________________ 260 प्रसन्नपदापरिभूषितम्- [3 अध्याये. १माहिकेअथापि खल्वेकमिन्द्रियम् ? बहूनीन्द्रियाणि वा ? / कुतः संशयः ?स्थानान्यत्वे नानात्वाद् अवयविनानास्थानत्वाच संशयः // 51 // बहूनि द्रव्याणि नानास्थानानि दृश्यन्ते. नानास्थानश्च सन्नेकोऽवयवी चेति. तेनेन्द्रियेषु भिन्नस्थानेषु संशय इति // 51 // एकमिन्द्रियम् त्वगव्यतिरेकात् // 52 // 'स्वगेकमिन्द्रियम्' इत्याह / कस्मात् ?. अव्यतिरेकात्= न त्वचा किंचिदिन्द्रियाधिष्ठानं न प्राप्तम्- न चाऽसत्यां त्वचि किंचिद्विषयग्रहणं भवति. यया सर्वेन्द्रियस्थानानि व्याप्तानि यस्यां च सत्यां विषयग्रहणं भवति सा त्वगेकमिन्द्रियमिति // 52 // न- इन्द्रियान्तरार्थानुपलब्धेः / स्पर्शोपलब्धिलक्षणायां सत्यां त्वचि गृह्यमाणे ( च ) त्वगिन्द्रियेण स्पर्शे इन्द्रियान्तरार्था ___ इन्द्रियाणामेकत्वानेकत्वविचारमारभते- अथापीति / संशयकारणं जिज्ञासते- कुत इति, चक्षु. गोलकादिस्थानभेदादनेकत्वमिन्द्रियाणां स्पष्टमेवेति हेतोः संशयकारणजिज्ञासा / एकेन्द्रियपक्षे त्वगेव तत्र तत्र स्थिता रूपादिग्राहिका विज्ञेया / सूत्रेण संशयकारणमाह- स्थानेति, स्थानाऽन्यत्वे= स्थानाऽनेकत्वे तादृशनानास्थानेषु स्थितानां घटपटादीनां नानात्वात् चक्षुर्गोलकादिनानास्थानस्थत्वेनेन्द्रियाणामपि नानात्वमपि प्राप्तम् , अवयविन एकस्यापि नानास्थानत्वात्= नानास्थानस्थत्वात्= यथैकस्य घटस्यानेककपालवृत्तित्वं दृश्यते तथैकस्यापीन्द्रियस्य चक्षुर्गोलकादिनानास्थानस्थत्वं संभवतीत्येकत्वमपि प्राप्तमितिहेतोरेवेन्द्रियेषु एकत्वानेकत्वयोः संशय इति सूत्रार्थः / व्याचष्टे- बहूनीति, बहूनि= नाना= अनेकानि, यथा घटपटादयः अनेके घटा एव वापि / तदनेन चक्षुगोलकादिस्थानभेदेनेन्द्रियाणामनेकत्वं प्राप्तम् , अवयवी च नाना= अनेकानि स्थानानि= 'अधिकरणालि यस्य स नानास्थानः= स्वावयवलक्षणानेकस्थानस्थोप्येक एव भवतीति चक्षुर्गोलकाद्यनेकस्थानस्थेष्वपीन्द्रियेषु एकत्वं प्राप्तम्- एकस्यापीन्द्रियस्य चक्षुगोलकाद्यनेकस्थानेषु स्थितिसंभवादित्यर्थः / उपसंहरति- तेनेति, चक्षुगोलकादिस्थानानां भेद एवैतादृशसंशयस्य प्रयोजक इत्याशयः // 51 // __ अग्रिमपूर्वपक्षसूत्रमवतारयति- एकमिति, सर्वेषामिन्द्रियाणां त्वगभिन्नत्वाद् एकमेवेन्द्रियं त्वग्लक्षणमित्यन्वयः। त्वगिति-त्वगव्यतिरेकात् त्वगभिन्नत्वात = त्वचः सर्वत्र व्यापकत्वात् त्वगेकमेवेन्द्रियं सा च त्वक् चक्षुर्गोलकस्था रूपं नासाद्यग्रस्था च गन्धादिकं गृह्णातीति सूत्रान्वयः / व्याचष्टे- त्वगिति, इत्याह पूर्वपक्षीत्यन्वयः / उक्ते हेतुं जिज्ञासते- कस्मादिति / हेतुमाह- अव्यतिरेकादिति, उक्तं व्याचष्टे- नेति, इन्द्रियाधिष्ठानम्= चक्षुगोलकादि, न प्राप्तम्= न व्याप्तमिति न किं तु व्याप्तमेवत्वचः सर्वशरीरव्यापकत्वादित्यर्थः / त्वचो विषयग्रहणस्य च व्यतिरेकव्याप्तिमाह-न चेति / उपसंहरति- ययेति, यया= त्वचा, यस्याम्= त्वचि, सा त्वगेवैकमिन्द्रियम्- तदतिरिक्तेन्द्रियस्वीकारस्य व्यर्थत्वात्. चक्षुर्गोलकादिस्थानस्थया त्वचैव रूपादिप्रत्यक्षसंभवादित्यर्थः // 52 // एकेन्द्रियवादं भाष्यकारः परिहरति- नेति, 'त्वगेकमेवेन्द्रियम्' इति यदुक्तं तन्नोपपद्यतेत्वक्सत्त्वेप्यन्धादिभिरिन्द्रियान्तराणां चक्षुरादीनां ये अर्थाः= विषया रूपादयस्तेषामनुपलब्धेः, यदि त्वगेकमेवेन्द्रियं स्यात्तदाऽन्धादेरपि त्वक्सत्त्वेन रूपादिप्रत्यक्षं स्यात् न च भवतीति विज्ञायते न त्वगेकमेवेन्द्रियमित्यर्थः / उक्तं स्वयं व्याचष्टे- स्पर्शेति, स्पर्शोपलब्धिरेव लक्षणम्= अनुमापकं यस्यास्तस्यां