________________ न्यायभाष्यम्। इन्द्रियविवेचनम् / इन्द्रियार्थसंनिकर्षस्य ज्ञानकारणत्वानुपपत्तिः, कस्मात् ?अप्राप्य ग्रहणम्- काचाभ्रपटलस्फटिकान्तरितोपलब्धेः // 44 // तृणादि सर्पद् द्रव्यं काचेऽभ्रपटले वा प्रतिहतं दृष्टम् , अव्यवहितेन संनिकृष्यते. व्याहन्यते वै प्राप्तिर्व्यवधानेनेति, यदि च रश्म्यर्थसंनिकों ग्रहणहेतुः स्यात् ? न व्यवहितस्य संनिकर्ष इत्यग्रहणं स्यात् , अस्ति चेयं काचाऽभ्रपटलस्फटिकान्तरितोपलब्धिः सा ज्ञापयति- अप्राप्यकारीणीन्द्रियाणि (इति). अत एवाऽभौतिकानि- प्राप्यकारित्वं हि भौतिकधर्म इति // 44 // कुड्यान्तरितानुपलब्धेरप्रतिषेधः // 45 // अप्राप्यकारित्वे सतीन्द्रियाणां कुड्यान्तरितस्यानुपलब्धिर्न स्यात् // 45 // अत्र-- " यथा वृषदंशप्रभृतीनां कुड्यादिभी रश्मय आत्रियन्ते तथा मनुष्याणामपीति समानमेवेति" इतिवार्तिकम् // 43 // ___काचादिना व्यवहितस्यापि प्रत्यक्षं भवति तेन चक्षुरर्थसंनिकर्षस्य प्रत्यक्षकारणत्वं नोपपद्यते अन्यथा काचादिना व्यवहितस्य प्रत्यक्षं न स्यात्- व्यवधानेन चक्षुरर्थसंनिकर्षस्यासंभवात् तथा च न चक्षुरश्मेरपेक्षा- संनिकर्षाथमेव चक्षुरश्मे: कल्पनादिति पूर्वपक्षमुत्थापयति- इन्द्रियेति / उक्ते हेतुं जिज्ञासते- कस्मादिति / पूर्वपक्षी सूत्रेणोत्तरमाह- अप्राप्येति, अभ्रपटलम्= अभ्रकखण्डः, काचाद्यन्तरितस्य= काचाद्यभ्यन्तःस्थितस्य= काचादिव्यवहितस्यापि चक्षुषोपलब्धिर्भवति तेन चक्षुष: अप्राप्य: असंयुज्य पदार्थग्रहणमनुमीयते यदि चक्षुः स्वसंयुक्तस्यैव ग्राहकं स्यात्तदा काचाद्यन्तरितस्य ग्रहणं न स्यात्- संयोगासंभवात् , यदा चासंयुक्तस्यापि ग्रहणं संभवति तदा चक्षुरश्मिर्न स्वीकार्य:- संयोगार्थमेव तत्स्वीकारस्यावश्यकत्वादिति सूत्रार्थः / व्याचष्टे-तृणादीति, तृणादि सर्पत्= जङ्गमम् काचाद्यधोभागे निक्षेप्तुं योग्यं द्रव्यं काचे= काचाधोभागे अभ्रपटले= अभ्रकखण्डाधोभागे वा प्रतिहतम्निक्षिप्तं दृष्टम्= चक्षुषा दृश्यते एव, संनिकर्षश्वाऽव्यवहितेन संभवति. व्यवधानेन तु प्राप्तिः संनिकों ध्याहन्यते तथा च काचाद्यन्तर्निक्षिप्तेन चक्षुस्संनिकर्षों न संभवति चक्षुषा ग्रहणं तु तस्य भवतीति ज्ञायतेऽसंनिकृष्टस्यापि चक्षुषा ग्रहणं भवतीति नेन्द्रियार्थसंनिकर्षस्य ज्ञानकारणत्वमुपपद्यते इत्यर्थः / विपक्षे बाधकमाह- यदीति, चक्षुरश्मेरर्थस्य च यः संनिकर्षस्तस्य प्रत्यक्षकारणत्वे काचाद्यन्तरितस्य व्यवहितत्वेन संनिक भावाद् ग्रहणं न स्यात् चक्षुषेत्यन्वयः, भवति च काचाद्यन्तरितस्यापि उपलब्धिःचक्षुषा ग्रहणमिति सा= उपलब्धिः 'अप्राप्यकारीणि= असंयुक्तग्राहकाणीन्द्रियाणि' इति ज्ञापयति. असंयुक्तग्राहकत्वे च सिद्धे चक्षरश्मेरपेक्षा नास्ति- विषयसंयोगार्थमेव तत्स्वीकारस्यावश्यकत्वादिति * चक्षुरश्मेरसंभवः प्राप्त इत्यर्थः / उक्तन्यायमन्यत्रातिदिशति- अत इति, अतः= अप्राप्यकारित्वात्असंयुक्तग्राहकत्वादेवाऽभौतिकानीन्द्रियाणीत्यपि प्राप्तमित्यन्वयः / उक्ते हेतुमाह-प्राप्येति, प्राप्यकारित्वं भौतिकपदार्थधर्मोस्ति, इन्द्रियेषु च प्राप्यकारित्वनिवृत्त्या भौतिकत्वमपि निवृत्तमित्यर्थः / / 44 // इन्द्रियाणामुक्तमऽप्राप्यकारित्वं निराकरोति-नेति / अत्र सूत्रमाह- कुड्येति, इन्द्रियाणां प्राप्यकारित्वस्य= संयुक्तग्राहकत्वस्य किं वेन्द्रियार्थसंनिकर्षस्य ज्ञानकारणत्वे यः प्रतिषेध उक्तः स नोपपद्यते इत्यऽप्रतिषेध एव- कुड्यान्तरितानुपलब्धेः= कुडयादिना व्यवहितस्य चक्षुरादिना प्रत्यक्षं न जायते तेन ज्ञायते स्वसंयुक्तप्राहकाणीन्द्रियाणि तेनेन्द्रियार्थसंनिकर्षस्य प्रत्यक्षकारणत्वमपि सिद्धम् अन्यथा कुडयादिना व्यवहितम्यापि प्रत्यक्षं स्यादिति सूत्रार्थः / व्याचष्टे- अप्राप्येति, इन्द्रियाणामऽप्राप्यकारित्वे=