात्तदा पृथिव्यादिभूतानामपि सर्वविषयग्राहकत्वं स्यादेव- सर्वेन्द्रियाधिष्ठानव्यापकत्वादुक्तान्वयव्यतिरेकयोरपि सत्त्वाच्च न च भूतानां ग्राहकत्वमिति न त्वचोपि सर्वविषयप्राहकत्वमुपपद्यते इत्युपसंहरति- तस्मादिति, अन्यत्= त्वगतिरिक्तम् , सर्वविषयम्= सर्वविषयग्राहकम् / व्याख्याने मूलानुकूल्यं नास्तीति स्पष्टमेव / उक्तं चैतदसंगतमेव- भूतानां सर्वथैव ग्राहकत्वाभावात् त्वचश्व स्पर्शग्राहकत्वस्वीकारादिति त्वचो भूतानां च व्यतिरेकादिति विभाव्यम् // 52 // उक्तमेकेन्द्रियवाद सूत्रकारो निराकरोति-नेति, 'त्वगेकमेवेन्द्रियम्, इति नोपपद्यते- युगपद् अर्थानाम्= शब्दस्पर्शरूपादीनामनुपलब्धेः= यदि त्वगेकमेवेन्द्रियं स्यात् तदा तस्याः सर्वेन्द्रियाधिष्ठानव्यापकत्वात् मनसा संयुक्तत्वाञ्च मनसश्चाप्यात्मना संयुक्तत्वात् युगपत्= एकस्मिन्नेव क्षणे शब्दस्पर्शरूपादीनां सर्वेषामेव विषयाणां प्रत्यक्षं स्यात्. न चैकस्मिन् क्षणे सर्वेषां रूपादीनां प्रत्यक्षं भवति तेन ज्ञायते- नैकमिन्द्रियमिति, त्वगवयवविशेषाणामपि रूपादिग्राहकत्वपक्षेऽयं दोषोस्त्येव-त्वच एकत्वात् / इन्द्रियनानात्वपक्षे तु सूक्ष्मस्य मनस एकस्मिन् क्षणे सर्वैरिन्द्रियैः संयोगो न संभवतीति रूपादीनां सर्वेषां युगपदनुपलब्धिरुपपद्यते इत्यनेकाचीन्द्रियाणि न त्वेकमेवेन्द्रियमिति सिद्धमिति सूत्रार्थः / व्याचष्टेआत्मेति, अनेनैकेन्द्रियवादे युगपत् सर्वार्थप्रत्यक्षापत्तिरुपपादिता, तव मते त्वगेकमेवेन्द्रियमिति तया मनसः संयोगो जात एव त्वक् चैका सर्वशरीरव्यापिकेति त्वचोपि रूपादिभिः सर्वैर्विषयैः संयोग एकस्मिन् क्षणे उपपद्यते एवेति विषयग्रहणप्रयोजकीभूता आत्मेन्द्रियमनोऽर्थसंयोगा एकस्मिन् क्षणे संजाता इति युगपदेव सर्वेषां रूपादीनां प्रत्यक्षाणि स्युरित्यन्वयः। सर्वाथैः= सर्वै रूपादिपदार्थैरिन्द्रियम्= त्वगिन्द्रियं संनिकृष्टम्= संयुक्तम्- शरीरव्यापकत्वात् / उक्ते प्रत्यक्षबाधमाह-न चेति / उपसंहरति- तस्मादिति / सर्वविषयम्= सर्वविषयग्राहकम् / उक्तमेव विशदयति- असाहचर्येति, विषयग्रहणानाम्= रूपादिसर्वविषयकप्रत्यक्षाणाम् असाहचर्यात् युगपदभावात् , रूपादिप्रत्यक्षाणां कालभेदेन. दर्शनाद्विज्ञायतेरूपादिग्राहकाणीन्द्रियाणि चक्षुरादीनि परस्परं भिन्नान्येव= अनेकान्येवेत्यर्थः / विपक्षे बाधकमाह