________________ 252 प्रसन्नपदापरिभूषितम्- [3 अध्याये. १आह्निकेउपपद्यते चानुपलब्धिः कारणभेदात् मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः // 39 // यथाऽनेकद्रव्येण समवायाद्रूपविशेषाञ्चोपलब्धिरिति सत्युपलब्धिकारणे मध्यन्दिनोल्काप्रकाशो नोपलभ्यते आदित्यप्रकाशेनाऽभिभूतः, एवं महदनेकद्रव्यवत्त्वाद् रूपविशेषाच्चोपलब्धिरिति सत्युपलब्धिकारणे चाक्षुषो रश्मिनॊपलभ्यते निमित्तान्तरतः, तच्च व्याख्यातम्अनुद्भूतरूपस्पर्शस्य द्रव्यस्य प्रत्यक्षतोऽनुपलब्धिरिति, अत्यन्तानुपलब्धिश्चाभावकारणम् // 39 // यो हि ब्रवीति- लोष्टप्रकाशो मध्यन्दिने आदित्यप्रकाशाभिभवान्नोपलभ्यते इति, तस्यैतत्स्यात न-रात्रावप्यनुपलब्धेः॥ 40 // उत्तरमाह- यस्मादिति, भौतिकानामपि प्रदीपादिरश्मीनामप्रतिघातो दृश्यते- काचाद्यन्तरितस्य प्रकाशनात्, भौतिकस्यापि पाचकस्य तेजसोऽप्रतिघातो दृश्यते- स्थाल्याधन्तरितस्य पाकात्. तथा चेन्द्रियाणामप्रतिघातेनाऽभौतिकत्वं न संभवति- अप्रतिघातस्य भौतिकेष्वपि दर्शनादित्यऽप्रतिघातेनापीन्द्रियाणां भौतिकत्वस्य बाधो न संभवतीत्यर्थः / “प्रदीपरश्मीनाम्" इति संबन्धसामान्ये षष्ठी वस्तुतस्तु 'प्रदीपरश्मिभिः' इति वक्तव्यमासीत् // 38 // " तदनुपलब्धेरहेतु:३३ " इत्यनेन सतो नेत्ररश्मेरनुपलब्ध्यनुपपत्तिः प्रतिपादिता तत्खण्डनमारभते- उपपद्यते इति, उपलब्धियोग्यस्यापि सतोप्यनुपलब्धिः कारणभेदात्= कारणविशेषादुपपद्यते यथा दिने सूर्यप्रकाशाभिभवेन तारकाणामनुपलब्धिर्भवतीत्यन्वयः। मध्येति- यथोल्काप्रकाशस्योपलब्धियोग्यस्यापि मध्यन्दिने= मध्याह्नकाले सूर्यप्रकाशकृताभिभवादनुपलब्धिरुपपद्यते तथा सतोपि तत्= तस्य= चक्षुरश्मेरनुद्भूतरूपत्वादनुपलब्धिरुपपद्यते- उद्भूतरूपस्पर्शानामेव द्रव्याणां प्रत्यक्षदर्शनादिति नाऽनुपलब्ध्या चक्षुरश्मेरभावः संभवतीति सूत्रार्थः / व्याचष्टे- यथेति, अनेकद्रव्येण समवायात्= अनेकावयववत्त्वात्= महत्त्वात् रूपविशेषात्= उद्भूतरूपवत्स्वाञ्चोपलब्धिः= चाक्षुषं प्रत्यक्षं भवति तत्रोल्काप्रकाशे महत्त्वादिलक्षणे प्रत्यक्षकारणे सत्यपि मध्यन्दिने सूर्यप्रकाशेनाभिभवादुल्काप्रकाशो यथा नोपलभ्यते इत्यन्वयः, प्रकृतमाह- एवमिति, प्रत्यक्षप्रयोजकं पुनर्वक्ति- महदिति, महदनेकद्रव्यवत्त्वात्= महदनेकावयववत्त्वात्= महत्त्वादिति यावद् रूपविशेषाञ्चोपलब्धिर्भवतीति नियमस्तत्र चक्षुरश्मौ महत्त्वस्य रूपस्य च प्रत्यक्षकारणस्य सत्त्वेपि निमित्तान्तरतः= उद्भूतरूपरहितत्वात् चक्षुरश्मि!पलभ्यते नैतावता तदभावः संभवतीत्यर्थः। उक्तं निमित्तान्तरमाह- तदिति, तत्= अनुपलब्धिकारणं निमित्तान्तरमनुद्भूतरूपत्वमनुतस्पर्शत्वं च " द्रव्यगुणधर्मभेदात् 35" इतिसूत्रे व्याख्यातमित्यन्वयः, व्याख्याताभिप्रायमाह- अनूनतेति, अनुद्भूतरूपस्य द्रव्यस्य चाक्षुषेण अनुभूतस्पर्शस्य च स्पार्शनेन प्रत्यक्षेणानुपलब्धिर्भवतीत्यन्वयः / अभावकारणीभूतामनुपलब्धिमाह- अत्यन्तेति, अत्यन्तानुपलब्धिः= सर्वैः प्रमाणैर्याऽनुपलब्धिः सैवाऽभा- . वसाधिका भवति चक्षुरश्मेश्चात्यन्तानुपलब्धिर्नास्ति- उक्तानुमानेन लभ्यमानत्वात् , तथा हि प्रतिघातेन चक्षुषो भौतिकत्वं सिद्धं भौतिकस्य च स्वरश्मि विना महदणुव्यापकत्वं न संभवति तेन महदणुग्राहकत्वं न संभवति. चक्षुषो महदणुग्राहकत्वं च प्रत्यक्षमेव तेन महदणुव्यापकत्वं प्राप्तं तच्च रश्मि विना न संभवतीत्यनुमानेन चक्षुरश्मिः सिद्ध इति न तस्यात्यन्तानुपलब्धिरुपपद्यते येनाभाव आपद्येतेत्यर्थः // 39 // पूर्वपक्षिकृतां प्रतिबन्दीमुपस्थापयति- यो हीति, ननु चक्षरश्मिवत् लोष्टप्रकाशोपि स्वीकार्यस्तस्यानुपलब्धिश्च सूर्यप्रकाशकृताभिभवादुपपद्यते. तत्र त्वया यथानुपलब्धिकारणे सत्यपि न लोष्टप्रकाशः स्वीक्रियते त्या मयापि चक्रश्मिन स्वीक्रियते इति पूर्वपक्ष्याशयः / अत्राह- तस्येति, तस्य= उक्त