________________ 254 प्रसन्नपदापरिभूषितम्- [3 अध्याये. १आह्निके-- बाह्यप्रकाशानुग्रहनिरपेक्षतायां चेति चार्थः, यद् रूपमभिव्यक्तम्= उद्भूतं बाह्यप्रकाशानुग्रहं च नापेक्षते तद्विषयोऽभिभवः- विपर्ययेऽभिभवाभावात्= अनुभूतरूपत्वाच्चाऽनुपलभ्यमानं बाह्यप्रकाशानुग्रहाचोपलभ्यमानं नाभिभूयते इति, एवमुपपन्नम्- अस्ति चाक्षुषो रश्मिरिति // 42 // नक्तञ्चरनयनरश्मिदर्शनाच // 43 // दृश्यते हि नक्तं नयनरश्मयो नक्तश्चराणां वृषदंशप्रभृतीनां तेन शेपस्यानुमानमिति / जातिभेदवदिन्द्रियभेद इति चेत् ?, धर्मभेदमात्रं चानुपपन्नम्- आवरणस्य प्राप्तिप्रतिषेधार्थस्य दर्शनादिति // 43 // च चक्षुरश्मेरनुपलब्धिकारणमनुद्भूतरूपत्वमेव न त्वभिभव इति सूत्रार्थः। अभिव्यक्ती= पदार्थस्याभिव्यक्तिसंभवे एवाऽभिभवात्= अभिभवसंभवात् यथोल्काया इति च सूत्रान्वयः। व्याचष्टे- बाह्येति, चार्थः= सूत्रघटकचकारस्यार्थः, सूत्रघटकचकारेण बाह्यप्रकाशानुग्रहनिरपेक्षता ग्राह्येत्यर्थः, यस्योल्कादिप्रकाशस्य स्वयंप्रकाशत्वेन ब्राह्यप्रकाशानुग्रहापेक्षा स्वाभिव्यक्तौ न भवति तस्य मध्यन्दिने प्रत्यक्षाभावोऽभिभवादुपपद्यते नान्यस्य बाह्यप्रकाशसापेक्षस्येत्यर्थः / निगमयति- यदिति, अभिव्यक्तपदार्थमाह- उद्भूतमिति, तद्विषयः= एतादृशोल्कादिप्रकाशविषयोऽभिभवः संभवतीत्यन्वयः / विपर्यये बाधकमाह- विपर्ययेति, उद्भूतमपि घटादिरूपं बाह्यप्रकाशसापेक्षत्वादेवाभिभवविषयो न भवति-न हि यद् यस्य प्रकाशकं भवति तदेव तस्याभिभावकं भवति, प्रकाशरूपत्वात्स्वाभिव्यक्तौ बाह्यप्रकाशनिरपेक्षोपि चक्षुरश्मिरतुद्भूतरूपत्वादेवाभिभवविषयो न भवति- उद्भूतरूपपदार्थस्यैवाभिभवसंभवादित्यर्थः / अभिभवाऽविषयमाह- अनुद्भूतेति, अनुद्भूतरूपत्वादनुपलभ्यमानं चक्षुरश्म्यादिकं नाभिभूयते. बाह्यप्रकाशानुग्रहाच्चोपलभ्यमानं घटादिकमपि नाभिभूयते इत्यन्वयः। उपसंहरति- एवमिति, एवम्= उक्तप्रकारेण चक्षुरश्मिरस्तीतिसिद्धम्- अन्यथा चक्षुषः स्वरूपेण महदणुव्यापनासंभवाद् महदणुग्राहकत्वं न स्यात् , चक्षुरश्मिश्च रात्रावपि नोपलभ्यते इति न तस्याभिभवः संभवतीति तदनुपलब्धिकारणमनुद्भूतरूपत्वमेव न त्वभिभव इत्यर्थः। वस्तुतस्तु नैतयुक्तं रात्रौ प्रकारविशेषेण स्वचक्षुरश्मेः प्रत्यक्षसंभवादित्यनुसधेयम् / / 42 / / चक्षुरश्मेः प्रत्यक्षमुदाहरति- नक्तमिति, नक्तञ्चरणाम्= रात्रौ संचारकुशलानां मार्जारादीना. मन्धकारे स्थितानां चक्षुरश्मिदृश्यते प्रत्यक्षेण तेन तदन्येषामपि चक्षुषो रश्मिरनुमीयते- अस्मदादिचक्षुः रश्मिविशिष्टं चक्षुष्टात् मार्जारचक्षुर्वदिति सिद्धः चक्षुरश्मिरिति सूत्रार्थः। व्याचष्टे- दृश्यन्ते इति, नक्तम् रात्रौ, नक्तञ्चराणाम्= रात्रौ संचारचतुराणां वृषदंशप्रभृतीनाम्= मार्जारप्रभृतीनामित्यन्वयः / पर्यवसितमाह- तेनेति, तेन= मार्जारादिचक्षुरश्मिदर्शनेन शेषस्य= मनुष्यादिचक्षुरश्मेरनुमानं भवति चक्षुष्टुसामान्यादित्यर्थः / ननु यथा मनुष्यत्वादिजात्यपेक्षया मार्जारत्वादिजातिभेदः स्पष्टस्तथा मनुष्यादिचक्षुरपेक्षया मार्जारादिचक्षुरपि विलक्षणमेवेति मार्जारादिचक्षुषो रश्मिविशिष्टत्वसंभवेपि मनुष्यादिचक्षुषो रश्मिविशिष्टत्वं नापद्यते इत्याशङ्कते- जातीति / उत्तरमाह- धर्मेति, धर्मिणः साम्ये धर्मभेदो . नोपपद्यते, जातिधर्मिभूतस्य शरीरस्य भेदेन मारित्वादिमनुष्यत्वादिजातिभेद उपपद्यते, यदा हि मनुष्यादीनां मार्जारादीनां च धर्मिभूतं चक्षुर्न विलक्षणम्- सर्वधर्मसाम्यात्तदा मार्जारादीनां चक्षुः रश्मिविशिष्टं मनुष्यादीनां चक्षुश्च रश्मिरहितमिति धर्ममात्रभेदो नोपपद्यते, धर्मभेदस्य धर्मिभेदाधीनत्वात् चक्षुर्लक्षणधर्मिणश्च भेदोऽनुपपन्न एवेत्यर्थः / उक्ते हेतुमाह- आवरणस्योते, प्राप्तिप्रतिषेधार्थस्य= इन्द्रियार्थसंनिकर्षनिरोधकस्यावरणस्योभयत्र दर्शनादित्यन्वयः, यथाऽऽवरणे सति मार्जारस्यापि तदावृतप्रत्यक्षं न भवति तथा मनुष्यादीनामप्यावृतप्रत्यक्षं न भवतीति सर्वत्र साम्यात् रश्मावपि साम्यं प्राप्तं तेन मार्जारादिचक्षुष इव मनुष्यादिचक्षुषामपि रश्मिविशिष्टत्वं प्राप्तमिति न चक्षुरश्मेरभावः संभवतीत्यर्थः /