________________ 256 प्रसन्नपदापरिभूषितम्- [3 अध्याये. १आह्निकेपाप्यकारित्वेऽपि तु काचाभ्रपटलस्फटिकान्तरितोपलब्धिर्न स्यात् ? अप्रतीघातात् संनिकर्षोपपत्तिः // 46 // न च काचोऽभ्रपटलं वा नायनरश्मि विष्टभ्नाति सोऽप्रतिहन्यमानः संनिकृष्यते इति // 46 // यश्च मन्यते- न भौतिकस्याप्रतिघात इति, तन्न आदित्यरश्मेः स्फटिकान्तरितेपि दाह्येऽविघातात् // 47 // 'आदित्यरश्मेरविघातात् ' ' स्फटिकान्तरितेप्यविघातात् ' 'दाह्येऽविधातात् ' अविघातादिति च पदाभिसंबन्धाद् वाक्यभेद इति. यथावाक्यं चार्थभेद इति , आदित्यरश्मिः कुम्भादिषु न प्रतिहन्यते- अविघातात् कुम्भस्थमुदकं तपति, प्राप्तौ हि द्रव्यान्तरगुणस्य उष्णस्य स्पर्शस्य ग्रहणं तेन च शीतस्पर्शाभिभव इति 1 / स्फटिकान्तरितेपि प्रकाशनीये प्रदीपरश्मीस्वाऽसंयुक्तग्राहकत्वे कुड्यान्तरितस्याऽनुपलब्धिर्न स्यात् किं तूपलब्धिरेव स्यात् न चैवमस्ति, तथा च कुडपान्तरितस्यानुपलब्ध्या प्राप्यकारित्वमिन्द्रियाणां सिद्धं तेन भौतिकत्वमपि सिद्धम्- प्राप्यकारित्व नियमस्य भौतिकधर्मत्वात्तथेन्द्रियार्थसंनिकर्षस्य प्रत्यक्षकारणत्वमपि सिद्धमित्यर्थः // 45 // पूर्वपक्षी प्रतिबन्द्या प्रत्यवतिष्टते-प्राप्येति, यदीन्द्रियाणां नियमेन प्राप्यकारित्वं स्यात्तदा काचाधन्तरितस्योपलब्धिर्न स्यात्- काचाद्यन्तरितेनेन्द्रियसंयोगासंभवादित्यन्वयः। अस्योत्तरं सूत्रेणाहअप्रतीघातादिति, काचादिस्वच्छद्रव्येण चक्षुरश्मेः प्रतिघातः= प्रतिबन्धः= व्यवधानम्= निरोधो न भवतीति काचाद्यन्तरितेनापि सह चक्षुरश्मेः संनिकर्ष उपपद्यते इति न काचाद्यन्तरितोपलब्ध्या इन्द्रि. याणामऽप्राप्यकारित्वं प्राप्नोतीति प्राप्यकारित्वं सिद्धमिति सूत्रार्थः / व्याचष्टे- न चेति, विष्टनाति= प्रतिबध्नाति= निरुणद्धि, सः= चक्षुरश्मिः काचादिना चाऽप्रतिहन्यमानः= अनिरुद्धः काचाद्यन्तरितेन संनिकृष्यते= संयुक्तो भवति तेन संयोगेन तस्य ग्रहणं भवतीति इन्द्रियाणां प्राप्यकारित्वं सिद्धं तेन भौतिकत्वम् इन्द्रियार्थसंनिकर्षस्य प्रत्यक्षकारणत्वं च सिद्धम् // 46 // परिहतु पूर्वपक्षमनुवदति- यश्चेति, भौतिकस्याऽप्रतिघातो न भवतीति इन्द्रियाणां चक्षुरश्मेर्वा यः काचादिभिरप्रतिघात उक्तः स भौतिकत्वपक्षे नोपपद्यते. अप्रतिघातपक्षे च भौतिकत्वं नोपपद्यते-भौतिकस्य प्रतिघातदर्शनादित्यर्थः / एतत्परिहरति- तन्नेति, भौतिकस्य प्रतिघातनियमो नोपपद्यते- भौतिकस्यापि सूर्यरश्मेरप्रतिघातदर्शनादित्यर्थः / उक्तपरिहारे सूत्रेण दृष्टान्तमाह- आदित्येति, काचाद्यन्तरितेपि दाह्ये पदार्थे सूर्यरश्मेरविघातात= अप्रतिघातात् , सूर्यरश्मेौतिकत्वं स्पष्टमेवेति भौतिकेनापि सूर्यरश्मिना काचाद्यन्तरितस्य दाहः= तापो भवत्येवेति तेन भौतिकस्याप्यऽप्रतिघातः सिद्धस्तथा च चक्षुषो भौतिकत्वेपि चक्षरश्मेः काचादिभिरप्रतिघात उपपन्नस्तेन प्राप्यकारित्वमिन्द्रियाणां सिद्धं तेन च भौतिकत्वमपि सिद्धमिति सूत्रार्थः / व्याचष्टे- आदित्येति, सूत्रघटकस्य "अविघातात् " इतिपदस्य सूत्रघटकपदत्रयेण प्रत्येकमन्वयात् त्रिधा वाक्यं विभक्तं तदेवाह- अविघातादिति, सूत्रघटकस्य "अविघातात्" इतिपदस्य "आदित्यरश्मः " इत्यादिपदत्रयेण प्रत्येकमभिसंबन्धात्= अन्वयादित्यर्थः, यथावाक्यम् प्रतिवाक्यम् / "आदित्यरश्मेरविघातात्" इति प्रथमवाक्यं व्याचष्टे- आदित्येति, कुम्भादिषु= कुम्भादिना, न प्रतिहन्यतेन निरुध्यते, पर्यवसितमाह- आविघातादिति, पिहितमुखेपि कुम्भे स्थितमुदकमादित्यरश्मिस्तापयतीति स्पष्टमेव, उक्ते विनिगमनामाह-प्राप्ताविति, प्राप्तौ संयोगेजलरश्मिसंयोगे सत्येव द्रव्यान्तरगुणस्य= सूर्यरश्मिगुणभूतस्योष्णस्पर्शस्य जलेन ग्रहणं भवति तेन गृहीतोष्णस्पर्शेन च शीतस्पर्शस्याभिभवो भवति तदनेन भौतिकस्य सूर्यरश्मेः कुम्भादिना प्रतिघाताभावः सिद्ध इत्यर्थः / द्वितीयवाक्यं व्याचष्टेस्फटिकान्तरितेपीति, प्रकाशनीये चित्रादौ स्फटिकान्तरितेपि सति प्रदीपरश्मीनां प्रतिघातो न भवति