________________ इन्द्रियविवेचनम् ] न्यायभाष्यम् / 257 नामप्रतिघातः अप्रतिघातात् प्राप्तस्य ग्रहणमिति 2 / भर्जनकपालादिस्थं च द्रव्यमाग्नेयेन तेजसा दह्यते तत्राविघातात् प्राप्तिः प्राप्तौ तु दाह:- नामाप्यकारि तेज इति 3 / “अविघातात् " इति च केवलं पदमुपादीयते, कोयमविघातो नाम ?, अव्यूह्यमानावयवेन व्यवधायकेन द्रव्येण सर्वतो द्रव्यस्याऽविष्टम्भः= क्रियाहेतोरप्रतिबन्धः= प्राप्तेरप्रतिषेध इति, दृष्टं हि कलशनिषक्तानामपां बहिः शीतस्पर्शग्रहणम्. न चेन्द्रियेणासंनिकृष्टस्य द्रव्यस्य स्पर्शोपलब्धिः, दृष्टौ च प्रस्पन्दपरिस्रवौ, तत्र काचाभ्रपटलादिभिर्नायनरश्मेरप्रतिघाताद् विभिद्याऽर्थेन सह संनिकर्षादुपपन्नं ग्रहणमिति // 47 // न- इतरेतरधर्मप्रसङ्गात् // 48 // किं तु स्फटिकान्तरितस्यापि प्रकाशो भवत्येव. तत्राऽप्रतिघातात् प्राप्तस्य= प्रदीपरश्मिसंयुक्तस्य ग्रहणम्= प्रत्यक्षं जायते तदनेन भौतिकस्य प्रदीपरश्मेः स्फटिकादिना प्रतिघाताभावः सिद्ध इत्यर्थः / तृतीयवाक्यं व्याचष्टे- भर्जनेति, आग्नेयेन तेजसा= अग्नितेजसा, स्पष्टमिदमुदाहरणम् / स्वाभिप्रायमाह- तत्रेति, अविघातात्= अग्नितेजसो भर्जनकपालेनाऽप्रतिघातात् दाह्येन प्राप्तिः= संयोगो भवति. प्राप्तौ= तादृशसंयोगे च सति दाह्यस्य दाहो भवतीत्यन्वयः, उक्ते हेतुमाह- नेति, अप्राप्यकारि= स्वासंयुक्तदाहकं तेजो न भवतीति भर्जनकपालस्थस्य दाहेन तेन दाह्येन सह तेजस्संयोगः सिद्धस्तदनेन भौतिकस्यापि तेजसोऽप्रतिघात: सिद्धः एवं चक्षुरश्मेरपि भौतिकत्वेपि काचादिभिरप्रतिघातस्तेन काचाद्यन्तरितेन संयोगः सिद्ध इत्यर्थः / अविघातपदार्थनिरूपणमारभते- अविघातादिति, यदि सूत्रकारेणाविघातस्य विशेषणान्तरमुक्तं स्यात्तदा तत्साहाय्येनाविघातपदार्थनिर्णयः स्यादपि न चैवं कृतमित्यविघातपदार्थनिरूपणापेक्षा प्राप्तेत्यर्थः / अविघातपदार्थमाह- अव्यूह्येति, अव्यूह्यमानावयवेन= अविनश्यत्सान्तरावयवेन व्यवधायकेन भर्जनकपालादिद्रव्येण द्रव्यस्य= तेजःप्रभृतेः सर्वतः= सर्वात्मनाऽविष्टम्भः अनिरोध एवाऽविघातपदार्थ इत्यर्थः, अविष्टम्भपदार्थमाह- क्रियेति, दाहादिक्रियाहेतो ह्येन संयोगस्याप्रतिबन्ध एवाविष्टम्भपदार्थः / अप्रतिबन्धपदार्थमाह- प्राप्तेरिति, संयोगस्यानिरोध इत्यर्थः / उदाहरति- दृष्टमिति, बहिः= जलकलशोपरि हस्तसंयोगेन शीतस्पर्शग्रहणं स्पष्टमेव / स्वाभिप्रायमाह- न चेति, द्रव्यसंयोगाभावे तद्गुणस्य स्पर्शस्योपलब्धिर्न संभवतीति शीतस्पशोंपलब्ध्या त्वचो जलेन संयोगः सिद्धस्ततः कलशेनेन्द्रियस्य भौतिकस्याप्यऽप्रतिघातः सिद्ध इत्यर्थः / कलशादीनां यथान्तःप्रवेशे प्रतिबन्धकत्वं न भवति तथान्तस्स्थद्रव्यस्य बहिनिस्सरणेपि प्रतिबन्धकत्वं न भवतीत्याह- दृष्टाविति, प्रस्पन्दः= जलस्य कलशाहिर्निर्गमनम् , अधिकः प्रस्पन्द एव परिस्रवः / उपसंहरति- तत्रेति, प्रदर्शितदृष्टान्तवत् चक्षुरश्मेरपि काचादिभिरप्रतिघातात् विभिद्य काचाद्यन्तः प्रविश्य प्रकाश्येन संयोगो जायते तेन तस्य ग्रहणं भवतीति इन्द्रियाणां प्राप्यकारित्वं तेन च भौतिकत्वं सिद्धमित्यर्थः / " ग्रहणम्" इत्यत्र 'प्राप्यकारित्वम्' इति वक्तव्यमासीत् / अत्र- " यस्य द्रव्यस्य= भर्जनकपालादेरवयवा न व्यूह्यन्ते= पूर्वोत्पन्नद्रव्यारम्भकसंयोगनाशेन द्रव्यान्तरजनकसंयोगोत्पादनं व्यूहनं तन्न क्रियते तस्य द्रव्यस्य भर्जनकपालादेरव्यूह्यमानस्यावयवव्यूहनमवयविनोपीति अव्यूह्यमानस्येत्युक्तम् , तस्य भर्जनकपालादेरन्तरावयवयोंऽभि. संबन्धो वह्नः सोऽप्रतिघातः, एतदुक्तं भवति- सान्तरत्वादवयविद्रव्याणां तदविनाशेनाग्नेर्योऽनुप्रवेशः सोऽप्रतिघात इति, प्रवेशेऽप्रतिघातमुक्त्वा निस्सरणेप्यविघातमाह (दृष्टाविति)” इति तात्पर्यटीका // 47 // __पूर्वपक्षी परिहरति-नेति, इन्द्रियाणां काचादिभिरप्रतिघातो न युक्तः- अन्यथा काचादिभिरप्रतिघातेनेन्द्रियाणामभौतिकत्वं स्यात् कुड्यादिभिः प्रतिघातेन भौतिकत्वं च स्यादिति इतरेतरधर्मयोः= भौतिकत्वाभौतिकत्वधर्मयोः प्रसङ्गः प्राप्तः स च न युक्तः- भौतिकत्वाभौतिकत्वयोः परस्परं विरोधादिति तादृशप्रसङ्गनिवृत्त्यर्थमिन्द्रियाणां कुड्यादिभिरिव काचादिभिरपि प्रतिघातः स्वीकार्यस्तथा च काचा