________________ 250 प्रसन्नपदापरिभूषितम्- [3 अध्याये. १आह्निकेपलब्धिः यदभावाच्च द्रव्यस्य कचिदनुपलब्धिः स रूपधर्मोयमुद्भवसमाख्यात इति, अनुभूतरूपश्चायं नायनो रश्मिः तस्मात् प्रत्यक्षतो नोपलभ्यते इति / दृष्टश्च तेजसो धर्मभेदः- उम्भूतरूपस्पर्श प्रत्यक्षं तेजो यथाऽऽदित्यरश्मयः, उद्भूतरूपमनुभूतस्पर्श च प्रत्यक्षम् ( तेजः ) यथा प्रदीपरश्मयः, उद्भूतस्पर्शमनुभूतरूपमप्रत्यक्षं यथाऽवादिसंयुक्तं तेजः, अनुभूतरूपस्पर्शोऽप्रत्यक्षवाक्षुषो रश्मिरिति // 36 // कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः // 37 // यथा चेतनस्यार्थो विषयोपलब्धिभूतः सुखदुःखोपलब्धिभूतश्च कल्पते तथेन्द्रियाणि व्यूढानि, विषयप्राप्त्यर्थश्च रश्मेश्चाक्षुषस्य व्यूहः, रूपस्पर्शानभिव्यक्तिश्च व्यवहारप्रक्लुप्त्या, महत्त्वं च भवति तत्= तादृशः आश्रयः किं वा महत्त्वोद्भूतरूपयोराश्रयः चाक्षुषप्रत्यक्षत उपलभ्यते, किं वा यत्र रूपम= उद्भूतरूपं भवति तदाश्रयो द्रव्यं प्रत्यक्षत उपलभ्यते इत्यन्वयः, अत्र 'उद्भूतरूपाश्रयो द्रव्यं प्रत्यक्षत उपलभ्यते' इति वक्तव्यमासीत् , वस्तुतस्तु रूपप्रत्यक्षप्रयोजकनिरूपणप्रकरणे वाक्यमिदमसंगतमेव / रूपविशेषपदार्थमाह-रूपेति, रूपविशेषः= रूपधर्म उद्भूतत्वं यत् यस्योद्भूतत्वस्य भावात्= सत्त्वात् कचिद् घटादौ रूपोपलब्धिर्भवति- घटादिरूपस्योद्भूतत्वात् तेन घटादेरप्युपलब्धिर्भवति, यत्= यस्योद्भूतत्वस्याभावात् कचित् कस्यचिद् द्रव्यस्य= उदाहृततैजसादिद्रव्यस्यानुपलब्धिर्भवतितत्रानुभूतत्वाद्रूपस्यानुपलब्धिस्तत एव द्रव्यस्यानुपलब्धि:-रूपप्रत्यक्षे सत्येव द्रव्यस्य चाक्षुषप्रत्यक्षसंभवात्, उपसंहरति- स इति, य उद्भवसमाख्यातः= उद्भूतत्वनामको रूपधर्मः स एवात्र सूत्रे रूपविशेषपदार्थः= रूपविशेषशब्देन ग्राह्य इत्यन्वयः / प्रकृतमाह- अनुभृतेति, उक्तरीत्योद्भूतरूपविशिष्टस्य चाक्षुषप्रत्यक्षं भवतीति सिद्धं चक्षुरश्मिश्च नोद्भूतरूपविशिष्ट इतिहेतोरेव सन्नपि न प्रत्यक्षेणोपलभ्यते इत्यन्वयः, तस्मात्= अनुभूतरूपत्वात् / तैजसश्चक्षुरश्मिः कथमनुभूतरूपः स्यादित्याशङ्कय तेजसः प्रकारविशेषानाहदृष्ट इति, अत्र- "चतुर्विधं च तेजो भवति" इतिवार्तिकम्, उदाहरति- उद्भूतेति, 1 तेजोद्रव्याणामादित्यरश्मीनां रूपस्पर्शयोरुद्भूतत्वाञ्चाक्षुषं स्पार्शनं च प्रत्यक्षं भवति, 2 तेजोद्रव्याणां प्रदीपरश्मीनां रूपस्योद्भूतत्वात् चाक्षुषं प्रत्यक्षं भवति स्पर्शस्य चानुभूतत्वात् स्पार्शनं प्रत्यक्षं न भवति, 3 अबादिसंयुक्तम्तप्तजलादिप्रविष्टं तेज उद्भूतस्पर्श भवतीति तस्य स्पार्शनं प्रत्यक्षं भवति. अनुभूतरूपं च भवतीति तस्य चाक्षुषं प्रत्यक्षं न भवति- चाक्षुषप्रत्यक्षं प्रत्युद्भूतरूपस्य कारणत्वात् , तथा च कस्यांचिवस्थायां जाटराग्नेरिव 4 चक्षुरश्मेरपि रूपस्पर्शयोरनुद्भूतत्वादेव प्रत्यक्षं न जायते न त्वऽसत्त्वादिति प्रत्यक्षेणानुपलभ्यमानोपि चक्षरश्मिः सिद्ध इत्याह- अनुभूत इति, अनुभृतौ रूपस्पशौं यस्य स इत्यन्वयः // 36 // ननु चक्षरश्मेरनुभूतस्पर्शरूपत्वे किं कारणमित्याशङ्कय तत्कारणमाह- कर्मेति, इन्द्रियाणां व्यूहःउत्पादः पुरुषार्थतन्त्र:= भोगाधीनः= भोगार्थः कर्मकारितः= कर्मकृतश्चास्ति तत्र यदि चक्षुरश्मे रूपस्पशौँ उद्भूतौ स्यातां तदा तैजसस्पर्शस्योष्णत्वनियमात्तादृशोष्णस्पर्शस्य सदा संसर्गात् चक्षुर्गोलकं दह्येत तथा च सर्वान्धत्वप्रसङ्गः स च प्रत्यक्षविरुद्धः, उद्भूतरूपस्य च चक्षुगोलकेन सदा संसर्गापत्त्या निद्रा न स्यादितिहेतोरेव भोगसिद्धयर्थमेव च चक्षुरश्मे रूपस्पर्शावनुभृतौ स्त इतिसूत्राशयः / अत्र- "रूपस्पर्शानभिव्यक्तिश्च व्यवहारक्लप्त्यर्था--यदि नायनो रश्मिरुद्भूतस्पर्शो भवेत् तेन दृश्यविशेषेऽनेकरश्मिसंनिपाते सति द्रव्यं दह्येत" इत्यादि वार्तिकम् / अत्र "व्यूहः= रचनाविशेषः” इतिवृत्तिः / व्याचष्टे- यथेति, चेतनस्य विषयोपलब्धिभूतः सुखदुःखोपलब्धिभूतश्वाऽर्थः= भोगः यथा= येन प्रकारेण कल्पते= संपद्यते= संभवति तथा= तेन प्रकारेणेन्द्रियाणि व्यूढानि= उत्पन्नानि प्राप्तानि वा सन्ति तथा चेन्द्रियाणां स्वरूपं तथैव वक्तव्यं यथा भोगस्य व्याघातो विरोधो वा न स्यादित्यर्थः / चक्षुरश्मिप्रयोजनमाह-विषयेति, चाक्षुषस्थ रश्मेश्च व्यूहः- उत्पादः प्राप्तिर्वा विषयप्राप्त्यर्थः= विषयोपलब्ध्यर्थ एव- प्रयोजनान्तगसंभ