________________ इन्द्रियविवेचनम् ] न्यायभाष्यम् / 261 रूपादयो न गृह्यन्ते अन्धादिभिः. न स्पर्शग्राहकादिन्द्रियाद् इन्द्रियान्तरमस्तीति स्पर्शवद् अन्धादिभिPोरन् रूपादयः न च गृह्यन्ते तस्मान्नैकमिन्द्रियं त्वगिति // त्वगवयवविशेषेण धूमोपलब्धिवत्तदुपलब्धिः / यथा त्वचोऽवयवविशेषः कश्चित् चक्षुषि संनिकृष्टो धूमस्पर्श गृह्णाति नान्य एवं त्वचोऽवयवविशेषा रूपादिग्राहकास्तेषामुपघातादन्धादिभिर्न गृह्यन्ते रूपादय इति // व्याहतत्वादहेतुः। 'त्वगव्यतिरेकादेकमिन्द्रियम्' इत्युक्त्वा 'त्वगवयवविशेषेण धूमोपलब्धिवद् रूपाद्युपलब्धिः' इत्युच्यते. एवं च सति नानाभूतानि विषयग्राहकाणि- विषयव्यवस्थानात्= तद्भावे विषयग्रहणस्य भावात् तदुपघाते चाऽभावात्. तथा च पूर्वो वाद उत्तरेण वादेन व्याहन्यते इति // त्वचि सत्यामपि तादृशेन त्वगिन्द्रियेण स्पर्श गृह्यमाणेपि चाऽन्धादिभिश्चक्षुराद्यर्था रूपादयो न गृह्यन्ते. तव मते च त्वगतिरिक्तमिन्द्रियमेव नास्ति तथा चान्धादिभिरपि त्वचा स्पर्शवद् रूपादयोपि गृोरन्त्वचः सत्त्वात् तदतिरिक्तेन्द्रियाऽस्वीकारात् रूपादीनामपि त्वग्ग्राह्यत्वस्वीकाराच्च, न चान्धादिभिर्गृह्यन्ते रूपादयस्तस्माद् विज्ञायते न त्वगेकमेवेन्द्रियं किं तु चक्षुरा रीन्यपीन्द्रियाणीति, तथा च चक्षुरादीनामभावादेवान्धादिभी रूपादयो न गृह्यन्ते इत्यन्वयः // भाष्यकारः पूर्वपक्षिवाक्यमाह- त्वगिति, यथा चक्षुर्गोलकस्थेन त्वचोऽवयवविशेषेण धूमोपलब्धिवत्= धूमस्पर्शोपलब्धिर्भवति नान्यदेशस्थेन त्वगवयवेन तथा चक्षुर्गोलकस्थेनैव त्वगवयवविशेषेण तत्= तस्य= रूपस्योपलब्धिर्भवति नान्यदेशस्थेन त्वगवयवेन. अन्धस्य च चक्षुर्गोलकाभावेन तन्निष्ठत्वगवयवस्याप्यभावाद् रूपोपलब्धिर्न भवति एवं कर्णशष्कुल्यवयवविशेषाभावेन तन्निष्ठत्वगवयवविशेषाभावादेव बधिरेण शब्दो न गृह्यते इत्युपपन्नम्- त्वगेकमेवेन्द्रियमितीत्यर्थः / व्याचष्टे- यथेति, चक्षुषि= चक्षुर्गोलके, संनिकृष्टः= स्थितः, नान्यः= नान्यदेशस्थः त्वगवयवविशेषः, अवयवविशेषाः= चक्षुर्गोलकादिनिष्ठा त्वगवयवाः रूपादिग्राहका भवन्ति नान्यदेशस्थाः, तेषाम्= चक्षुगोलकादिनिष्ठानां त्वगवय. वानामुपघातात्= विनाशादेवान्धादिभिर्न गृह्यन्ते रूपादय इत्युपपन्नम्- त्वगेकमेवेन्द्रियमितीत्यन्वयः॥ ___ उक्तं भाष्यकारो दूषयति- व्याहतत्वादिति, 'त्वगेकमेवेन्द्रियम् ' इत्यत्र पूर्ववाक्येन यो हेतुरुक्तः सोऽहेतुः= इन्द्रियैक्याऽसाधकः- व्याहतत्वात् पूर्वापरविरोधात्= पूर्वमिन्द्रियैक्यमुक्तं तदनन्तरं चक्षुगोलकादिस्थानां त्वगवयवानां रूपादिग्राहकत्वमुक्तं तेन च तादृशानां त्वगवयवानां परस्परं भेदादनेकत्वाचेन्द्रियानेकत्वं प्राप्तमिति पूर्वापरविरोधः प्राप्तस्तत्रोत्तरपक्षस्य प्रबलत्वेन पूर्वस्य इन्द्रियैकत्वपक्षस्य बाधो जात इतीन्द्रियानेकत्वं सिद्धमित्यर्थः / स्वयं व्याचष्टे- त्वगिति, त्वगव्यतिरेकात्= चक्षुरादीनां सर्वेषामिन्द्रियाणं त्वभिन्नत्वाभावात् / उक्तमुत्तरपक्षमाह- त्वगवयवेति / स्वाभिप्रायमुद्घाटयतिएवं चेति, एवं च सति= त्वगवयवविशेषाणां रूपादिग्राहकत्वस्वीकारे विषयग्राहकाणि= इन्द्रियाणि नानाभूतानि= अनेकानि सिद्धानि-विषयव्यवस्थानात= विषयाणामनेकत्वात् किं वा चक्षुर्गोलका. दिस्थेन त्वगवयवेन रूपादिमात्रग्रहणादिति विषयव्यवस्थानं तस्मात् , तथा च शब्दस्पर्शादीनां ग्राह्याणामनेकत्वात् तद्वाहकाणामनेकत्वं प्राप्तमेवेत्यर्थः / अत्रान्वयव्यतिरेकावाह- तद्भावे इति, तद्भावे= चक्षुगोलकादिनिष्ठत्वगवयवसत्त्वे रूपादिग्रहणस्य भावात् तदुपघाते= चक्षुर्गोलकादिनिष्ठत्वगवयवविनाशे चाऽभावात्= रूपादिग्रहणस्याभावात् चक्षुर्गोलकादिनिष्ठानां त्वगवयवानामेव रूपादिग्राहकत्वं सिद्धं तेषां चानेकत्वादेकेन्द्रियपक्षः पराहतो जात इत्यन्वयः, पूर्वो वादः= एकेन्द्रियपक्षः / उत्तरेण वादेन त्वगवयवानां विषयग्राहकत्ववादेन //