________________ 251 इन्द्रियविवेचनम् ] न्यायभाष्यम्। द्रव्यविशेषे च प्रतीघातादावरणोपपत्तिर्व्यवहाराा, सर्वद्रव्याणां विश्वरूपो व्यूह इन्द्रियवत् कर्मकारितः पुरुषार्थतन्त्रः / कर्म तु धर्माधर्मभूतं चेतनस्योपभोगार्थमिति // 37 // अव्यभिचाराच्च प्रतिघातो भौतिकधर्मः // 38 // यश्चावरणोपलम्भादिन्द्रियस्य द्रव्यविशेषे प्रतिघातः स भौतिकधर्मः-- न भूतानि व्यभिचरति. नाभौतिकं प्रतिघातधर्मकं दृष्टमिति / अप्रतिघातस्तु व्यभिचारी- भौतिकाभौतिकयोः समानत्वादिति / यदपि मन्यते- प्रतिघाताद् भौतिकानीन्द्रियाणि अप्रतिघातादऽभौतिकानीति प्राप्तम्. दृष्टश्चाप्रतिघातः काचाभ्रपटलस्फटिकान्तरितोपलब्धेः, तन्न युक्तम् , कस्मात् ?. यस्माद् भौतिकमपि न प्रतिहन्यते- काचाभ्रपटलस्फटिकान्तरितप्रकाशात् प्रदीपरश्मीनाम् , स्थाल्यादिषु पाचकस्य तेजसोप्रतिघातः // 38 // वात् तथा च चक्षुरश्मौ रूपस्पर्शयोरनभिव्यक्तिः= अनुभूतता व्यवहारस्य क्लप्त्यर्था= सिद्धयर्थास्ति, चक्षुरश्मे रूपस्पर्शयोरुद्भूतत्वे व्यवहारसिद्धिर्न संभवति, चक्षुरश्मे रूपस्योद्भूतत्वेऽन्धकारेपि प्रकाशं विनैव घटादिकमुपलभ्येत वस्तुतोन्धकाराभाव एव स्यात्. स्पर्शस्य चोद्भूतत्वे तत्संबन्धेन पटादिकं नेत्रगोलकं च दह्येत दाहाभावेपि तप्तं स्यादेव सर्व चैतद् प्रत्यक्षविरुद्धमिति चक्षुरश्मे रूपस्पर्शावनुद्भूताविति स्वीक्रियते इत्यर्थः / आवरणोपपत्तिमाह- द्रव्येति, द्रव्यविशेषे= कुड्यादौ किं वाऽऽवृतघटादौ चक्षुरश्मेः प्रतीघातात्= निरोधात् आवरणोपपत्तिः= कुड्यादीनामावरणत्वोपपत्तिरपि व्यवहारार्था= प्रत्यक्षसिद्धव्यवस्थार्था, अन्यथाऽऽवृतस्यापि घटादेः प्रत्यक्षं स्यादित्यर्थः / उक्तप्रयोजकं सर्वत्रातिदिशति- सर्वेति, इन्द्रियवत् सर्वेषामपि द्रव्याणाम्= पदार्थानां यो विश्वरूपः= विविधरूपो व्यूहः= उत्पादः स कर्मकृतो भोगाधीनश्चेति भोगाविरोधेनैव तत्तत्पदार्थस्वरूपं निरूपणीयमित्याशयः / कर्मस्वरूपमाह- कर्मेति / भोगार्थम्= सुखदुःखादिभोगसाधनम् / / 37 // इन्द्रियाणां भौतिकत्वमाह- अव्यभिचारादिति, प्रतिघातः= केनचित् पदार्थेन निरोधः भौतिकधर्मः= भौतिकपदार्थधर्मः- अव्यभिचारात्. अव्यभिचरितस्य तद्धर्मत्वं च स्पष्टमेव यथा गन्धस्य पृथिवीधर्मत्वम् , इन्द्रियाणां च चक्षुरादीनां कुड्यादिभिः प्रतिघातः= निरोधः स्पष्ट एव- कुड्यादिभिर्व्यवहितस्य घटादेर्ग्रहणासंभवादिति प्रतिघातधर्मवत्त्वादिन्द्रियाणां भौतिकत्वम्= भूतकार्यत्वं सिद्धमिति सूत्रार्थः / व्याचष्टे- यश्चेति, कुड्यादिलक्षणावरणस्योपलम्भात्= प्राप्त्या व्यवधानेन द्रव्यविशेषे= तादृशावरणेनावृते घटादौ इन्द्रियाणां यः प्रतिघातः= निरोधः स भौतिकधर्म इत्यन्वयः, अत्र हेतुमाहनेति, भूताऽव्यभिचारित्वादित्यर्थः, भौतिकपदार्थमात्रस्य निरोधवत्त्वदर्शनात्. तथा च प्रतिघातधर्मवत्त्वादिन्द्रियाणामपि भौतिकत्वं सिद्धम् / विपक्षे बाधकमाह- नेति, अभौतिकं प्रतिघातधर्मकं न दृष्टमितीन्द्रियाणामपि प्रतिघातवत्त्वादभौतिकत्वं न संभवतीत्यर्थः / नन्विन्द्रियाणामप्रतिघातेन भौतिकत्वं किं न स्यादित्याशङ्कथाऽप्रतिघातस्य व्यभिचारित्वमाह- अप्रतिघात इति, अप्रतिघात:= अनिरोधस्तु भौतिकेपि भवति यथा प्रदीपरश्मेः काचादिनाऽप्रतिघातः, अभौतिकेपि भवति यथा वाय्वाकाशादौ- सर्वत्र प्रवेशादिति भौतिकाभौतिकयोस्तुल्यत्वादप्रतिघातो व्यभिचारीति न तेनेन्द्रियाणां भौतिकत्वं वाऽभौतिकत्वं वा संभवतीत्यर्थः / किं वा ननु काचाद्यन्तरितस्यापीन्द्रियैः प्रकाशदर्शनादप्रतिघातः प्राप्त इति तादृशाप्रतिघातेनेन्द्रियाणामभौतिकत्वमेव किं न स्यादित्याशङ्कयाह- अप्रतिघातस्त्विति / ननु यथेन्द्रियाणां प्रतिघातात् भौतिकत्वं प्राप्नोति तथैवाऽप्रतिघातादभौतिकत्वमपि प्राप्नोति अप्रतिघात. श्वेन्द्रियधर्मः प्रत्यक्ष एव- काचाद्यन्तरितस्य= काचादिव्यवहितस्योपलब्धेः, यदि तत्र प्रतिघातः स्यात्तदा काचाद्यन्तरितं नोपलभ्येत उपलभ्यते तु अतोऽप्रतिघातधर्मवत्त्वमिन्द्रियाणां सिद्धं तेनाऽभौतिकत्वं प्राप्तमिति मतमनुवदति- यदपीति / परिहरति- तन्नेति / उक्तस्यायुक्तत्वे हेतुं जिज्ञासते- कस्मादिति /