________________ इन्द्रियविवेचनम् ] न्यायभाष्यम्। ___ 253 अपि= अनुमानतोऽनुपलब्धेरिति, एवमत्यन्तानुपलब्धोष्टप्रकाशो नास्ति. न त्वेवं चाक्षुषो रश्मिरिति // 40 // उपपन्नरूपा चेयम्बाह्यप्रकाशानुग्रहाद् विषयोपलब्धेरनभिव्यक्तितोऽनुपलब्धिः॥ 41 // बाह्येन प्रकाशेनाऽनुगृहीतं चक्षुर्विषयग्राहकम् . तदभावेऽनुपलब्धिः, सति च प्रकाशानुग्रहे रूपस्पर्शोपलब्धौ च सत्यां तदाश्रयस्य द्रव्यस्य चक्षुषा ग्रहणम् , रूपस्याऽनुभूतत्वात् सेयं रूपानभिव्यक्तितो रूपाश्रयस्य द्रव्यस्यानुपलब्धिदृष्टा, तत्र यदुक्तम्- " तदनुपलब्धेरहेतुः३३" इति. एतदयुक्तम् // 41 // कस्मात् पुनरभिभवोऽनुपलब्धिकारणं चाक्षुषस्य रश्मे!च्यते ? इति. अभिव्यक्तौ चाभिभवात् // 42 // पूर्वपक्षिणः एतत्= उच्यमानं सूत्रमेवोत्तरमस्तीत्यन्वयः / उक्तं परिहरति-नेति, लोष्टप्रकाशो नोपपद्यतेरात्रावप्यनुपलब्धेः, यदि लोष्टप्रकाशः सन्नेव दिने सूर्यप्रकाशकृताभिभवान्नोपलभ्येत तदा रात्रौ सूर्यप्रकाशकृताभिभवस्याभावादुपलभ्येतैव न च रात्रावप्युपलभ्यतेऽतो ज्ञायते लोष्टप्रकाशो नास्त्येव चक्षुरश्मिस्त्वनुमानेन रात्रौ च प्रत्यक्षेणाप्युपलभ्यते इति न तस्य लोष्टप्रकाशवदऽभाव उपपद्यते इति सूत्रार्थः / व्याचष्टे- अपीति, सूत्रघटकापिशब्देन लोष्टप्रकाशस्यानुमानतोप्यनुपलब्धिाह्या. चक्षुरश्मेस्त्वनुमानत उपलब्धिरेवेति व्यतिरेक इत्यर्थः। उपसंहरति- एवमिति, एवम्= उक्तप्रकारेणानुमानादिना / चक्षुरश्मिस्त्वेवम्= अत्यन्तानुपलब्धिविषयो नास्ति- उक्तानुमानेन लभ्यमानत्वादिति सिद्ध एवेत्यर्थः // 40 // अग्रिमसूत्रमवतारयति, उपपन्नेति, उपपन्नरूपा चेयम्= चक्षुरश्मेरनुपलब्धिरनभिव्यक्तितः= अभिव्यञ्जकासंभवादित्यन्वयः / अनुपलब्धिमुपपादयति- बाह्येति, घटादिविषयाणामुद्भूतरूपवतां 'बाह्यप्रकाशेन= सूर्यादिप्रकाशेन चक्षुषोऽनुग्रहादुपलब्धिर्भवति- बाह्यप्रकाशेनाऽभिव्यक्तिसंभवात्. चक्षुरश्मेश्चानुद्भूतरूपत्वेन बाह्यप्रकाशेनाप्यभिव्यक्तिर्न संभवतीति हेतोरेव सतोपि चक्षुरश्मेरनुपलब्धिरुपपन्नेति न तदभावः संभवतीति सूत्रार्थः / व्याचष्टे- बाह्येनेति, बाह्यप्रकाशेन= सूर्यादिप्रकाशेन, अनुगृहीतम्= सहकृतम् , भवतीतिशेषः / तदभावे= बाह्यप्रकाशकृतानुग्रहाभावे घटादीनामप्युपलब्धिर्न भवति / उपलब्धिप्रयोजकमाह- सतीति, रूपस्पर्शयोः पुरस्कारेणैव द्रव्यप्रत्यक्षं भवतीति तयोरुपलब्धौ सत्यामेव द्रव्यप्रत्यक्षं संभवतीत्यर्थः, तदाश्रयस्य उद्भूतरूपस्पर्शयोराश्रयस्य / अनुपलब्धिप्रयोजकमाहरूपस्येति, रूपाश्रयस्यापि द्रव्यस्य सा चेयमनुपलब्धिः रूपस्याऽनुद्भूतत्वे रूपानभिव्यक्तितो दृष्टासिद्धास्तीति चक्षुरश्मे रूपस्याप्यनुद्भूतत्वेनाऽभिव्यक्तरभावादेव चक्षुरश्मेः सतोपि रूपविशिष्टस्यापि चानुपलब्धिरुपपद्यते इति नाभावः प्रसज्यते इत्यर्थः। उपसंहरति- तत्रेति, तथा च तद्नुपलब्धेरितिकथनमयुक्तमेव- उक्तरीत्या चक्षुरश्मेः सत्त्वस्यानुपलब्धेश्वोपपादितत्वादित्यर्थः // 41 // ननु चक्षुरश्मेरनुपलब्धिकारणमनुद्भूतरूपत्वमुक्तं तत्राभिभव एवानुपलब्धिकारणं किं नोच्यते इति जिज्ञासते- कस्मादिति, अभिभवस्यानुपलब्धिकारणत्वे राबावुपलब्धिः स्यादेव- अभिभावकस्य सूर्यप्रकाशादेरभावादित्याशयः / सूत्रेणोत्तरमाह- अभिव्यक्ताविति, अभिव्यक्तौ= उद्भूतरूपवत्त्वे सिद्धे सति किं वा बाह्यप्रकाशाभावकाले प्रत्यक्षे सिद्धे सति बाह्यप्रकाशकाले प्रत्यक्षाभावेनाऽभिभवात्= अभिभवः कल्प्यते मध्यन्दिनोल्काप्रकाशस्येव. चक्षुरश्मिश्च नान्धकारपि प्रत्यक्षो भवति येन बाह्यप्रकाशेन तस्याभिभवः कल्प्येत, उल्का तु रात्रौ प्रकाशते इति दिने तस्या अभिभवः कल्प्यते, प्रत्यक्षाभावेन चक्षुरश्मेरभावस्तु न संभवति- चक्षुषः स्वरश्मिद्वारैवोक्तरीत्या महदणुप्राहकत्वसंभवात् , तथा