________________ इन्द्रियविवेचनम् ] न्यायभाव्यम् / 259 प्रमाणस्य तत्त्वविषयत्वात् , न खलु भोः परीक्षमाणेन दृष्टानुमिता अर्थाः शक्या नियोतुम्- ‘एवं भवत' इति. नापि प्रतिषेद्धम्- 'एवं न भवत' इति, न हीदमुपपद्यते- 'रूपवद् गन्धोपि चाक्षुषो भवतु' इति. 'गन्धवद्वा रूपं चाक्षुषं मा भूत्' इति, 'अग्निप्रतिपत्तिवद् धूमेनोदकप्रतिपत्तिरपि भवतु' इति, 'उदकाप्रतिपत्तिवद्वा धूमेनाग्निप्रतिपत्तिरपि मा भूत् ' इति / किं कारणम् ?, यथा खल्वर्था भवन्ति= य एषां स्वो भावः = स्वो धर्म इति तथाभूताः प्रमाणेन प्रतिपद्यन्ते इति- तथाभूतविषयकं हि प्रमाणमिति / इमौ खलु नियोगप्रतिषेधौ भवता देशितौ- काचाभ्रपटलादिवद्वा कुड्यादिभिरप्रतिघातो भवतु. कुड्यादिवद्वा काचाभ्रपटलादिभिरप्रतिघातो मा भूत्. इति, न- दृष्टानुमिताः खल्विमे द्रव्यधर्माः= प्रतिघाताप्रतिघातयोर्हि उपलब्ध्यऽनुपलब्धी व्यवस्थापिके- व्यवहितानुपलब्ध्याऽनुमीयते- कुड्यादिभिः प्रतिघातः, व्यवहितोपलब्ध्याऽनुमीयते- काचाभ्रपटलादिभिरप्रतिघात इति // 50 // सूत्रार्थः / व्याचष्टे- प्रमाणस्येति, सूत्रोक्तार्थे हेतुवाक्यमिदम् , प्रमाणस्य तत्त्वविषयत्वात्= अबाधितार्थविषयकत्वात् काचादीनां वास्तवं यत्स्वरूपं तदेव प्रमाणेन सिध्यति न तु तर्कमात्रेण दृष्टान्ताभासमात्रेण वा तद्विपर्ययः संभवति येन काचादिवत् कुड्यादीनामप्रतिघातकत्वं कुड्यादिवत् काचादीनां प्रतिघातकत्वं वा सिध्येदित्यर्थः / दृष्टानुमितेषु नियोगासंभवमाह- नेति, एवम्= प्रतिघातका अप्रतिघातका वा, अत्र 'हे अर्थाः' इतिशेषः / प्रतिषेधासंभवमाह- नापीति / नियोगासंभवमुदाहरति- नहीति, 'गन्धः चाक्षुषः चक्षुह्यो भवतु' इति नियोगो नोपपद्यते / प्रतिषेधासंभवमुदाहरति- गन्धवदिति, 'रूपं चाक्षुषं मा भवतु' इति प्रतिषेधोपि नोपपद्यते, किं तु गन्धः स्वभावेन ब्राणग्राह्य एव रूपं च चक्षुर्माद्यमेवेति तादृश. स्वभावस्याऽन्यथाभावो न संभवतीत्यर्थः / पुनर्नियोगासंभवमुदाहरति- अग्नीति, 'अग्निप्रतिपत्तिवत्= अग्निज्ञानवाद् धूमेन जलज्ञानम्= जलसिद्धिर्भवतु' इति नियोगो नोपपद्यते, पुनर्निषेधासंभवमुदाहरतिउदकेति, 'धूमेन यथा जलसिद्धिर्न भवति तथाग्निसिद्धिरपि मा भवतु ' इति प्रतिषेधोपि नोपपद्यते, किं तु धूमस्यायं स्वभाव एव यत्स्वसत्तयाग्निसत्तां गमयति जलसत्तां च न गमयतीति. तादृशस्वभावस्य चान्यथाभावो नियोगप्रतिषेधाभ्यां न संभवतीत्यर्थः। नियोगप्रतिषेधयोरनुपपत्तौ कारणं जिज्ञासतेकिमिति / कारणमाह- यथेति, पदार्था यादृशा यादृशधर्मविशिष्टाश्च भवन्ति तादृशा एव प्रमाणेन विज्ञायन्ते नान्यथाभूता इत्यर्थः / उक्ते हेतुमाह- तथाभूतेति, तथाभूतविषयकम्= यथार्थग्राहकमेव ज्ञानं प्रमाणमित्युच्यते विपरीतग्राहकत्वे तस्य प्रामाण्यमेव न स्यादित्यर्थः / पूर्वपक्षिणा नेतरेतिसूत्रभाष्ये निर्दिष्टौ नियोगप्रतिषेधावनुवदति- इमौ इति, देशितौ= निर्दिष्टौ, काचाघ्रतिनियोगः, कुड्यादिवदिति प्रतिषेधः, अप्रतिघातो मा भूत्= प्रतिघातो भवत्वित्यर्थः / उक्तनियोगप्रतिषेधौ परिहरति- नेति, नेदमुपपद्यते इत्यर्थः / नेत्यत्र तन्नेतिवक्तव्यमासीत् / परिहारहेतुमाह- दृष्टेति, इमे= प्रतिघातकत्वादयः, द्रव्यधर्माः- कुड्यादिधर्माः / प्रतिघाताप्रतिघातयोरनुमानमाह- प्रतिघातेति, कुड्यादिभिर्व्यवहितस्यानुपलब्ध्या कुड्यादिभिश्चक्षुरश्मेः प्रतिघातोऽनुमीयते इत्यनुपलब्धिः प्रतिघातस्य व्यवस्थापिका तथा चानुपलब्ध्या व्यवस्थितस्यानुमितस्य च कुड्यादीनां प्रतिघातकत्वधर्मस्य काचादिदृष्टान्तमात्रेण परिलोपो न संभवति, काचादिभिश्च व्यवहितस्योपलब्ध्या काचादिभिश्चक्षुरश्मेरप्रतिघातोनुमीयते इत्युपलब्धिरप्रतिघातस्य व्यवस्थापिका तथा चोपलब्ध्या व्यवस्थितस्यानुमितस्य च काचादीनामप्रतिघातकत्वधर्मस्य कुड्यादिदृष्टान्तमात्रेण परिलोपो न संभवतीति भौतिकस्यापि चक्षुरश्मेः कुड्यादिभिः स्वाभाव्यात् प्रतिघातः काचादिभिश्च स्वाभाव्यादप्रतिघातः संभवतीति न भौतिकत्वानुपपत्तिर्न वा इतरेतरधर्मापत्तिप्रसङ्ग इत्यर्थः / काचकुड्यादिपदार्थधर्मेण चक्षुरादीन्द्रियाणां भौतिकत्वव्याहतिरनुपपन्नेत्याशयः // 50 // // इत्येवमिन्द्रियाणां भौतिकत्वमुपपादितम् //