________________ 258 प्रसन्नपदापरिभूषितम्- [3 अध्याये. १आह्निकेकाचाभ्रपटलादिवद्वा कुड्यादिभिरप्रतिघातः, कुड्यादिवद्वा काचाभ्रपटलादिभिः प्रतीघात इति प्रसज्यते, नियमे कारणं वाच्यमिति // 48 // आदर्शोदकयोः प्रसादस्वाभाव्याद् रूपोपलब्धिवत्तदुपलब्धिः // 19 // . ___आदर्शोदकयोः प्रसादः= रूपविशेषः स्वो धर्मः- नियमदर्शनात् , प्रसादस्य वा स्वो धर्मो रूपोपलम्भनम् , यथाऽऽदर्शप्रतिहतस्य परावृत्तस्य नयनरश्मेः स्वेन मुखेन संनिकर्षे सति स्वमुखोपलम्भनं प्रतिबिम्बग्रहणाख्यम् आदर्शरूपानुग्रहात् तन्निमित्तं भवति- आदर्शरूपोपघाते तदभावात्. कुड्यादिषु च प्रतिबिम्बग्रहणं न भवति, एवं काचाभ्रपटलादिभिरविघातश्चक्षुरश्मेः कुड्यादिभिश्च प्रतिघात:- द्रव्यस्वभावनियमादिति // 49 // दृष्टानुमितानां नियोगप्रतिषेधानुपपत्तिः // 50 // द्यन्तरितस्य संयोगाभावेपि ग्रहणादप्राप्यकारित्वमिन्द्रियाणां प्राप्तं तेन चाभौतिकत्वं प्राप्तं भौतिकानां प्राप्यकारित्वनियमादिति सूत्रार्थः / व्याचष्टे- काचेति, इन्द्रियाणामप्रतिघातेनाऽभौतिकत्वं प्रतिघातेन च भौतिकत्वं प्रसज्यते इत्याशयः। नियमे= उक्तप्रतिघाताप्रतिघातयोरेकतरपक्षग्रहणे, कारणम्= नियामकं वक्तव्यम् / स्पष्टमन्यत् // 48 // उक्तस्योत्तरमाह- आदर्शेति, आदर्शोदकयोः प्रसादस्वाभाव्यात्= स्वच्छत्वाद् आदर्श उदकादौ च रूपस्य स्वरूपस्य= प्रतिबिम्बस्योपलब्धिर्यथा भवति तथा तत्= तस्य= काचाद्यन्तरितस्योपलब्धिर्भवतीति काचादिभिश्चक्षुरश्मेः प्रतिघातो न भवति कुड्यादिभिश्च भवतीत्यत्र वस्तुस्वरूपमेव नियामकं तथा च भौतिकस्यापि प्रतिघाताप्रतिघातयोर्व्यवधायकवस्तुस्वभावेनोपपन्नत्वात् चक्षुरश्मेभौतिकत्वे न काचादिना प्रतिघातापत्तिरिति न वोक्तेतरेतरधर्मप्रसङ्गश्च, चक्षुरश्मेभौतिकत्वे चक्षुषोपि भौतिकत्वं स्पष्टमेव प्राप्तमिति सूत्रार्थः / व्याचष्टे- आदर्शति, प्रसादः= स्वच्छता, प्रसादपदार्थमाह- रूपेति, स्वो धर्मः= आदर्शादिधर्मः / प्रसादस्यादर्शादिधर्मत्वे हेतुमाह-नियमेति, आदर्शादिषु नियमेन प्रसाददर्शनात् प्रसादस्याऽऽदर्शादिधर्मत्वं सिद्धम् / प्रसादधर्ममाह-प्रसादस्येति, वा= च, रूपोपलम्भनम्= प्रतिबिम्बग्रहणम् / उदाहरति- यथेति, आदर्शोपरि प्रतिघातेन परावृत्तो नयनरश्मिीवास्थमेव स्वमुखं गृह्णाति तदेव प्रतिबिम्बग्रहणमित्युच्यते इति शास्त्रज्ञेषु प्रसिद्धमेव, न तु दर्पणे स्वमुखग्रहणं भवति- दर्पणे स्वमु. खस्यासंभवात् , तच्च प्रतिबिम्बग्रहणम् आदर्शरूपस्यानुग्रहादाऽऽदर्शरूपसत्त्वे एव भवतीति तन्निमित्तम्आदर्शरूपनिमित्तकं भवतीत्यन्वयः, उक्ते हेतुमाह किं वा व्यतिरेकव्याप्तिमाह- आदर्शति, तदभावात्प्रतिबिम्बग्रहणाभावात् / कुड्यादिस्वभावमाह- कुड्यादिष्विति, उक्तप्रसादस्याभावादितिशेषः / पर्यवसितमाह- एवमिति, उक्ते हेतुमाह- द्रव्येति, द्रव्यस्य= व्यवधायकपदार्थस्याऽस्वच्छत्वे प्रतिघातः स्वच्छत्वेचाऽप्रतिघात इति, चक्षुरश्मेभौतिकत्वेपि व्यवधायकपदार्थस्य स्वच्छत्वाऽस्वच्छत्वाभ्यां प्रतिघाताप्रतिघातावुपपन्नाविति नोक्तेतरेतरधर्मापत्तिप्रसङ्ग इत्यर्थः // 49 // वस्तुस्वभावभूतस्य प्रसादाऽप्रसादादेरन्यथाभावो न संभवतीत्याह- दृष्टेति, दृष्टानामनुमितानां च पदार्थानां पदार्थधर्माणां च ' एवं भवत' इति नियोगः= शासनम् ‘एवं मा भवत' इति प्रतिषेधश्च नोपपद्यते. न हि वह्नेः 'शीतो भव' इति नियोगेन शीतत्वम् 'उष्णो मा भव' इति प्रतिषेधेन चोष्णत्व. निवृत्तिः संभवति. तथा च काचादीनामप्रतिघातकत्वधर्मस्य कुड्यादीनां च प्रतिघातकस्वधर्मस्य नियोगप्रतिषेधाभ्यां निवृत्तिनोपपद्यते इति भौतिकस्यापि चक्षुरश्मेः काचादिभिरप्रतिघातः कुड्यादिभिश्च प्रतिघातोप्युपपन्न इति प्रतिघाताप्रतिघाताभ्यामपि न भौतिकत्वानुपपत्तिर्न वेतरेतरधर्मापत्तिप्रसङ्ग इति